वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 107
वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 107 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: ।प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ॥ २.१०७.१॥
श्लोक 2
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: ।जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २.१०७.२॥
श्लोक 3
पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् ।मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ २.१०७.३॥
श्लोक 4
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: ।सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ॥ २.१०७.४॥
श्लोक 5
तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी ।अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ २.१०७.५॥
श्लोक 6
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ॥ २.१०७.६॥
श्लोक 7
तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ ।चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ २.१०७.७॥
श्लोक 8
सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: ।सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ॥ २.१०७.८॥
श्लोक 9
भवानपि तथेत्येव पितरं सत्यवादिनम् ।कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ २.१०७.९॥
श्लोक 10
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ २.१०७.१०॥
श्लोक 11
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥ २.१०७.११॥
श्लोक 12
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: ।तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ॥ २.१०७.१२॥
श्लोक 13
एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: ।तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ २.१०७.१३॥
श्लोक 14
एवं राजर्षय: सर्वे प्रतीता राजनन्दन ।तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ २.१०७.१४॥
श्लोक 15
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ॥ २.१०७.१५॥
श्लोक 16
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ २.१०७.१६॥
श्लोक 17
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ २.१०७.१७॥
श्लोक 18
छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ २.१०७.१८॥
श्लोक 19
शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् ।चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ २.१०७.१९ ॥