मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 42

वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 42 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

ततः प्रस्थाप्य सुग्रीवः तान् हरीन् दक्षिणाम् दिशम् ।अब्रवित् मेघ संकाशम् सुशेषणम् नाम वानरम् ॥४-४२-१॥

श्लोक 2

तारायाः पितरम् राजा श्वशुरम् भीम विक्रमम् ।अब्रवीत् प्रांजलिः वाक्यम् अभिगम्य प्रणम्य च ॥४-४२-२॥

श्लोक 3

महर्षि पुत्रम् मारीचम् अर्चिष्मन्तम् महाकपिम् ।वृ^इतम् कपिवरैः शूरैः महेन्द्र सदृ^इश द्युतिम् ॥४-४२-३॥

श्लोक 4

बुद्धि विक्रम सम्पन्नान् वैनतेय सम द्युतिम् ।मरीचि पुत्रान् मारीचान् अर्चिर्माल्यान् महबलान् ॥४-४२-४॥

श्लोक 5

ऋषि पुत्रान् च तान् सर्वान् प्रतीचीम् आदिशत् दिशम् ।द्वाभ्याम् शत सहस्राभ्याम् कपीनाम् कपि सत्तमाः ॥४-४२-५॥

श्लोक 6

सुशेषण प्रमुखा यूयम् वैदेहीम् परिमार्गथ ।सौराष्ट्रान् सह बाह्लीकान् चंद्रचित्रान् तथैव च ॥४-४२-६॥

श्लोक 7

स्फीतान् जन पदान् रम्यान् विपुलानि पुराणि च ।पुंनाग गहनम् कुक्षिम् वकुल उद्दालक आकुलम् ॥४-४२-७॥

श्लोक 8

तथा केतक खंडान् च मार्गध्वम् हरि पुंगवाः ।प्रत्यक् स्रोतो वहाः चैव नद्यः शीतजलाः शिवाः ॥४-४२-८॥

श्लोक 9

तापसानाम् अरण्यानि कांतारा गिरयः च ये ।तत्र स्थलीः मरुप्राया अति उच्च शिखराः शिलाः ॥४-४२-९॥

श्लोक 10

गिरि जाल आवृताम् दुर्गाम् मार्गित्वा पश्चिमाम् दिशम् ।ततः पश्चिमम् आगम्य समुद्रम् द्रष्टुम् अर्हथ ॥४-४२-१०॥

श्लोक 11

तिमि नक्र आकुल जलम् गत्वा द्रक्ष्यथ वानराः ।ततः केतक खंडेषु तमाल गहनेषु च ॥४-४२-११॥

श्लोक 12

कपयो विहरिष्यन्ति नारिकेल वनेषु च ।तत्र सीताम् च मार्गध्वम् निलयम् रावणस्य च ॥४-४२-१२॥

श्लोक 13

वेलातल निवेष्टेषु पर्वतेषु वनेषु च ।मुरची पत्तनम् चैव रम्यम् चैव जटा पुरम् ॥४-४२-१३॥

श्लोक 14

अवंतीम् अंगलेपाम् च तथा च अलक्षितम् वनम् ।राष्ट्राणि च विशालानि पत्तनानि ततः ततः ॥४-४२-१४॥

श्लोक 15

सिंधु सागरयोः चैव संगमे तत्र पर्वतः ।महान् हेम गिरिः नाम शत शृंगो महाद्रुमः ॥४-४२-१५॥

श्लोक 16

तत्र प्रस्थेषु रम्येषु सिंहाः पक्ष गमाः स्थिताः ।तिमि मत्स्य गजाम्ब् चैव नीडानि आरोपयन्ति ते ॥४-४२-१६॥

श्लोक 17

तानि नीडानि सिंहानाम् गिरि शृंग गताः च ये ।दृप्ताः तृप्ताः च मातंगाः तोयद स्वन निःस्वनाः ॥४-४२-१७॥

श्लोक 18

विचरन्ति विशाले अस्मिन् तोय पूर्णे समन्ततः ।तस्य शृंगम् दिव स्पर्शम् कांचनम् चित्र पादपम् ॥४-४२-१८॥

श्लोक 19

सर्वम् आशु विचेतव्यम् कपिभिः काम रूपिभिः ।कोटिम् तत्र समुद्रे तु कांचनीम् शत योजनम् ॥४-४२-१९॥

श्लोक 20

दुर्दर्शाम् पारियात्रस्य गता द्रक्ष्यथ वानराः ।कोट्यः तत्र चतुर्विम्शत् गंधर्वाणाम् तरस्विनाम् ॥४-४२-२०॥

श्लोक 21

वसन्ति अग्नि निकाशानाम् घोराणाम् काम रूपिणाम् ।पावक अर्चिः प्रतीकाशाः समवेताः समन्ततः ॥४-४२-२१॥

श्लोक 22

न अति आसादयित्वाः ते वानरैः भीम विक्रमैः ।न अदेयम् च फलम् तस्मात् देशात् किम्चित् प्लवंगमैः ॥४-४२-२२॥

श्लोक 23

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।फल मूलानि ते तत्र रक्षन्ते भीम विक्रमाः ॥४-४२-२३॥

श्लोक 24

तत्र यत्नः च कर्तव्यो मार्गितव्या च जानकी ।न हि तेभ्यो भयम् किंचित् कपित्वम् अनुवर्तताम् ॥४-४२-२४॥

श्लोक 25

तत्र वैदूर्य वर्णाभो वज्र संस्थान संस्थितः ।नाना द्रुम लता आकीर्णो वज्रः नाम महागिरिः ॥४-४२-२५॥

श्लोक 26

श्रीमान् समुदितः तत्र योजनानाम् शतम् समम् ।गुहाः तत्र विचेतव्याः प्रयत्नेन प्लवंगमाः ॥४-४२-२६॥

श्लोक 27

चतुर् भागे समुद्रस्य चक्रवान् नाम पर्वतः ।तत्र चक्रम् सहस्रारम् निर्मितम् विश्वकर्मणा ॥४-४२-२७॥

श्लोक 28

तत्र पंचजनम् हत्वा हयग्रीवम् च दानवम् ।आजहार ततः चक्रम् शंखम् च पुरुषोत्तमः ॥४-४२-२८॥

श्लोक 29

तस्य सानुषु रम्येषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-२९॥

श्लोक 30

योजनानि चतुः षष्टिः वराहो नाम पर्वतः ।सुवर्ण शृंगः सुमहान् अगाधे वरुण आलये ॥४-४२-३०॥

श्लोक 31

तत्र प्राक् ज्योतिषम् नाम जातरूपमयम् पुरम् ।यस्मिन् वसति दुष्ट आत्मा नरको नाम दानवः ॥४-४२-३१॥

श्लोक 32

तत्र सानुषु रम्येषु विशालासु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-३२॥

श्लोक 33

तम् अतिक्रम्य शैलेन्द्रम् कांचनान् अन्तर दर्शनम् ।पर्वतः सर्व सौवर्णो धारा प्रस्रवण आयुतः ॥४-४२-३३॥

श्लोक 34

तम् गजाः च वराहाः च सिंहा व्याघ्राः च सर्वतः ।अभिगर्जन्ति सततम् तेन शब्देन दर्पिताः ॥४-४२-३४॥

श्लोक 35

यस्मिन् हरि हयः श्रीमान् महेन्द्रः पाकशासनः ।अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः ॥४-४२-३५॥

श्लोक 36

तम् अतिक्रम्य शैलेन्द्रम् महेन्द्र परिपालितम् ।षष्टिम् गिरि सहस्राणि कांचनानि गमिष्यथ ॥४-४२-३६॥

श्लोक 37

तरुण आदित्य वर्णानि भ्राजमानानि सर्वतः ।जातरूपमयैः वृक्षैः शोभितानि सुपुष्पितैः ॥४-४२-३७॥

श्लोक 38

तेषाम् मध्ये स्थितो राजा मेरुः उत्तम पर्वतः ।आदित्येन प्रसन्नेन शैलो दत्त वरः पुरा ॥४-४२-३८॥

श्लोक 39

तेन एवम् उक्तः शैलेन्द्रः सर्व एव त्वत् आश्रयाः ।मत् प्रसादात् भविष्यन्ति दिवा रात्रौ च कांचनाः ॥४-४२-३९॥

श्लोक 40

त्वयि ये च अपि वत्स्यन्ति देव गन्धर्व दानवाः ।ते भविष्यन्ति भक्ताः च प्रभया कांचन प्रभाः ॥४-४२-४०॥

श्लोक 41

विश्वेदेवाः च वसवो मरुतः च दिव ओकसः ।आगत्य पश्चिमाम् संध्याम् मेरुम् उत्तम पर्वतम् ॥४-४२-४१॥

श्लोक 42

आदित्यम् उपतिष्ठन्ति तैः च सूर्यो अभिपूजितः ।अदृश्यः सर्व भूतानाम् अस्तम् गच्छति पर्वतम् ॥४-४२-४२॥

श्लोक 43

योजनानाम् सहस्राणि दश तानि दिवाकरः ।मुहूर्त अर्धेन तम् शीघ्रम् अभियाति शिल उच्चयम् ॥४-४२-४३॥

श्लोक 44

शृंगे तस्य महत् दिव्यम् भवनम् सूर्य संनिभम् ।प्रासाद गण संबाधम् विहितम् विश्वकर्मणा ॥४-४२-४४॥

श्लोक 45

शोभितम् तरुभिः चित्रैः नाना पक्षि समाकुलैः ।निकेतम् पाश हस्तस्य वरुणस्य महात्मनः ॥४-४२-४५॥

श्लोक 46

अन्तरा मेरुम् अस्तम् च तालो दश शिरा महान् ।जातरूपमयः श्रीमान् भ्राजते चित्र वेदिकः ॥४-४२-४६॥

श्लोक 47

तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-४७॥

श्लोक 48

यत्र तिष्ठति धर्मज्ञः तपसा स्वेन भावितः ।मेरु सावर्णिर् इति एष ख्यातो वै ब्रह्मणा समः ॥४-४२-४८॥

श्लोक 49

प्रष्टव्यो मेरुसावर्णिः महर्षिः सूर्य संनिभः ।प्रणम्य शिरसा भूमौ प्रवृत्तिम् मैथिलीम् प्रति ॥४-४२-४९॥

श्लोक 50

एतावत् जीव लोकस्य भास्करो रजनी क्षये ।कृत्वा वितिमिरम् सर्वम् अस्तम् गच्छति पर्वतम् ॥४-४२-५०॥

श्लोक 51

एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४२-५१॥

श्लोक 52

अवगम्य तु वैदेहीम् निलयम् रावणस्य च ।अस्तम् पर्वतम् आसाद्य पूर्णे मासे निवर्तत ॥४-४२-५२॥

श्लोक 53

ऊर्ध्वम् मासान् न वस्तव्यम् वसन् वध्यो भवेन् मम ।सह एव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥४-४२-५३॥

श्लोक 54

श्रोतव्यम् सर्वम् एतस्य भवद्भिः दिष्ट कारिभिः ।गुरुः एष महाबाहुः श्वशुरो मे महाबलः ॥४-४२-५४॥

श्लोक 55

भवन्तः च अपि विक्रान्ताः प्रमाणम् सर्वे एव हि ।प्रमाणम् एनम् संस्थाप्य पश्यध्वम् पश्चिमाम् दिशम् ॥४-४२-५५॥

श्लोक 56

दृष्टायाम् तु नरेन्द्रस्या पत्न्याम् अमित तेजसः ।कृत कृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥४-४२-५६॥

श्लोक 57

अतो अन्यत् अपि यत् कार्यम् कार्यस्य अस्य प्रियम् भवेत् ।संप्रधार्य भवद्भिः च देश काल अर्थ संहितम् ॥४-४२-५७॥

श्लोक 58

ततः सुषेण प्रमुखाः प्लवंगमाःसुग्रीव वाक्यम् निपुणम् निशम्य ।आमंत्र्य सर्वे प्लवगाधिपम् तेजग्मुर् दिशम् ताम् वरुण अभिगुप्ताम् ॥४-४२-५८॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ