मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 53

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 53 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् ।रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥

श्लोक 2

अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः ।या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥

श्लोक 3

जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥

श्लोक 4

रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे ।उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥

श्लोक 5

स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः ।इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥

श्लोक 6

ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण ।कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥

श्लोक 7

सा हि देवी महा राजम् कैकेयी राज्य कारणात् ।अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥

श्लोक 8

अनाथः चैव वृद्धः च मया चैव विनाकृतः ।किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥

श्लोक 9

इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् ।कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥

श्लोक 10

को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥

श्लोक 11

सुखी बत सभार्यः च भरतः केकयी सुतः ।मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥

श्लोक 12

स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ।ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥

श्लोक 13

अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते ।एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥

श्लोक 14

मन्ये दशरथ अन्ताय मम प्रव्राजनाय च ।कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥

श्लोक 15

अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता ।कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥

श्लोक 16

मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् ।अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥

श्लोक 17

अहम् एको गमिष्यामि सीतया सह दण्डकान् ।अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥

श्लोक 18

क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् ।परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥

श्लोक 19

नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः ।जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥

श्लोक 20

मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च ।विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥

श्लोक 21

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥

श्लोक 22

मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥

श्लोक 23

शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता ।पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥

श्लोक 24

अल्प भाग्या हि मे माता कौसल्या रहिता मया ।शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥

श्लोक 25

एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण ।तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥

श्लोक 26

अधर्म भय भीतः च पर लोकस्य च अनघ ।तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥

श्लोक 27

एतत् अन्यच् च करुणम् विलप्य विजने बहु ।अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥

श्लोक 28

विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् ।समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥

श्लोक 29

ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर ।निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥

श्लोक 30

न एतत् औपयिकम् राम यद् इदम् परितप्यसे ।विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥

श्लोक 31

न च सीता त्वया हीना न च अहम् अपि राघव ।मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥

श्लोक 32

न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप ।द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥

श्लोक 33

ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् ।न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥

श्लोक 34

स लक्ष्मणस्य उत्तम पुष्कलम् वचो ।निशम्य च एवम् वन वासम् आदरात् ।समाः समस्ता विदधे परम् तपः ।प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥

श्लोक 35

ततस्तु तस्मिन् विजने वने तदा ।महाबलौ राघववम्शवर्धनौ ।न तौ भयम् सम्भ्रममभ्युपेयतु ।र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ