मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 96

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 96 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ २.९६.१॥

श्लोक 2

इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।एवमास्ते स धर्मात्मा सीतया सह राघव: ॥ २.९६.२॥

श्लोक 3

तथा तत्रासतस्तस्य भरतस्योपयायिन: ।सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ २.९६.३॥

श्लोक 4

एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: ।अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ॥ २.९६.४॥

श्लोक 5

स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: ।तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ २.९६.५॥

श्लोक 6

तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ २.९६.६॥

श्लोक 7

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ॥ २.९६.७॥

श्लोक 8

गजयूथानि वा ऽरण्ये महिषा वा महावने ।वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ॥ २.९६.८॥

श्लोक 9

राजा वा राजमात्रो वा मृगयामटते वने ।अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ २.९६.९॥

श्लोक 10

सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ २.९६.१०॥

श्लोक 11

स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् ।प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ॥ २.९६.११॥

श्लोक 12

उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् ।रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ॥ २.९६.१२॥

श्लोक 13

तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ २.९६.१३॥

श्लोक 14

अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् ।सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ २.९६.१४॥

श्लोक 15

तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ २.९६.१५॥

श्लोक 16

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।दिधक्षन्निव तां सेनां रुषित: पावको यथा ॥ २.९६.१६॥

श्लोक 17

सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ॥ २.९६.१७॥

श्लोक 18

एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ॥ २.९६.१८॥

श्लोक 19

भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ॥ २.९६.१९॥

श्लोक 20

गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ॥ २.९६.२०॥

श्लोक 21

अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ २.९६.२१॥

श्लोक 22

अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ २.९६.२२॥

श्लोक 23

यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥ २.९६.२३॥

श्लोक 24

भरतस्य वधे दोषं नाहं पश्यामि राघव ।पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २.९६.२४॥

श्लोक 25

पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २.९६.२५॥

श्लोक 26

अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ॥ २.९६.२६॥

श्लोक 27

कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २.९६.२७॥

श्लोक 28

अद्येमं संयतं क्रोधमसत्कारं च मानद ।मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २.९६.२८॥

श्लोक 29

अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: ।भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २.९६.२९॥

श्लोक 30

शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ॥ २.९६.३०॥

श्लोक 31

शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।ससैन्यं भरतं हत्वा भविष्यामि न संशय: ॥ २.९६.३१ ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ