मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 100

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 100 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २.१००.१॥

श्लोक 2

कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।भ्रातरं भरतं राम: परिजग्राह बाहुना ॥ २.१००.२॥

श्लोक 3

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: ।अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २.१००.३॥

श्लोक 4

क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: ।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २.१००.४॥

श्लोक 5

चिरस्य बत पश्यामि दूराद्भरतमागतम् ।दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ॥ २.१००.५॥

श्लोक 6

कच्चिद्धारयते तात राजा यत्त्वमिहागत: ।कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ॥ २.१००.६॥

श्लोक 7

कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २.१००.७॥

श्लोक 8

कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २.१००.८॥

श्लोक 9

कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: ।राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ॥ २.१००.९॥

श्लोक 10

स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: ।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २.१००.१०॥

श्लोक 11

सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २.१००.११॥

श्लोक 12

कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: ।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ॥ २.१००.१२॥

श्लोक 13

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: ।हुतं च होष्यमाणं च काले वेदयते सदा ॥ २.१००.१३॥

श्लोक 14

कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि ।वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २.१००.१४॥

श्लोक 15

इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २.१००.१५॥

श्लोक 16

कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: ।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ॥ २.१००.१६॥

श्लोक 17

मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ॥ २.१००.१७॥

श्लोक 18

कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे ।कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २.१००.१८॥

श्लोक 19

कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह ।कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २.१००.१९॥

श्लोक 20

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २.१००.२०॥

श्लोक 21

कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: ।विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ॥ २.१००.२१॥

श्लोक 22

कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: ।त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २.१००.२२॥

श्लोक 23

कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ॥ २.१००.२३॥

श्लोक 24

सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: ।अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २.१००.२४॥

श्लोक 25

एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: ।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २.१००.२५॥

श्लोक 26

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: ।जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ॥ २.१००.२६॥

श्लोक 27

अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २.१००.२७॥

श्लोक 28

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ॥ २.१००.२८॥

श्लोक 29

कच्चित्त्वां नावजानन्ति याजका: पतितं यथा ।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ॥ २.१००.२९॥

श्लोक 30

उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २.१००.३०॥

श्लोक 31

कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: ।कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ॥ २.१००.३१॥

श्लोक 32

बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: ।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ॥ २.१००.३२॥

श्लोक 33

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २.१००.३३॥

श्लोक 34

कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: ।भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ॥ २.१००.३४॥

श्लोक 35

कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: ।कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ॥ २.१००.३५॥

श्लोक 36

कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् ।यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ॥ २.१००.३६॥

श्लोक 37

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ॥ २.१००.३७॥

श्लोक 38

कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २.१००.३८॥

श्लोक 39

कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।अनर्थकुशला ह्येते बाला: पण्डितमानिन: ॥ २.१००.३९॥

श्लोक 40

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: ।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २.१००.४०॥

श्लोक 41

वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: ।सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २.१००.४१॥

श्लोक 42

ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा ।जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ॥ २.१००.४२॥

श्लोक 43

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २.१००.४३॥

श्लोक 44

कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: ।देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ॥ २.१००.४४॥

श्लोक 45

प्रहृष्टनरनारीक: समाजोत्सवशोभित: ।सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ॥ २.१००.४५॥

श्लोक 46

अदेवमातृको रम्य: श्वापदै: परिवर्जित: ।परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ॥ २.१००.४६॥

श्लोक 47

विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: ।कच्चिज्जनपद: स्फीत: सुखं वसति राघव ॥ २.१००.४७॥

श्लोक 48

कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: ।वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २.१००.४८॥

श्लोक 49

तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् ।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ॥ २.१००.४९॥

श्लोक 50

कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: ।कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ २.१००.५०॥

श्लोक 51

कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: ।कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २.१००.५१॥

श्लोक 52

कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २.१००.५२॥

श्लोक 53

कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया ।सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २.१००.५३॥

श्लोक 54

कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: ।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २.१००.५४॥

श्लोक 55

आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: ।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २.१००.५५॥

श्लोक 56

देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ॥ २.१००.५६॥

श्लोक 57

कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा ।अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ॥ २.१००.५७॥

श्लोक 58

गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: ।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २.१००.५८॥

श्लोक 59

व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ॥ २.१००.५९॥

श्लोक 60

यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ॥ २.१००.६०॥

श्लोक 61

कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २.१००.६१॥

श्लोक 62

कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २.१००.६२॥

श्लोक 63

कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: ।उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २.१००.६३॥

श्लोक 64

कच्चिदर्थं च धर्मं च कामं च जयतां वर ।विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २.१००.६४॥

श्लोक 65

कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: ।आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ॥ २.१००.६५॥

श्लोक 66

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २.१००.६६॥

श्लोक 67

एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २.१००.६७॥

श्लोक 68

मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: ।कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २.१००.६८॥

श्लोक 69

दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: ।अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २.१००.६९॥

श्लोक 70

इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २.१००.७०॥

श्लोक 71

यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २.१००.७१॥

श्लोक 72

मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ॥ २.१००.७२॥

श्लोक 73

कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: ।कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ॥ २.१००.७३॥

श्लोक 74

कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २.१००.७४॥

श्लोक 75

यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: ।तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २.१००.७५॥

श्लोक 76

कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ॥ २.१००.७६॥

श्लोक 77

राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् ।अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ॥ २.१००.७७ ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ