वाल्मीकि रामायण युद्धकाण्ड सर्ग 31
वाल्मीकि रामायण युद्धकाण्ड सर्ग 31 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
ततस्तमक्षोभ्यबलंलङ्काधिपतयेचराः ।सुवेलेराघवंशैलेनिविष्टंप्रत्यवेदयन् ॥६-३१-१॥।।
श्लोक 2
चाराणांरावणश्श्रुत्वाप्राप्तंरामंमहाबलम् ।जातोद्वेगोऽभवत्किञ्चित्सचिवानिदमब्रवीत् ॥६-३१-२॥।।
श्लोक 3
मन्त्रिणश्शीघ्रमायान्तुसर्वेवैसुसमाहिताः ।अयंनोमन्त्रकालोहिसम्प्रप्ताइतिराक्षसाः ॥६-३१-३॥।।
श्लोक 4
तस्यतद्वचनंश्रुत्वामन्त्रिणोऽभ्यागमन् द्रुतम् ।ततस्समन्त्रयामासराक्षसैस्सचिवैस्सह ॥६-३१-४॥।।
श्लोक 5
मन्त्रयित्वासदुर्धर्षःक्षमंयत्समनन्तरम् ।विसर्जयित्वासचिवान्प्रविवेशस्वमालयम् ॥६-३१-५॥।।
श्लोक 6
ततोराक्षसमाहूयविद्युज्जिह्वंमहाबलम् ।मायाविदंमहामायःप्राविशद्यत्रमैथिली ॥६-३१-६॥।।
श्लोक 7
विद्युज्जिह्वंचमायाज्ञमब्रवीद्राक्षसाधिपः ।मोहयिष्यावहेसीतांमाययाजनकात्मजाम् ॥६-३१-७॥।।
श्लोक 8
शिरोमायामयंगृह्यराघवस्यनिशाचर: ।त्वंमांसमुतिष्ठस्वमहच्चसशरंधनुः ॥६-३१-८॥।।
श्लोक 9
एवमुक्तस्तथेत्याहविद्युज्जिह्वोनिशाचरः ।दर्शयामासतांमायांसुप्रयुक्तांसरावणे ।तस्यतुष्टोऽभवद्राजाप्रददौचविभूषणम् ॥६-३१-९॥।।
श्लोक 10
अशोकवनिकायांतुसीतादर्शनलालसः ।वैरृतानामधिपतिस्संविवेशमहाबलः ॥६-३१-१०॥।।
श्लोक 11
ततोदीनामदैन्यार्हांददर्शधनदानुजः ॥६-३१-११॥।।
श्लोक 12
अधोमुखींशोकपरामुपविष्टांमहीतले ।भर्तारमेवध्यायन्तीमशोकवविकांगताम् ॥६-३१-१२॥।।
श्लोक 13
उपास्यमानांघोराभीराक्षसीभिरितस्ततः ।उपसृत्यततस्सीतांप्रहर्षंनामकीर्तयन् ।इदंचवचनंधृष्टमुवाचजनकात्मजाम् ॥६-३१-१३॥।।
श्लोक 14
सान्त्व्यमानामयाभद्रेयमुपाश्रित्यवल्गसे ।खरहन्तासतेभर्ताराघवस्समरेहतः ॥६-३१-१४॥।।
श्लोक 15
छिन्नंतेसर्वतोमूलंदर्पस्तेनिहतोमया ।व्यसनेनात्मनस्सीते ममभार्याभविष्यसि ॥६-३१-१५॥।।
श्लोक 16
विसृजेमांमतिंमूढे: किंमृतेनकरिष्यसि ।भवस्वभद्रे: भार्याणांसर्वेसामीश्वरीमम ॥६-३१-१६॥।।
श्लोक 17
अल्पपुण्ये: निवृत्तार्थे: मूढे: पण्डितमानिनि: ।शृणुभर्तृवधंसीते: घोरंवृत्रवधंयथा ॥६-३१-१७॥।।
श्लोक 18
समायातस्समुद्रान्तंमांहन्तुंकिलराघवः ।वानरेन्द्रप्रणीतेनबलेनमहतावृतः ॥६-३१-१८॥।।
श्लोक 19
सन्निविष्टस्समुद्रस्यपीड्यतीरमथोत्तरम् ।बलेनमहतारामोव्रजत्यस्तंदिवाकरे ॥६-३१-१९॥।।
श्लोक 20
अथाध्वनिपरिश्रान्तमर्धरात्रेस्थितंबलम् ।सुखसुप्तंसमासाद्यचारित्रंप्रथमंचरैः ॥६-३१-२०॥।।
श्लोक 21
तत्प्रहस्तप्रणीतेनबलेनमहतामम ।बलमस्यहतंरात्रौयत्ररामस्सलक्ष्मणः ॥६-३१-२१॥।।
श्लोक 22
पट्टसान्परिघांश्चक्रान्दण्डान्महायशान् ।बाणजालानिशूलानिभास्वरान्कूटमुद्गरान् ॥६-३१-२२॥।।
श्लोक 23
यष्टीश्चतोमरान् शक्तीश्चक्राणिमुसलानिच ।उद्यम्योद्यम्यरक्षोभिर्वानरेषुनिपातितां ॥६-३१-२३॥।।
श्लोक 24
अथसुप्तस्यरामस्यप्रहस्तेनप्रमाथिना ।असक्तंकृतहस्तेनशिरश्छिन्नंमहासिना ॥६-३१-२४॥।।
श्लोक 25
विभीषणस्समुत्पत्यनिगृहीतोयदृच्छया ।दिशःप्रव्राजितस्सर्वैस्सर्लक्ष्मणःप्लवगैस्सहा ॥६-३१-२५॥।।
श्लोक 26
सुग्रीवोग्रीनयासीतेभग्नयाप्लवगाधिपः ।निरस्तहनुकश्शेतेहनुमान्राक्षसैर्हतः ॥६-३१-२६॥।।
श्लोक 27
जाम्बवानथजानुभ्यामुत्पतन्निहतोयुधि ।पट्टसैर्बहुभिश्छिन्नोनिकृत्तःपादपोयथा ॥६-३१-२७॥।।
श्लोक 28
मैन्दश्चद्विविदश्चोभौनिहतौवानरर्षभौ ॥६-३१-२८॥।।
श्लोक 29
निश्श्वसन्तौरुदन्तौचरुधिरेणसमुक्षितौ ।असिनाव्यायतौछिन्नौमध्येह्यरिनिषूदनौ ॥६-३१-२९॥।।
श्लोक 30
अनुतिष्ठतिमेदिन्यांपनसःपनसोयथा ॥६-३१-३०॥।।
श्लोक 31
नाराचैर्बहुभिश्चिन्नश्शेतेदर्यांदरीमुखः ।कुमुदस्तुमहातेजानिष्कूजन्सायकै: कृतः ॥६-३१-३१॥।।
श्लोक 32
अङ्गदोबहुभिश्छिन्नश्शरैरासाद्यराक्षसैः ।पतितोरुधिरोद्गारीक्षितौनिपतिताङ्गदः ॥६-३१-३२॥।।
श्लोक 33
हरयोमथितानागैरथजातैस्तथापरे ।शयितामृदिताश्चाश्वैर्यायुवेगैरिवाम्बुदाः ॥६-३१-३३॥।।
श्लोक 34
प्रहृताश्चपरेत्रस्ताहस्यमानाजघन्यतः ।अभिद्रुतास्तुरक्षोभिस्सिंहैरिवमहाद्विपाः ॥६-३१-३४॥।।
श्लोक 35
सागरेपतिताःकेचित्केचिग्दगनमाश्रिताः ।ऋक्षावृक्षानुपारूढावानरींवृत्तिमाश्रिताः ॥६-३१-३५॥।।
श्लोक 36
सागरस्यचतीरेषुशैलेषुचवनेषुच ।पिङ्गलास्तेविरूपाक्षैर्बहुभिर्बहवोहताः ॥६-३१-३६॥।।
श्लोक 37
एवंतवहतोभर्ताससैन्योममसेनया ।क्षतजार्द्रंरजोध्वस्तमिदंचस्याहृतंशिरः ॥६-३१-३७॥।।
श्लोक 38
ततःपरमदुर्धर्षोरावणोराक्षसेश्वरः ।सीतायामुपशन्त्यांराक्षसीमिदमब्रवीत् ॥६-३१-३८॥।।
श्लोक 39
राक्षसंक्रूरकर्माणंविद्युज्जिह्वंत्वमानय ।येनतद्राघवशिरस्सङ्ग्रामात्स्वयमाहृतम् ॥६-३१-३९॥।।
श्लोक 40
विद्युज्जिह्वस्ततोगृह्यशिरस्तत्सशरासनम् ।प्रणामंशिरसाकृत्वारावणस्याग्रतस्थितः ॥६-३१-४०॥।।
श्लोक 41
तमब्रवीत्ततोराजारावणोराक्षसंस्थितम् ।विद्युज्जिह्वंमहाजिह्वंसमीपपरिवर्तिनम् ॥६-३१-४१॥।।
श्लोक 42
अग्रतःकुरुसीतायाश्शीघ्रंदाशरधेशशिरः ।अवस्थांपश्चिमांभर्तुःकृपणासाधुपश्यतु ॥६-३१-४२॥।।
श्लोक 43
एवमुक्तंतुतद्रक्षशशिरस्तत्प्रियदर्शनम् ।उपनिक्षिप्यसीतायाःक्षिप्रमन्तरधीयत ॥६-३१-४३॥।।
श्लोक 44
रावणश्चापिचिक्षेपभस्वरंकार्मुकंमहत् ।त्रिषुलोकेषुविख्यातंसीतामिदमुवाचह ॥६-३१-४४॥।।
श्लोक 45
इदंतुतवरामस्यकार्मुकंज्यासमायुतम् ।इहप्रहस्तेनानीतंहत्वातंनिशिमानुषम् ॥६-३१-४५॥।।
श्लोक 46
सविद्युज्जिह्वेनसहैवतच्छिरोधनुश्चभूमौविनिकीर्यरावणः ।विदेहराजस्यसुतांयशस्विनींततोऽब्रवीत्तांभवमेवशानुगा ॥६-३१-४६॥।।