मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 87

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 87 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥

श्लोक 2

सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥

श्लोक 3

प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥

श्लोक 4

भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः ।बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥

श्लोक 5

तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥

श्लोक 6

ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥

श्लोक 7

ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥

श्लोक 8

वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥

श्लोक 9

पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥

श्लोक 10

त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥

श्लोक 11

कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥

श्लोक 12

स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥

श्लोक 13

भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥

श्लोक 14

सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥

श्लोक 15

अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥

श्लोक 16

तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥

श्लोक 17

न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥

श्लोक 18

लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥

श्लोक 19

ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥

श्लोक 20

सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥

श्लोक 21

तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥

श्लोक 22

एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥

श्लोक 23

नियम्य पृष्ठे तु तल अन्गुलित्रवान् ।शरैः सुपूर्णाउ इषुधी परम् तपः ।महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥

श्लोक 24

ततः तु अहम् च उत्तम बाण चापधृक् ।स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ