मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 119

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 119 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ २.११९.१॥

श्लोक 2

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २.११९.२॥

श्लोक 3

रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् ।दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् ।सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ॥ २.११९.३॥

श्लोक 4

एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: ।सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ॥ २.११९.४॥

श्लोक 5

ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ॥ २.११९.५॥

श्लोक 6

अल्पपर्णाहि तरवो घनीभूता: समन्तत: ।विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ॥ २.११९.६॥

श्लोक 7

रजनीचरसत्त्वानि प्रचरन्ति समन्तत: ।तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ २.११९.७॥

श्लोक 8

सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥ २.११९.८॥

श्लोक 9

गम्यतामनुजानामि रामस्यानुचरी भव ।कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ २.११९.९॥

श्लोक 10

अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ २.११९.१०॥

श्लोक 11

सा तथा समलंकृत्य सीता सुरसुतोपमा ।प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ २.११९.११॥

श्लोक 12

तथा तु भूषितां सीतां ददर्श वदतां वर: ।राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ॥ २.११९.१२॥

श्लोक 13

न्यवेदयत्तत: सर्वं सीता रामाय मैथिली ।प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ २.११९.१३॥

श्लोक 14

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: ।मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ २.११९.१४॥

श्लोक 15

ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: ।अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ॥ २.११९.१५॥

श्लोक 16

तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ २.११९.१६॥

श्लोक 17

तावूचुस्ते वनचरास्तापसा धर्मचारिण: ।वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ॥ २.११९.१७॥

श्लोक 18

रक्षांसि पुरुषादानि नानारूपाणि राघव ।वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ॥ २.११९.१८॥

श्लोक 19

उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ २.११९.१९॥

श्लोक 20

एष पन्था महर्षीणां फलान्याहरतां वने ।अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २.११९.२०॥

श्लोक 21

इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: ।वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ॥ २.११९.२१ ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ