मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण बालकाण्ड सर्ग 3

वाल्मीकि रामायण बालकाण्ड सर्ग 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

श्रुत्वा वस्तु समग्रम् तत् धर्म अर्ध सहितम् हितम् ।व्यक्तम् अन्वेषते भूयो यद्वृत्तम् तस्य धीमतः ॥१-३-१।॥

श्लोक 2

उपस्पृस्य उदकम् सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।प्राचीन अग्रेषु दर्भेषु धर्मेण अन्वेषते गतिम् ॥१-३-२।॥

श्लोक 3

राम लक्ष्मण सीताभिः राज्ञा दशरथेन च ।स भार्येण स राष्ट्रेण यत् प्राप्तम् तत्र तत्त्वतः ॥१-३-३।॥

श्लोक 4

हसितम् भाषितम् च एव गतिर्यायत् च चेष्टितम् ।तत् सर्वम् धर्म वीर्येण यथावत् संप्रपश्यति ॥१-३-४।॥

श्लोक 5

स्त्री तृतीयेन च तथा यत् प्राप्तम् चरता वने ।सत्यसन्धेन रामेण तत्सर्वम् च अन्ववेक्षत ॥१-३-५।॥

श्लोक 6

ततः पश्यति धर्मात्मा तत् सर्वम् योगमास्थितः ।पुरा यत् तत्र निर्वृत्तम् पाणाव आमलकम् यथा ॥१-३-६।॥

श्लोक 7

तत् सर्वम् तात्त्वतो दृश्ट्वा धर्मेण स महामतिःअभिरामस्य रामस्य तत् सर्वम् कर्तुम् उद्यतः ॥१-३-७।॥

श्लोक 8

कामार्थ गुण संयुक्तम् धर्मार्थ गुण विस्तरम् ।समुद्रम् इव रत्नाढ्यम् सर्व श्रुति मनोहरम् ॥१-३-८।॥

श्लोक 9

स यथा कथितम् पूर्वम् नारदेन महात्मना ।रघु वंशस्य चरितम् चकार भगवान् मुनिः ॥१-३-९।॥

श्लोक 10

जन्म रामस्य सुमहद् वीर्यम् सर्वानुकूलताम् ।लोकस्य प्रियताम् क्षान्तिम् सौम्यताम् सत्य शीलताम् ॥१-३-१०।॥

श्लोक 11

नाना चित्र कथाः च अन्याः विश्वामित्र सहायेन ।जानक्याः च विवाहम् च धनुषः च विभेदनम् ॥१-३-११।॥

श्लोक 12

राम राम विवादम् च गुणान् दाशरथेः तथा ।तथऽभिषेकम् रामस्य कैकेय्या दुष्ट भावताम् ॥१-३-१२।॥

श्लोक 13

विघातम् च अभिषेकस्य राघवस्य विवासनम् ।राज्ञः शोकम् विलापम् च पर लोकस्य च आश्रयम् ॥१-३-१३।॥

श्लोक 14

प्रकृतीनाम् विषादम् च प्रकृतीनाम् विसर्जनम् ।निषाद अधिप संवादम् सूतोपावर्तनम् तथा ॥१-३-१४।॥

श्लोक 15

गङ्गायाः च अपि संतारम् भरद्वाजस्य दर्शनम् ।भरद्वाज अभ्यनुज्ञात् चित्रकूटस्य दर्शनम् ॥१-३-१५।॥

श्लोक 16

वास्तु कर्म निवेशम् च भरत अगमनम् तथा ।प्रसादनम् च रामस्य पितुः च सलिल क्रियाम् ॥१-३-१६।॥

श्लोक 17

पादुका अग्र्य अभिषेकम् च नन्दि ग्राम निवासनम् ।दण्डकारण्य गमनम् विराधस्य वधम् तथा ॥१-३-१७।॥

श्लोक 18

दर्शनम् शरभङ्गस्य सुतीक्ष्णेन समागमम् ।अनसूया समाख्या च अङ्गराग्स्य च अर्पणम् ॥१-३-१८।॥

श्लोक 19

दर्शनम् च अपि अगस्त्यस्य धनुषो ग्रहणम् तथा ।शूर्पणखाः च संवादम् विरूपकरणम् तथा ॥१-३-१९।॥

श्लोक 20

वधम् खरः त्रिशिरसः उत्थानम् रावणस्य च ।मारीचस्य वधम् च एव वैदेह्या हरणम् तथा ॥१-३-२०।॥

श्लोक 21

राघवस्य विलापम् च गृध्र राज निबर्हणम् ।कबन्ध दर्शनम् च एव पम्पायाः च अपि दर्शनम् ॥१-३-२१।॥

श्लोक 22

शबरी दर्शनम् च एव फल मूल अशनम् तथा ।प्रलापम् च एव पम्पायम् हनुमद् दर्शनम् ॥१-३-२२।॥

श्लोक 23

ऋष्यमूकस्य गमनम् सुग्रीवेण समागमम् ।प्रत्ययोत्पादनम् सख्यम् वालि सुग्रीव विग्रहम् ॥१-३-२३।॥

श्लोक 24

वालि प्रमथनम् च एव सुगीव प्रतिपादनम् ।तारा विलापम् समयम् वर्ष रात्र निवासनम् ॥१-३-२४।॥

श्लोक 25

कोपम् राघव सिंहस्य बलानाम् उपसंग्रहम् ।दिशः प्रस्थापनम् च एव पृथिव्याः च निवेदनम् ॥१-३-२५।॥

श्लोक 26

अङ्गुलीयक दानम् च ऋक्ष्स्य बिल दर्शनम् ।प्रायोपवेशनम् च अपि संपातेः च अपि दर्शनम् ॥१-३-२६।॥

श्लोक 27

पर्वत आरोहणम् च अपि सागर्स्य अपि लङ्घनम् ।समुद्र वचनात् च एव मैनाकस्य च दर्शनम् ॥१-३-२७।॥

श्लोक 28

राक्षसी तर्जनम् च एव छाया ग्राहस्य दर्शनम् ।सिंहिकायाः च निधनम् लङ्का मलय दर्शनम् ॥१-३-२८।॥

श्लोक 29

रात्रौ लंका प्रवेशम् च एकस्य अपि विचिंतनम् ।आपान भूमि गमनम् अवरोधस्य दर्शनम् ॥१-३-२९।॥

श्लोक 30

दर्शनम् रावणस्य अपि पुष्पकस्य च दर्शनम् ।अशोक वनिकायानम् सीतायाः च अपि दर्शनम् ॥१-३-३०।॥

श्लोक 31

अभिज्ञन प्रदानम् च सीतायाः च अपि भाषणम् ।राक्षसी तर्जनम् च एव त्रिजटा स्वप्न दर्शनम् ॥१-३-३१।॥

श्लोक 32

मणि प्रदानम् सीतायाः वृक्ष भंगम् तथ एव च ।राक्षसी विद्रवम् चैव किंकराणाम् निबर्हणम् ॥१-३-३२।॥

श्लोक 33

ग्रहणम् वायु सूनोश्च लंका दाह अभिगर्जनम् ।प्रति प्लवनम् एव अथ मधूनाम् हरणम् तथा ॥१-३-३३।॥

श्लोक 34

राघव आस्वासनम् चैव मणि निर्यातनम् तथा ।संगमम् च समुद्रेण नल सेतोः च बन्धनम् ॥१-३-३४।॥

श्लोक 35

प्रतारम् च समुद्रस्य रात्रौ लंका अवरोधनम् ।विभीषणेन संसर्गम् वधोपाय निवेदनम् ॥१-३-३५।॥

श्लोक 36

कुम्भकर्णस्य निधनम् मेघनाद निबर्हणम् ।रावणस्य विनाशम् च सीतावाप्तिम् अरेः पुरे ॥१-३-३६।॥

श्लोक 37

विभीषण अभिषेकम् च पुष्पकस्य च दर्शनम् ।अयोध्यायाः च गमनम् भरद्वाज समागमम् ॥१-३-३७।॥

श्लोक 38

प्रेषणम् वायु पुत्रस्य भरतेन समागमम् ।राम अभिषेक अभ्युदयम् सर्व सैन्य विसर्जनम् ।स्व राष्ट्र रंजनम् च एव वैदेह्याः च विसर्जनम् ॥१-३-३८।॥

श्लोक 39

अनागतम् च यत् किंचिद् रामस्य वसुधा तले ।तत् चकार उत्तरे काव्ये वाल्मीकिः भगवान् ऋषिः ॥१-३-३९॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ