मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 1

श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 2.1.1

वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ 1 ॥

श्लोक 2.1.2

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यताम् आत्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ 2 ॥

श्लोक 2.1.3

निद्रया ह्रियते नक्तं व्यवायेन च वा वयः । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ 3 ॥

श्लोक 2.1.4

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्न् अपि न पश्यति ॥ 4 ॥

श्लोक 2.1.5

तस्माद्भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ 5 ॥

श्लोक 2.1.6

एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभः परः पुंसाम् अन्ते नारायणस्मृतिः ॥ 6 ॥

श्लोक 2.1.7

प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ 7 ॥

श्लोक 2.1.8

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ 8 ॥

श्लोक 2.1.9

परिनिष्ठितो ऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ 9 ॥

श्लोक 2.1.10

तदहं ते ऽभिधास्यामि महापौरुषिको भवान् । यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती ॥ 10 ॥

श्लोक 2.1.11

एतन् निर्विद्यमानानाम् इच्छताम् अकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ 11 ॥

श्लोक 2.1.12

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह । वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ 12 ॥

श्लोक 2.1.13

खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्ताम् इहायुषः । मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् ॥ 13 ॥

श्लोक 2.1.14

तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः । उपकल्पय तत् सर्वं तावद्यत् साम्परायिकम् ॥ 14 ॥

श्लोक 2.1.15

अन्तकाले तु पुरुष आगते गतसाध्वसः । छिन्द्यादसङ्गशस्त्रेण स्पृहां देहे ऽनु ये च तम् ॥ 15 ॥

श्लोक 2.1.16

गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः । शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥ 16 ॥

श्लोक 2.1.17

अभ्यसेन् मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । मनो यच्छेज् जितश्वासो ब्रह्मबीजम् अविस्मरन् ॥ 17 ॥

श्लोक 2.1.18

नियच्छेद्विषयेभ्यो ऽक्षान् मनसा बुद्धिसारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ 18 ॥

श्लोक 2.1.19

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा । मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् । पदं तत् परमं विष्णोर्मनो यत्र प्रसीदति ॥ 19 ॥

श्लोक 2.1.20

रजस्तमोभ्याम् आक्षिप्तं विमूढं मन आत्मनः । यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ 20 ॥

श्लोक 2.1.21

यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः । आशु सम्पद्यते योग आश्रयं भद्रम् ईक्षतः ॥ 21 ॥

श्लोक 2.1.22

यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ 22 ॥

श्लोक 2.1.23

जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः । स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ 23 ॥

श्लोक 2.1.24

विशेषस्तस्य देहो ऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच् च सत् ॥ 24 ॥

श्लोक 2.1.25

अण्डकोशे शरीरे ऽस्मिन् सप्तावरणसंयुते । वैराजः पुरुषो यो ऽसौ भगवान् धारणाश्रयः ॥ 25 ॥

श्लोक 2.1.26

पातालम् एतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजो ऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ 26 ॥

श्लोक 2.1.27

द्वे जानुनी सुतलं विश्वमूर्तेर् ऊरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ 27 ॥

श्लोक 2.1.28

उरःस्थलं ज्योतिरनीकम् अस्य ग्रीवा महर्वदनं वै जनो ऽस्य । तपो वराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ 28 ॥

श्लोक 2.1.29

इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः । नासत्यदस्रौ परमस्य नासे घ्राणो ऽस्य गन्धो मुखम् अग्निरिद्धः ॥ 29 ॥

श्लोक 2.1.30

द्यौरक्षिणी चक्षुरभूत् पतङ्गः पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम् आपो ऽस्य तालू रस एव जिह्वा ॥ 30 ॥

श्लोक 2.1.31

छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥ 31 ॥

श्लोक 2.1.32

व्रीडोत्तरौष्ठो ऽधर एव लोभो धर्मः स्तनो ऽधर्मपथो ऽस्य पृष्ठम् । कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घाः ॥ 32 ॥

श्लोक 2.1.33

नाड्यो ऽस्य नद्यो ऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ॥ 33 ॥

श्लोक 2.1.34

ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्नः । अव्यक्तम् आहुर्हृदयं मनश्चस चन्द्रमाः सर्वविकारकोशः ॥ 34 ॥

श्लोक 2.1.35

विज्ञानशक्तिं महिम् आमनन्ति सर्वात्मनो ऽन्तःकरणं गिरित्रम् । अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे ॥ 35 ॥

श्लोक 2.1.36

वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः । गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसुरानीकवीर्यः ॥ 36 ॥

श्लोक 2.1.37

ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः ॥ 37 ॥

श्लोक 2.1.38

इयान् असावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते । सन्धार्यते ऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतो ऽस्ति किञ्चित् ॥ 38 ॥

श्लोक 2.1.39

स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः । तं सत्यम् आनन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः ॥ 39 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ