श्रीमद्भागवत द्वादश स्कन्ध अध्याय 13
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.13.1
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर् वेदैः साङ्गपदक्रमोपनिषदैर् गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ 1 ॥
श्लोक 12.13.2
पृष्ठे भ्राम्यद् अमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः । यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां यातायातम् अतन्द्रितं जलनिधेर् नाद्यापि विश्राम्यति ॥ 2 ॥
श्लोक 12.13.3
पुराणसङ्ख्यासम्भूतिम् अस्य वाच्यप्रयोजने । दानं दानस्य माहात्म्यं पाठादेश् च निबोधत ॥ 3 ॥
श्लोक 12.13.4
ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च । श्रीवैष्णवं त्रयोविंशच् चतुर्विंशति शैवकम् ॥ 4 ॥
श्लोक 12.13.5
दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति । मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥ 5 ॥
श्लोक 12.13.6
चतुर्दश भविष्यं स्यात् तथा पञ्चशतानि च । दशाष्टौ ब्रह्मवैवर्तं लैङ्गम् एकादशैव तु ॥ 6 ॥
श्लोक 12.13.7
चतुर्विंशति वाराहम् एकाशीतिसहस्रकम् । स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ 7 ॥
श्लोक 12.13.8
कौर्मं सप्तदशाख्यातं मात्स्यं तत् तु चतुर्दश । एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ 8 ॥
श्लोक 12.13.9
एवं पुराणसन्दोहश् चतुर्लक्ष उदाहृतः । तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते ॥ 9 ॥
श्लोक 12.13.10
इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे । स्थिताय भवभीताय कारुण्यात् सम्प्रकाशितम् ॥ 10 ॥
श्लोक 12.13.11
आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् । हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् ॥ 11 ॥
श्लोक 12.13.12
सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् । वस्त्व् अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ 12 ॥
श्लोक 12.13.13
प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् । ददाति यो भागवतं स याति परमां गतिम् ॥ 13 ॥
श्लोक 12.13.14
राजन्ते तावद् अन्यानि पुराणानि सतां गणे । यावद् भागवतं नैव श्रूयते ऽमृतसागरम् ॥ 14 ॥
श्लोक 12.13.15
सर्ववेदान्तसारं हि श्रीभागवतम् इष्यते । तद्रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ 15 ॥
श्लोक 12.13.16
निम्नगानां यथा गङ्गा देवानाम् अच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानाम् इदम् तथा ॥ 16 ॥
श्लोक 12.13.17
क्षेत्राणां चैव सर्वेषां यथा काशी ह्य् अनुत्तमा । तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः ॥ 17 ॥
श्लोक 12.13.18
श्रीमद्भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते &अम्प्; तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यम् आविस्कृतं तच् छृण्वन् सुपठन् विचारणपरो भक्त्या विमुच्येन् नरः ॥ 18 ॥
श्लोक 12.13.19
कस्मै येन विभासितो ऽयम् अतुलो ज्ञानप्रदीपः पुरा तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा । योगीन्द्राय तद्आत्मनाथ भगवद्राताय कारुण्यतस् तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ 19 ॥
श्लोक 12.13.20
नमस् तस्मै भगवते वासुदेवाय साक्षिणे । य इदम् कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ 20 ॥
श्लोक 12.13.21
योगीन्द्राय नमस् तस्मै शुकाय ब्रह्मरूपिणे । संसारसर्पदष्टं यो विष्णुरातम् अमूमुचत् ॥ 21 ॥
श्लोक 12.13.22
भवे भवे यथा भक्तिः पादयोस् तव जायते । तथा कुरुष्व देवेश नाथस् त्वं नो यतः प्रभो ॥ 22 ॥
श्लोक 12.13.23
नामसङ्कीर्तनं यस्य सर्वपाप प्रणाशनम् । प्रणामो दुःखशमनस् तं नमामि हरिं परम् ॥ 23 ॥