मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 15

वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

अथ तस्य निनादम् तम् सुग्रीवस्य महात्मनः ।शुश्राव अन्तःपुर गतो वाली भ्रातुर् अमर्षणः ॥४-१५-१॥

श्लोक 2

श्रुत्वा तु तस्य निनदम् सर्वभूत प्रकंपनम् ।मदः च एकपदे नष्टः क्रोधः च आपादितो महान् ॥४-१५-२॥

श्लोक 3

ततो रोष परीत अंगो वाली स कनक प्रभः ।उपरक्त इव आदित्यः सद्यो निष्प्रभताम् गतः ॥४-१५-३॥

श्लोक 4

वाली दंष्ट्रा करालः तु क्रोधाद् दीप्त अग्नि लोचनः ।भाति उत्पतित पद्माभः समृणाल इव ह्रदः ॥४-१५-४॥

श्लोक 5

शब्दम् दुर्मर्षणम् श्रुत्वा निष्पपात ततो हरिः ।वेगेन च पद न्यासैर् दारयन् इव मेदिनीम् ॥४-१५-५॥

श्लोक 6

तम् तु तारा परिष्वज्य स्नेहाद् दर्शित सौहृदा ।उवाच त्रस्त संभ्रांता हित उदर्कम् इदम् वचः ॥४-१५-६॥

श्लोक 7

साधु क्रोधम् इमम् वीर नदी वेगम् इव आगतम् ।शयनाद् उत्थितः काल्यम् त्यज भुक्ताम् इव स्रजम् ॥४-१५-७॥

श्लोक 8

काल्यम् एतेन संग्रामम् करिष्यसि च वानर ।वीर ते शत्रु बाहुल्यम् फल्गुता वा न विद्यते ॥४-१५-८॥

श्लोक 9

सहसा तव निष्क्रामो मम तावत् न रोचते ।श्रूयताम् अभिधास्यामि यन् निमित्तम् निवार्यते ॥४-१५-९॥

श्लोक 10

पूर्वम् आपतितः क्रोधात् स त्वाम् आह्वयते युधि ।निष्पत्य च निरस्तः ते हन्यमानो दिशो गतः ॥४-१५-१०॥

श्लोक 11

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।इह एत्य पुनर् आह्वानम् शंकाम् जनयति इव मे ॥४-१५-११॥

श्लोक 12

दर्पः च व्यवसायः च यादृशः तस्य नर्दतः ।निनादस्य च संरंभो न एतत् अल्पम् हि कारणम् ॥४-१५-१२॥

श्लोक 13

न असहायम् अहम् मन्ये सुग्रीवम् तम् इह आगतम् ।अवष्टब्ध सहायः च यम् आश्रित्य एष गर्जति ॥४-१५-१३॥

श्लोक 14

प्रकृत्या निपुणः चैव बुद्धिमान् चैव वानरः ।न अपरीक्षित वीर्येण सुग्रीवः सख्यम् एष्यति ॥४-१५-१४॥

श्लोक 15

पूर्वम् एव मया वीर श्रुतम् कथयतो वचः ।अंगदस्य कुमारस्य वक्ष्यामि अद्य हितम् वचः ॥४-१५-१५॥

श्लोक 16

अंगदः तु कुमरो अयम् वनांतम् उपनिर्गतः ।प्रवृत्तिः तेन कथिता चारैः असीत् निवेदिता ॥४-१५-१६॥

श्लोक 17

अयोध्य अधिपतेः पुत्रौ शूरौ समर दुर्जयौ ।इक्ष्वाकूणाम् कुले जातौ प्रथितौ राम लक्ष्मणौ ॥४-१५-१७॥

श्लोक 18

सुग्रीव प्रिय कामार्थम् प्राप्तौ तत्र दुरासदौ ।स ते भ्रातुर् हि विख्यातः सहायो रण कर्मणि ॥४-१५-१८॥

श्लोक 19

रामः पर बलमर्दी युगान्त अग्निः इव उत्थितः ।निवास वृक्षः साधूनाम् आपन्नानाम् परा गतिः ॥४-१५-१९॥

श्लोक 20

आर्तानाम् संश्रयः चैव यशसः च एक भाजनम् ।ज्ञान विज्ञान संपन्नो निदेशो निरतः पितुः ॥४-१५-२०॥

श्लोक 21

धातूनाम् इव शैलेन्द्रो गुणानाम् आकरो महान् ।तत् क्षमो न विरोधः ते सह तेन महात्मना ॥४-१५-२१॥

श्लोक 22

दुर्जयेन अप्रमेयेण रामेण रण कर्मसु ।शूर वक्ष्यामि ते किंचिन् न च इच्छामि अभ्यसूयितुम् ॥४-१५-२२॥

श्लोक 23

श्रूयताम् क्रियताम् चैव तव वक्ष्यामि यद् हितम् ।यौवराज्येन सुग्रीवम् तूर्णम् साधु अभिषेचय ॥४-१५-२३॥

श्लोक 24

विग्रहम् मा कृथा वीर भ्रात्रा राजन् यवीयसा ।अहम् हि ते क्षमम् मन्ये तेन रामेण सौहृदम् ॥४-१५-२४॥

श्लोक 25

सुग्रीवेण च संप्रीतिम् वैरम् उत्सृज्य दूरतः ।लालनीयो हि ते भ्राता यवीयान् एष वानरः ॥४-१५-२५॥

श्लोक 26

तत्र वा सन्निहस्थो वा सर्वथा बन्धुः एव ते ।नहि तेन समम् बन्धुम् भुवि पश्यामि किंचन ॥४-१५-२६॥

श्लोक 27

दान मानादि सत्कर्रैः कुरुष्व प्रत्यनन्तरम् ।वैरम् एतत् सम् उत्स्रृज्य तव पार्श्वे स तिष्ठतु ॥४-१५-२७॥

श्लोक 28

सुग्रीवो विपुल ग्रीवो महाबन्धुः मतः तव ।भ्रातृ सौहृदम् आलंब्य न अन्या गति इह अस्ति ते ॥४-१५-२८॥

श्लोक 29

यदि ते मत् प्रियम् कार्यम् यदि च अवैषि माम् हिताम् ।याच्यमानः प्रियत्वेन साधु वाक्यम् कुरुष्व मे ॥४-१५-२९॥

श्लोक 30

प्रसीद पथ्यम् श्रुणु जल्पितम् हि मेन रोषम् एव अनुविधातुम् अर्हसि ।क्षमो हि ते कोशल राज सूनुनान विग्रहः शक्र सम तेजसा ॥४-१५-३०॥

श्लोक 31

तदा हि तारा हितम् एव वाक्यम्तम् वालिनम् पथ्यम् इदम् बभाषे ।न रोचते तद् वचनम् हि तस्यकाल अभिपन्नस्य विनाश काले ॥४-१५-३१॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ