श्री रुद्रम् नमकम् अनुवाक 11
श्री रुद्रम् नमकम् अनुवाक 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् । तेषाꣳ सहस्रयोजनेऽवधन्वानि तन्मसि ॥ अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि ॥ नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥ नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा उपश्रिताः ॥ ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ॥ ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥ ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥ ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ॥ य एतावन्तश्च भूयाꣳसश्च दिशो रुद्रा वितस्थिरे । तेषाꣳ सहस्रयोजनेऽवधन्वानि तन्मसि ॥ नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु ॥ तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य । यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥ अयं मे हस्तो भगवानयं मे भगवत्तरः । अयं मे विश्वभेषजोऽयꣳ शिवाभिमर्शनः ॥ ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया सर्वानव यजामहे । मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ॥ प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः । तेनान्नेनाप्यायस्व ॥ ॐ नमो भगवते रुद्राय ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ११ ॥