वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 30
वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 30 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा ।वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् ॥२-३०-१॥
श्लोक 2
सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् ।प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् ॥२-३०-२॥
श्लोक 3
किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः ।राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् ॥२-३०-३॥
श्लोक 4
अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति ।तेजो न अस्ति परम् रामे तपति इव दिवा करे ॥२-३०-४॥
श्लोक 5
किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते ।यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् ॥२-३०-५॥
श्लोक 6
द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रताम् ।सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् ॥२-३०-६॥
श्लोक 7
न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ ।त्वया राघव गच्चेयम् यथा अन्या कुल पाम्सनी ॥२-३०-७॥
श्लोक 8
स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् ।शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि ॥२-३०-८॥
श्लोक 9
यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे ।त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ॥२-३०-९॥
श्लोक 10
स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि ।तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया ॥२-३०-१०॥
श्लोक 11
न च मे भविता तत्र कश्चित् पथि परिश्रमः ।पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि ॥२-३०-११॥
श्लोक 12
कुश काश शर इषीका ये च कण्टकिनो द्रुमाः ।तूल अजिन सम स्पर्शा मार्गे मम सह त्वया ॥२-३०-१२॥
श्लोक 13
महा वात समुद्धूतम् यन् माम् अवकरिष्यति ।रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् ॥२-३०-१३॥
श्लोक 14
शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा ।कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः ॥२-३०-१४॥
श्लोक 15
पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु ।दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् ॥२-३०-१५॥
श्लोक 16
न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः ।आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च ॥२-३०-१६॥
श्लोक 17
न च तत्र गतः किम्चित् द्रष्टुम् अर्हसि विप्रियम् ।मत् कृते न च ते शोको न भविष्यामि दुर्भरा ॥२-३०-१७॥
श्लोक 18
यः त्वया सह स स्वर्गो निरयो यः त्वया विना ।इति जानन् पराम् प्रीतिम् गच्च राम मया सह ॥२-३०-१८॥
श्लोक 19
अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि ।विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् ॥२-३०-१९॥
श्लोक 20
पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् ।उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् ॥२-३०-२०॥
श्लोक 21
इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे ।किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता ॥२-३०-२१॥
श्लोक 22
इति सा शोक सम्तप्ता विलप्य करुणम् बहु ।चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् ॥२-३०-२२॥
श्लोक 23
सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना ।चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः ॥२-३०-२३॥
श्लोक 24
तस्याः स्फटिक सम्काशम् वारि सम्ताप सम्भवम् ।नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् ॥२-३०-२४॥
श्लोक 25
तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् ।पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् ॥२-३०-२५॥
श्लोक 26
ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् ।उवाच वचनम् रामः परिविश्वासयम्स् तदा ॥२-३०-२६॥
श्लोक 27
न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये ।न हि मे अस्ति भयम् किम्चित् स्वयम्भोर् इव सर्वतः ॥२-३०-२७॥
श्लोक 28
तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने ।वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे ॥२-३०-२८॥
श्लोक 29
यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि ।न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा ॥२-३०-२९॥
श्लोक 30
धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा ।तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला ॥२-३०-३०॥
श्लोक 31
न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि ।वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् ॥२-३०-३१॥
श्लोक 32
एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता ।अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे ॥२-३०-३२॥
श्लोक 33
अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते ।स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् ॥२-३०-३३॥
श्लोक 34
यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि ।नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥२-३०-३४॥
श्लोक 35
न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।तथा बलकराः सीते यथा सेवा पितुर्मता ॥२-३०-३५॥
श्लोक 36
स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च ।गुरुवृत्त्यनुरोधेन न किम्चित्\दपि दुर्लभम् ॥२-३०-३६॥
श्लोक 37
देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् ।प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥२-३०-३७॥
श्लोक 38
स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः ।तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः ॥२-३०-३८॥
श्लोक 39
मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् ।वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता ॥२-३०-३९॥
श्लोक 40
सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे ।अनुगच्चस्व माम् भीरु सह धर्म चरी भव ॥२-३०-४०॥
श्लोक 41
सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च ।व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥२-३०-४१॥
श्लोक 42
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ॥२-३०-४२॥
श्लोक 43
ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् ।देहि च आशम्समानेभ्यः सम्त्वरस्व च माचिरम् ॥२-३०-४३॥
श्लोक 44
भूषणानि महार्हाणि वरवस्त्राणि यानि च ।रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः ॥२-३०-४४॥
श्लोक 45
शयनीयानि यानानि मम चान्यानि यानि च ।देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥२-३०-४५॥
श्लोक 46
अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः ।क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे ॥२-३०-४६॥
श्लोक 47
ततः प्रहृष्टा परिपूर्ण मानसा ।यशस्विनी भर्तुर् अवेक्ष्य भाषितम् ।धनानि रत्नानि च दातुम् अन्गना ।प्रचक्रमे धर्मभृताम् मनस्विनी ॥२-३०-४७॥