मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 65

वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 65 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

अथ अंगद वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।स्वम् स्वम् गतौ समुत्साहम् ऊचुः तत्र यथा क्रमम् ॥४-६५-१॥

श्लोक 2

गजो गवाक्षो गवयः शरभो गंधमादनः ।मैन्दः च द्विविदः चैव सुषेणो जांबवान् तथा ॥४-६५-२॥

श्लोक 3

आबभाषे गजः तत्र प्लवेयम् दश योजनम् ।गवाक्षो योजनानि आह गमिष्यामि इति विंशतिम् ॥४-६५-३॥

श्लोक 4

शरभो वानरः तत्र वानरान् तान् उवाच ह ।त्रिंशत् गमिष्यामि योजनानाम् प्लवंगमाः ॥४-६५-४॥

श्लोक 5

ऋषरभो वानरः तत्र वानरान् तान् उवाच ह ।चत्वारिम्शत् गमिष्यामि योजनानाम् न संशयः ॥४-६५-५॥

श्लोक 6

वानरान् तु महातेजा अब्रवीत् गंधमादनः ।योजनानाम् गमिष्यामि पंचाशत् तु न संशयः ॥४-६५-६॥

श्लोक 7

मैन्दः तु वानरः तत्र वानरान् तान् उवाच ह ।योजनानाम् परम् षष्टिम् अहम् प्लवितुम् उत्सहे ॥४-६५-७॥

श्लोक 8

ततः तत्र महातेजा द्विविदः प्रत्यभाषत ।गमिष्यामि न संदेहः सप्ततिम् योजनानि अहम् ॥४-६५-८॥

श्लोक 9

सुषेणः तु महातेजाः सत्त्ववान् कपि सत्तमः ।अशीतिम् प्रतिजाने अहम् योजनानाम् पराक्रमे ॥४-६५-९॥

श्लोक 10

तेषाम् कथयताम् तत्र सर्वान् तान् अनुमान्य च ।ततो वृद्धतमः तेषाम् जांबवान् प्रत्यभाषत ॥४-६५-१०॥

श्लोक 11

पूर्वम् अस्माकम् अपि आसीत् कश्चित् गति पराक्रमः ।ते वयम् वयसः पारम् अनुप्राप्ताः स्म सांप्रतम् ॥४-६५-११॥

श्लोक 12

किम् तु न एवम् गते शक्यम् इदम् कार्यम् उपेक्षितुम् ।यद् अर्थम् कपि राजः च रामः च कृत निश्चयौ ॥४-६५-१२॥

श्लोक 13

सांप्रतम् कालम् अस्माकम् या गतिः ताम् निबोधत ।नवतिम् योजनानाम् तु गमिष्यामि न संशयः ॥४-६५-१३॥

श्लोक 14

तान् च सर्वान् हरि श्रेष्ठान् जांबवान् इदम् अब्रवीत् ।न खलु एतावत् एव आसीत् गमने मे पराक्रमः ॥४-६५-१४॥

श्लोक 15

मया वैरोचने यज्ञे प्रभविष्णुः सनातनः ।प्रदक्षिणी कृतः पूर्वम् क्रममाणः त्रिविक्रमः ॥४-६५-१५॥

श्लोक 16

स इदानीम् अहम् वृद्धः प्लवने मन्दविक्रमः ।यौवने च तदा आसीत् मे बलम् अप्रतिमम् परम् ॥४-६५-१६॥

श्लोक 17

संप्रति एतावत् एव अद्य शक्यम् मे गमने स्वतः ।न एतावता च संसिद्धिः कार्यस्य अस्य भविष्यति ॥४-६५-१७॥

श्लोक 18

अथ उत्तरम् उदार अर्थम् अब्रवीत् अंगदः तदा ।अनुमान्य महाप्राज्ञो जांबवंतम् महाकपिम् ॥४-६५-१८॥

श्लोक 19

अहम् एतत् गमिष्यामि योजनानाम् शतम् महत् ।निवर्तने तु मे शक्तिः स्यात् न वा इति न निश्चितम् ॥४-६५-१९॥

श्लोक 20

तम् उवाच हरि श्रेष्ठो जांबवान् वाक्य कोविदः ।ज्ञायते गमने शक्तिः तव हरि ऋक्ष सत्तम ॥४-६५-२०॥

श्लोक 21

कामम् शत सहस्रम् वा न हि एष विधिः उच्यते ।योजनानाम् भवान् शक्तो गन्तुम् प्रतिनिवर्तितुम् ॥४-६५-२१॥

श्लोक 22

न हि प्रेषयिता तात स्वामी प्रेष्यः कथंचन ।भवता अयम् जनः सर्वः प्रेष्यः प्लवग सत्तम ॥४-६५-२२॥

श्लोक 23

भवान् कलत्रम् अस्माकम् स्वामि भावे व्यवस्थितः ।स्वामी कलत्रम् सैन्यस्य गतिः एषा परंतप ॥४-६५-२३॥

श्लोक 24

अपि वै एतस्य कार्यस्य भवान् मूलम् अरिम् दम ।तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥४-६५-२४॥

श्लोक 25

मूलम् अर्थस्य संरक्ष्यम् एष कार्यविदाम् नयः ।मूले हि सति सिध्यन्ति गुणाः पुष्प फल उदयः ॥४-६५-२५॥

श्लोक 26

तद् भवान् अस्य कार्यस्य साधनम् सत्य विक्रमः ।बुद्धि विक्रम संपन्नो हेतुः अत्र परंतपः ॥४-६५-२६॥

श्लोक 27

गुरुः च गुरु पुत्रः च त्वम् हि नः कपि सत्तम ।भवन्तम् आश्रित्य वयम् समर्था हि अर्थ साधने ॥४-६५-२७॥

श्लोक 28

उक्त वाक्यम् महाप्राज्ञम् जांबवंतम् महाकपिः ।प्रत्युवाच उत्तरम् वाक्यम् वालि सूनुः अथ अंगदः ॥४-६५-२८॥

श्लोक 29

यदि न अहम् गमिष्यामि न अन्यो वानर पुंगवः ।पुनः खलु इदम् अस्माभिः कार्यम् प्रायोपवेशनम् ॥४-६५-२९॥

श्लोक 30

न हि अकृत्वा हरि पतेः संदेशम् तस्य धीमतः ।तत्र अपि गत्वा प्राणानाम् न पश्यामि परिरक्षणम् ॥४-६५-३०॥

श्लोक 31

स हि प्रसादे च अत्यर्थम् कोपे च हरिः ईश्वरः ।अतीत्य तस्य संदेशम् विनाशो गमने भवेत् ॥४-६५-३१॥

श्लोक 32

तत् तथा हि अस्य कार्यस्य न भवति अन्यथा गतिः ।तत् भवान् एव दृष्ट अर्थः संचिंतयितुम् अर्हति ॥४-६५-३२॥

श्लोक 33

सः अंगदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।जांबवान् उत्तमम् वाक्यम् प्रोवाच इदम् ततो अंगदम् ॥४-६५-३३॥

श्लोक 34

तस्य ते वीर कार्यस्य न किंचित् परिहास्यते ।एष संचोदयामि एनम् यः कार्यम् साधयिष्यति ॥४-६५-३४॥

श्लोक 35

ततः प्रतीतम् प्लवताम् वरिष्ठम्एकांतम् आश्रित्य सुखोपविष्टम् ।संचोदयामास हरि प्रवीरोहरिप्रवीरम् हनुमंतम् एव ॥४-६५-३५॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ