मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 109

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 109 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: ।उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ २.१०९.१॥

श्लोक 2

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २.१०९.२॥

श्लोक 3

निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: ।मानं न लभते सत्सु भिन्नचारित्रदर्शन: ॥ २.१०९.३॥

श्लोक 4

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ २.१०९.४॥

श्लोक 5

अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: ।लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ॥ २.१०९.५॥

श्लोक 6

अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ २.१०९.६॥

श्लोक 7

कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: ।बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ २.१०९.७॥

श्लोक 8

कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ २.१०९.८॥

श्लोक 9

कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते ।यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ॥ २.१०९.९॥

श्लोक 10

सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ॥ २.१०९.१०॥

श्लोक 11

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ २.१०९.११॥

श्लोक 12

उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: ।धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ २.१०९.१२॥

श्लोक 13

सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ २.१०९.१३॥

श्लोक 14

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ २.१०९.१४॥

श्लोक 15

एक: पालयते लोकमेक: पालयते कुलम् ।मज्जत्येको हि निरय एक: स्वर्गे महीयते ॥ २.१०९.१५॥

श्लोक 16

सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ॥ २.१०९.१६॥

श्लोक 17

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: ।सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ॥ २.१०९.१७॥

श्लोक 18

असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: ।नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ॥ २.१०९.१८॥

श्लोक 19

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ २.१०९.१९॥

श्लोक 20

क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ॥ २.१०९.२०॥

श्लोक 21

कायेन कुरुते पापं मनसा सम्प्रधार्य च ।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २.१०९.२१॥

श्लोक 22

भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि ।स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २.१०९.२२॥

श्लोक 23

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २.१०९.२३॥

श्लोक 24

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ॥ २.१०९.२४॥

श्लोक 25

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २.१०९.२५॥

श्लोक 26

वनवासं वसन्नेवं शुचिर्नियतभोजन: ।मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ॥ २.१०९.२६॥

श्लोक 27

सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ॥ २.१०९.२७॥

श्लोक 28

कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ॥ २.१०९.२८॥

श्लोक 29

शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: ।तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ॥ २.१०९.२९॥

श्लोक 30

अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ २.१०९.३०॥

श्लोक 31

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ॥ २.१०९.३१॥

श्लोक 32

तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: ।धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ॥ २.१०९.३२॥

श्लोक 33

निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ २.१०९.३३॥

श्लोक 34

यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ॥ २.१०९.३४॥

श्लोक 35

त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: ।जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ॥ २.१०९.३५॥

श्लोक 36

धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: ।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ॥ २.१०९.३६॥

श्लोक 37

इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ॥ २.१०९.३७॥

श्लोक 38

न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥२.१०९.३८॥

श्लोक 39

स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता ।निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ २.१०९.३९ ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ