वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 70
वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 70 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः ।प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥
श्लोक 2
समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः ।राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥
श्लोक 3
पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः ।त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥
श्लोक 4
इमानि च महार्हाणि वस्त्राण्Yआभरणानि च ।प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥
श्लोक 5
अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते ।दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥
श्लोक 6
प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने ।दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥
श्लोक 7
कच्चित् सुकुशली राजा पिता दशरथो मम ।कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥
श्लोक 8
आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी ।अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥
श्लोक 9
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥
श्लोक 10
आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥
श्लोक 11
एवम् उक्ताः तु ते दूता भरतेन महात्मना ।ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥
श्लोक 12
कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि ।श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥
श्लोक 13
भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत ।आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥
श्लोक 14
एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः ।दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥
श्लोक 15
राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः ।पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥
श्लोक 16
भरतेन एवम् उक्तः तु नृपो मातामहः तदा ।तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥
श्लोक 17
गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया ।मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥
श्लोक 18
पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः ।तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥
श्लोक 19
तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च ।अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥
श्लोक 20
रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च ।सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥
श्लोक 21
तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् ।ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥
श्लोक 22
ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् ।खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥
श्लोक 23
अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् ।दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥
श्लोक 24
स मातामहम् आपृच्च्य मातुलम् च युधा जितम् ।रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥
श्लोक 25
बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥
श्लोक 26
स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् ।प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥
श्लोक 27
अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥
श्लोक 28
स माता महमापृच्च्य मातुलम् च युधाजितम् ।रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥
श्लोक 29
रथान् मण्डल चक्रामः च योजयित्वा परः शतम् ।उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥
श्लोक 30
बलेन गुप्तः भरतः महात्मा ।सह आर्यकस्य आत्म समैः अमात्यैः ।आदाय शत्रुघ्नम् अपेत शत्रुर् ।गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥