मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण बालकाण्ड सर्ग 58

वाल्मीकि रामायण बालकाण्ड सर्ग 58 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

ततः संतप्त हृदयः स्मरन् निग्रहम् आत्मनः ।विनिःश्वस्य विनिःश्वस्य कृत वैरो महात्मना ॥१-५७-१॥

श्लोक 2

स दक्षिणाम् दिशम् गत्वा महिष्या सह राघव ।तताप परमम् घोरम् विश्वामित्रो महातपाः ॥१-५७-२॥

श्लोक 3

फल मूल अशनो दान्तैः चचार महत् तपः ।अथ अस्य जज्ञिरे पुत्राः सत्य धर्म परायणाः ॥१-५७-३॥

श्लोक 4

हविष्पन्दो मधुष्यन्दो दृढनेत्रो महारथः ।पूर्णे वर्ष सहस्रे तु ब्रह्मा लोक पितामहः ॥१-५७-४॥

श्लोक 5

अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।जिता राजर्षि लोकाः ते तपसा कुशिक आत्मज ॥१-५७-५॥

श्लोक 6

अनेन तपसा त्वाम् हि राज ऋषिर् इति विद्महे ।एवम् उक्त्वा महातेजा जगाम सह दैवतैः ॥१-५७-६॥

श्लोक 7

त्रिविष्टपम् ब्रह्म लोकम् लोकानाम् परम ईश्वरः ।विश्वामित्रो अपि तत् श्रुत्वा ह्रिया किंचित् अवाङ्मुखः ॥१-५७-७॥

श्लोक 8

दुःखेन महता आविष्टः स मन्युः इदम् अब्रवीत् ।तपः च सुमहत् तप्तम् राज ऋषिर् इति माम् विदुः ॥१-५७-८॥

श्लोक 9

देवाः स ऋषि गणाः सर्वे न अस्ति मन्ये तपः फलम् ।एवम् निश्चित्य मनसा भूय एव महातपाः ॥१-५७-९॥

श्लोक 10

तपः चचार काकुत्स्थ परमम् परम आत्मवान् ।एतस्मिन् एव काले तु सत्य वादी जित इन्द्रियः ॥१-५७-१०॥

श्लोक 11

त्रिशंकुः इति विख्यात इक्ष्वाकु कुल वर्धनः ।तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव ॥१-५७-११॥

श्लोक 12

गच्छेयम् स्व शरीरेण देवानाम् परमाम् गतिम् ।वसिष्ठम् स समाहूय कथयामास चिन्तितम् ॥१-५७-१२॥

श्लोक 13

अशक्यम् इति च अपि उक्तो वसिष्ठेन महात्मना ।प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणाम् दिशम् ॥१-५७-१३॥

श्लोक 14

ततः तत् कर्म सिद्धि अर्थम् पुत्रान् तस्य गतो नृपः ।वासिष्ठा दीर्घ तपसः तपो यत्र हि तेपिरे ॥१-५७-१४॥

श्लोक 15

त्रिशंकुः सुमहातेजाः शतम् परम भास्वरम् ।वसिष्ठ पुत्रान् ददृशे तप्यमानान् यशस्विनः ॥१-५७-१५॥

श्लोक 16

सो अभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् ।अभिवाद्य आनुपूर्व्येण ह्रिया किंचित् अवाङ्मुखः ॥१-५७-१६॥

श्लोक 17

अब्रवीत् स महात्मनः सर्वान् एव कृतांजलिः ।शरणम् वः प्रपद्ये अहम् शरण्यान् शरणागतः ॥१-५७-१७॥

श्लोक 18

प्रत्याख्यातो अस्मि भद्रम् वो वसिष्ठेन महात्मना ।यष्टु कामो महायज्ञम् तत् अनुज्ञातुम् अर्थथ ॥१-५७-१८॥

श्लोक 19

गुरु पुत्रान् अहम् सर्वान् नमस् कृत्य प्रसादये ।शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ॥१-५७-१९॥

श्लोक 20

ते माम् भवन्तः सिद्धि अर्थम् याजयंतु समाहिताः ।स शरीरो यथा अहम् वै देव लोकम् अवाप्नुयाम् ॥१-५७-२०॥

श्लोक 21

प्रत्याख्यातो वसिष्ठेन गतिम् अन्याम् तपो धनाः ।गुरु पुत्रान् ऋते सर्वान् न अहम् पश्यामि कांचन ॥१-५७-२१॥

श्लोक 22

इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।तस्मात् अनंतरम् सर्वे भवन्तो दैवतम् मम ॥१-५७-२२॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ