मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण युद्धकाण्ड सर्ग 67

वाल्मीकि रामायण युद्धकाण्ड सर्ग 67 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

ते निवृत्ता महाकायाः श्रुत्वा ऽङ्गदवचस्तदा।नैष्ठिकीं बुद्धिमासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः ।। ६.६७.१ ।।्रशक्त्या ।। ६.६७.१९ ।। ।।व चक्षुषा।समुदीरितवीर्याश्च समारोपितविक्रमाः।पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ।। ६.६७.२ ।।

श्लोक 2

प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः।चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ।। ६.६७.३ ।।

श्लोक 3

अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च।वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ।। ६.६७.४ ।।

श्लोक 4

स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान्।अर्दयन् सुमहाकायः समन्ताद्व्यक्षिपद्रिपून् ।। ६.६७.५ ।।

श्लोक 5

शतानि सप्त चाष्टौ च सहस्राणि च वानराः।प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ।। ६.६७.६ ।।

श्लोक 6

षोडशाष्टौ च दश च विंशत्ऺित्रंशत्तथैव च।परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति।भक्षयन् भृशसङ्क्रुद्धो गरुडः पन्नगानिव ।। ६.६७.७ ।।

श्लोक 7

कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः।वृक्षाद्रिहस्ता हरयस्तस्थुः सङ्ग्राममूर्धनि ।। ६.६७.८ ।।

श्लोक 8

ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः।दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ।। ६.६७.९ ।।

श्लोक 9

तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः।तमप्राप्तो महाकायं तस्य सैन्ये ऽपतत्तदा ।। ६.६७.१० ।।

श्लोक 10

ममर्दाश्वान् गजांश्चापि रथांश्चैव नगोत्तमः।तानि चान्यानि रक्षांसि पुनश्चान्यद्गिरेः शिरेः ।। ६.६७.११ ।।

श्लोक 11

तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि।रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ।। ६.६७.१२ ।।६.६७.१२९ ।।।।। ६.६७.१२३ ।।णो वीरो निर्दहन्निव चक्षुषा।रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः।शिरांसि नदतां जह्रुः सहसा भीमनिस्वनाः ।। ६.६७.१३ ।।

श्लोक 12

वानराश्च महात्मानः समुत्पाट्य महाद्रुमान्।रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् ।। ६.६७.१४ ।।

श्लोक 13

हनुमान् शैलशृङ्गाणि वृक्षांश्च विविधान् बहून्।ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ।। ६.६७.१५ ।।

श्लोक 14

तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह।बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ।। ६.६७.१६ ।।

श्लोक 15

ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य।तस्थौ ततो ऽस्यापततः पुरस्तान्महीधराग्रं हनुमान् प्रगृह्य ।। ६.६७.१७ ।।

श्लोक 16

स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम्।स चुक्षुभे तेन तदा ऽभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ।। ६.६७.१८ ।।

श्लोक 17

स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम्।बाह्वन्तरे मारुतिमाजघान गुहो ऽचलं क्रौञ्चमिवोग्रशक्त्या ।। ६.६७.१९ ।।

श्लोक 18

स शूलनिर्भिन्नमहाभूजान्तरः प्रविह्वलः शोणितमुद्वमन् मुखात्।ननाद भीमं हनुमान् महाहवे युगान्तमेघस्तनितस्वनोपमम् ।। ६.६७.२० ।।

श्लोक 19

ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य।प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ।। ६.६७.२१ ।।

श्लोक 20

ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम्।प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ।। ६.६७.२२ ।।

श्लोक 21

तमापतन्तं सम्प्रेक्ष्य मुष्टिना ऽभिजघान ह।मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ।। ६.६७.२३ ।।

श्लोक 22

सविस्फुलिङ्गं सज्वालं निपपात महीतले।ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ।। ६.६७.२४ ।।

श्लोक 23

पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ।। ६.६७.२५ ।।

श्लोक 24

शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः।कुम्भकर्णं महाकायं सर्वतो ऽभिप्रदुद्रुवुः ।। ६.६७.२६ ।।

श्लोक 25

स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे।ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ।। ६.६७.२७ ।।

श्लोक 26

कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः।निपपातर्षभो भीमः प्रमुखाद्वान्तशोणितः ।। ६.६७.२८ ।।

श्लोक 27

मुष्टिना शरभं हत्वा जानुना नीलमाहवे।आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ।। ६.६७.२९ ।।

श्लोक 28

पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम्।दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ।। ६.६७.३० ।।

श्लोक 29

निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः।तेषु वानरमुख्येषु पतितेषु महात्मसु।वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ।। ६.६७.३१ ।।

श्लोक 30

तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः।समारुह्य समुत्पत्य ददंशुश्च महाबलाः ।। ६.६७.३२ ।।

श्लोक 31

तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा।कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ।। ६.६७.३३ ।।

श्लोक 32

स वानरसहस्रैस्तैराचितः पर्वतोपमः।रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ।। ६.६७.३४ ।।

श्लोक 33

बाहुभ्यां वानरान् सर्वान् प्रगृह्य सुमहाबलः।भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ।। ६.६७.३५ ।।

श्लोक 34

प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे।नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ।। ६.६७.३६ ।।

श्लोक 35

भक्षयन् भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः।बभञ्ज वानरान् सर्वान् सङ्क्रुद्धो राक्षसोत्तमः ।। ६.६७.३७ ।।

श्लोक 36

मांसशोणितसङ्क्लेदां भूमिं कुर्वन् स राक्षसः।चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ।। ६.६७.३८ ।।

श्लोक 37

वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः।शूलहस्तो बभौ सङ्ख्ये कुम्भकर्णो महाबलः ।। ६.६७.३९ ।।

श्लोक 38

यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः।तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ।। ६.६७.४० ।।

श्लोक 39

ततस्ते वध्यमानास्तु हतयूथा विनायकाः ।।

श्लोक 40

वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ।। ६.६७.४१ ।।

श्लोक 41

अनेकशो वध्यमानाः कुम्भकर्णेन वानराः।राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ।। ६.६७.४२ ।।

श्लोक 42

प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तसुतात्मजः।अभ्यधावत वेगेन कुम्भकर्णं महाहवे ।। ६.६७.४३ ।।

श्लोक 43

शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः।त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ।। ६.६७.४४ ।।

श्लोक 44

चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि।स तेनाभिहतो ऽत्यर्थं गिरिशृङ्गेण मूर्धनि ।। ६.६७.४५ ।।

श्लोक 45

कुम्भकर्णः प्रजज्वाल कोपेन महता तदा।सो ऽभ्यधावत वेगेन वालिपुत्रममर्षणः ।। ६.६७.४६ ।।

श्लोक 46

कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान्।शूलं ससर्ज वै रोषादङ्गदे स महावलः ।। ६.६७.४७ ।।

श्लोक 47

तमापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः।लाघवान्मोचयामास बलवान् वानरर्षभः ।। ६.६७.४८ ।।

श्लोक 48

उत्पत्य चैनं सहसा तलेनोरस्यताडयत्।स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ।। ६.६७.४९ ।।

श्लोक 49

स लब्धसञ्ज्ञो बलवान् मुष्टिमावर्त्त्य राक्षसः।अपहासेन चिक्षेप विसञ्ज्ञः स पपात ह ।। ६.६७.५० ।।

श्लोक 50

तस्मिन् प्लवगशार्दूले विसञ्ज्ञे पतिते भुवि।तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ।। ६.६७.५१ ।।

श्लोक 51

तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम्।उत्पपात तदा वीरः सुग्रीवो वानराधिपः ।। ६.६७.५२ ।।

श्लोक 52

पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः।अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ।। ६.६७.५३ ।।

श्लोक 53

तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम्।तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ।। ६.६७.५४ ।।

श्लोक 54

कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवङ्गमान्।कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ।। ६.६७.५५ ।।

श्लोक 55

पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्।भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ।। ६.६७.५६ ।।

श्लोक 56

त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि।सह स्वैकनिपातं मे पर्वतस्यास्य राक्षस ।। ६.६७.५७ ।।

श्लोक 57

तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्।श्रुत्वा राक्षसशार्दूलः कुम्भकर्णो ऽब्रवीद्वचः ।। ६.६७.५८ ।।

श्लोक 58

प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजस्सुतः।श्रुतपौरुषसम्पन्नः कस्माद्गर्जसि वानर ।। ६.६७.५९ ।।

श्लोक 59

स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच।तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसन्निभेन ।। ६.६७.६० ।।

श्लोक 60

तच्छैलशृङ्गं सहसा विशीर्णं भुजान्तरे तस्य तदा विशाले।ततो विषेदुः सहसा प्लवङ्गा रक्षोगणाश्चापि मुदा विनेदुः ।। ६.६७.६१ ।।

श्लोक 61

स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्त्रम्।व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ।। ६.६७.६२ ।।

श्लोक 62

तत् कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनधामजुष्टम्।क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतो ऽनिलस्य ।। ६.६७.६३ ।।

श्लोक 63

कृतं भारसहस्रस्य शूलं कालायसं महत्।बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ।। ६.६७.६४ ।।

श्लोक 64

शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी।हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ।। ६.६७.६५ ।।

श्लोक 65

सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः।मारुतिं पूजयाञ्चक्रुर्दृष्ट्वा शूलं तथागतम् ।। ६.६७.६६ ।।

श्लोक 66

स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा।उत्पाट्य लङ्कामलयात् स शृङ्गं जघान सुग्रीवमुपेत्य तेन ।। ६.६७.६७ ।।

श्लोक 67

स शैलशृङ्गाभिहतो विसञ्ज्ञः पपात भूमौ युधि वानरेन्द्रः।तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः ।। ६.६७.६८ ।।

श्लोक 68

तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम्।जहार सुग्रीवमभिप्रगृह्य यथा ऽनिलो मेघमतिप्रचण्डः ।। ६.६७.६९ ।।

श्लोक 69

स तं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः।रराज मेरुप्रतिमानरूपो मेरुर्यथा ऽभ्युच्छ्रितघोरशृङ्गः ।। ६.६७.७० ।।

श्लोक 70

ततस्तमुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः।शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ।। ६.६७.७१ ।।

श्लोक 71

ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः।अस्मिन् हृते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः ।। ६.६७.७२ ।।

श्लोक 72

विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः।कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ।। ६.६७.७३ ।।

श्लोक 73

हनुमांश्चिन्तयामास मतिमान् मारुतात्मजः।एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ।। ६.६७.७४ ।।

श्लोक 74

यद्वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा।भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम् ।। ६.६७.७५ ।।

श्लोक 75

मया हते संयति कुम्भकर्णे महाबले मुष्टिविकीर्णदेहे।विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः ।। ६.६७.७६ ।।

श्लोक 76

अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः।गृहीतो ऽयं यदि भवेत्ऺित्रदशैः सासुरोरगैः ।। ६.६७.७७ ।।

श्लोक 77

मन्ये न तावदात्मानं बुद्ध्यते वानराधिपः।शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ।। ६.६७.७८ ।।

श्लोक 78

अयं मुहूर्तात् सुग्रीवो लब्धसञ्ज्ञो महाहवे।आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति ।। ६.६७.७९ ।।

श्लोक 79

मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः।अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः ।। ६.६७.८० ।।

श्लोक 80

तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य तु।भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ।। ६.६७.८१ ।।

श्लोक 81

इत्येवं चिन्तयित्वा तु हनुमान् मारुतात्मजः।भूयः संस्तम्भयामास वानराणां महाचमूम् ।। ६.६७.८२ ।।

श्लोक 82

स कुम्भकर्णो ऽथ विवेश लङ्कां स्फुरन्तमादाय महाकपिं तम्।विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ।। ६.६७.८३ ।।

श्लोक 83

लाजगन्धोदवर्षैस्तु सिच्यमानः शनैःशनैः।राजमार्गस्य शीतत्वात् सञ्ज्ञामाप महाबलः ।। ६.६७.८४ ।।

श्लोक 84

ततः स सञ्ज्ञामुपलभ्य कृच्छ्राद्वलीयसस्तस्य भुजान्तरस्थः।अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ।। ६.६७.८५ ।।

श्लोक 85

एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य।तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ।। ६.६७.८६ ।।

श्लोक 86

ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम्।खरैश्च कर्णौ दशनैश्च नासां ददंश पार्श्वेषु च कुम्भकर्णम् ।। ६.६७.८७ ।।

श्लोक 87

स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन विमर्दितश्च।रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ।। ६.६७.८८ ।।

श्लोक 88

स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः।जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम ।। ६.६७.८९ ।।

श्लोक 89

कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः।रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ।। ६.६७.९० ।।

श्लोक 90

शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः।युद्धायाभिमुखो भूयो मनश्चके महाबलः ।। ६.६७.९१ ।।

श्लोक 91

अमर्षाच्छोणितोद्गरी शुशुभे रावणानुजः।नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः ।। ६.६७.९२ ।।

श्लोक 92

गते तु तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः।अनायुधो ऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ।। ६.६७.९३ ।।

श्लोक 93

ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम्।बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः ।। ६.६७.९४ ।।

श्लोक 94

बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम्।चखाद रक्षांसि हरीन् पिशाचानृक्षांश्च मोहाद्युधि कुम्भकर्णः ।। ६.६७.९५ ।।

श्लोक 95

यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान् ।। ६.६७.९६ ।।

श्लोक 96

एकं द्वे त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः।समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ।। ६.६७.९७ ।।

श्लोक 97

सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः।वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ।। ६.६७.९८ ।।

श्लोक 98

ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ।। ६.६७.९९ ।।

श्लोक 99

कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ।। ६.६७.१०० ।।

श्लोक 100

शतानि सप्त चाष्टौ च विंशत्ऺित्रंशत्तथैव च।सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ।। ६.६७.१०१ ।।

श्लोक 101

तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः।चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ।। ६.६७.१०२ ।।

श्लोक 102

स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान्।निचखानाददे बाणान् विससर्ज च लक्ष्मणः ।। ६.६७.१०३ ।।

श्लोक 103

अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः।राममेवाभिदुद्राव दारयन्निव मेदिनीम् ।। ६.६७.१०४ ।।

श्लोक 104

अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्।कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ।। ६.६७.१०५ ।।

श्लोक 105

तस्य रामेण विद्धस्य सहसा ऽभिप्रधावतः।अङ्गारमित्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ।। ६.६७.१०६ ।।

श्लोक 106

रामास्त्रविद्धो घोरं वै नदन् राक्षसपुङ्गवः।अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ।। ६.६७.१०७ ।।

श्लोक 107

तस्योरसि निमग्नाश्च शरा बर्हिणवाससः।हस्ताच्चापि परिभ्रष्टा पपातोर्व्यां महागदा।आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले ।। ६.६७.१०८ ।।

श्लोक 108

स निरायुधमात्मानं यदा मेने महाबलः।मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ।। ६.६७.१०९ ।।

श्लोक 109

स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः।रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ।। ६.६७.११० ।।

श्लोक 110

स तीर्वेण च कोपेन रुधिरेण च मूर्च्छितः।वानरान् राक्षसानृक्षान् खादन् विपरिधावति ।। ६.६७.१११ ।।

श्लोक 111

अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः।चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ।। ६.६७.११२ ।।

श्लोक 112

अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः।शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ।। ६.६७.११३ ।।

श्लोक 113

तन्मेरुशिखराकारं द्योतमानमिव श्रिया।द्वे शते वानरेन्द्राणां पतमानमपातयत् ।। ६.६७.११४ ।।

श्लोक 114

तस्मिन् काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत्।कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् ।। ६.६७.११५ ।।

श्लोक 115

नैवायं वानरान् राजन्नापि जानाति राक्षसान्।मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति ।। ६.६७.११६ ।।

श्लोक 116

साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः।यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः ।। ६.६७.११७ ।।

श्लोक 117

अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः।प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान् ।। ६.६७.११८ ।।

श्लोक 118

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः ।। ६.६७.११९ ।।

श्लोक 119

कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः।व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान् ।। ६.६७.१२० ।।

श्लोक 120

तान् दृष्ट्वा निर्धुतान् रामो दुष्टो ऽयमिति राक्षसः।सुमुत्पपात वेगेन धनुरुत्तममाददे ।। ६.६७.१२१ ।।

श्लोक 121

क्रोधताम्रेक्षणो वीरो निर्दहन्निव चक्षुषा।राघवो राक्षसं रोषादभिदुद्राव वेगितः।यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ।। ६.६७.१२२ ।।

श्लोक 122

स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम्।हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ।। ६.६७.१२३ ।।

श्लोक 123

स वानरगणैस्तैस्तु वृतः परमदुर्जयः।लक्ष्मणानुचरो रामः सम्प्रतस्थे महावलः ।। ६.६७.१२४ ।।

श्लोक 124

स ददर्श महात्मानं किरीटिनमरिन्दमम्।शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ।। ६.६७.१२५ ।।

श्लोक 125

सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम्।मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् ।। ६.६७.१२६ ।।

श्लोक 126

विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम्।स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ।। ६.६७.१२७ ।।

श्लोक 127

जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम्।मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ।। ६.६७.१२८ ।।

श्लोक 128

तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्।विस्फारयामास तदा कार्मुकं पुरुषर्षभः ।। ६.६७.१२९ ।।

श्लोक 129

स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः।अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ।। ६.६७.१३० ।।

श्लोक 130

ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम्।तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ।। ६.६७.१३१ ।।

श्लोक 131

आगच्छ रक्षोधिप मा विषादमवस्थितो ऽहं प्रगृहीतचापः।अवेहि मां शक्रसपत्न रामं मया मुहूर्ताद्भविता विचेताः ।। ६.६७.१३२ ।।

श्लोक 132

रामो ऽयमिति विज्ञाय जहास विकृतस्वनम्।अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ।। ६.६७.१३३ ।।

श्लोक 133

पातयन्निव सर्वेषां हृदयानि वनौकसाम् ।। ६.६७.१३४ ।।

श्लोक 134

प्रहस्य विकृतं भीमं स मेघस्तनितोपमम्।कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।। ६.६७.१३५ ।।

श्लोक 135

नाहं विराधो विज्ञेयो न कबन्धः खरो न च।न वाली न च मारीचः कुम्भकर्णो ऽहमागतः ।। ६.६७.१३६ ।।

श्लोक 136

पश्य मे मुद्गरं घोरं सर्वकालायसं महत्।अनेन निर्जिता देवा दानवाश्च पुरा मया ।। ६.६७.१३७ ।।

श्लोक 137

विकर्णनास इति मां नावज्ञातुं त्वमर्हसि।स्वल्पा ऽपि हि न मे पीडा कर्णनासाविनाशनात् ।। ६.६७.१३८ ।।

श्लोक 138

दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु।ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ।। ६.६७.१३९ ।।

श्लोक 139

स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान्।तैराहतो वज्रसमग्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ।। ६.६७.१४० ।।

श्लोक 140

यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च।ते कुम्भकर्णस्य तदा शरीरे वज्रोपमा न व्यथयाम्प्रचक्रुः ।। ६.६७.१४१ ।।

श्लोक 141

स वारिधारा इव सायकांस्तान् पिबन् शरीरेण महेन्द्रशत्रुः।जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ।। ६.६७.१४२ ।।

श्लोक 142

ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम्।विव्याध तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ।। ६.६७.१४३ ।।

श्लोक 143

वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय।समुद्गरं तेन जघान बाहुं स कृत्तबाहुस्तुमुलं ननाद ।। ६.६७.१४४ ।।

श्लोक 144

स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः।पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहनीं च ।। ६.६७.१४५ ।।

श्लोक 145

ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः।प्रवेपिताङ्गं ददृशुः सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् ।। ६.६७.१४६ ।।

श्लोक 146

स कुम्भकर्णो ऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः।उत्पाटयामास करेण वृक्षं ततो ऽभिदुद्राव रणे नरेन्द्रम् ।। ६.६७.१४७ ।।

श्लोक 147

स तस्य बाहुं सहसालवृक्षं समुद्यतं पन्नगभोगकल्पम्।ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ।। ६.६७.१४८ ।।

श्लोक 148

स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसन्निकाशः।विवेष्टमानो ऽभिजघान वृक्षान् शैलान् शिला वानरराक्षसांश्च ।। ६.६७.१४९ ।।

श्लोक 149

तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम्।द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ।। ६.६७.१५० ।।

श्लोक 150

तौ तस्य पादौ प्रदिशो दिशश्च गिरीन् गुहाश्चैव महार्णवं च।लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ।। ६.६७.१५१ ।।

श्लोक 151

निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम्।दुद्राव रामं सहसा ऽभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ।। ६.६७.१५२ ।।

श्लोक 152

अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः।स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि ।। ६.६७.१५३ ।।

श्लोक 153

अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम्।अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ।। ६.६७.१५४ ।।

श्लोक 154

तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम्।महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ।। ६.६७.१५५ ।।

श्लोक 155

स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन्।सधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः ।। ६.६७.१५६ ।।

श्लोक 156

स तन्महापर्वतकूटसन्निभं विवृत्तदंष्ट्रं चलचारुकुण्डलम्।चकर्त रक्षोधिपतेः शिरस्तथा यथैव वृत्रस्य पुरा पुरन्दरः ।। ६.६७.१५७ ।।

श्लोक 157

कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत्।आदित्ये ऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ।। ६.६७.१५८ ।।

श्लोक 158

तद्रामबाणाभिहतं पपात रक्षश्शिरःपर्वतसन्निकाशम्।बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ।। ६.६७.१५९ ।।

श्लोक 159

न्यपतत् कुम्भकर्णो ऽथ स्वकायेन निपातयन्।प्लवङ्गमानां कोट्यश्च परितः सम्प्रधावताम् ।। ६.६७.१६० ।।

श्लोक 160

तच्चाति कायं हिमवत्प्रकाशं रक्षस्ततस्तोयनिधौ पपात।ग्राहान् वरान् मीनवरान् भुजङ्गान् ममर्द भूमिं च तदा विवेश ।। ६.६७.१६१ ।।

श्लोक 161

तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे।चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ।। ६.६७.१६२ ।।

श्लोक 162

ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः।सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ।। ६.६७.१६३ ।।

श्लोक 163

ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः।विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः ।। ६.६७.१६४ ।।

श्लोक 164

स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद्विमुक्तः।तथा व्यभासीद्भुवि वानरौघे निहत्य रामो युधि कुम्भकर्णम् ।। ६.६७.१६५ ।।

श्लोक 165

प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः।अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे ।। ६.६७.१६६ ।।

श्लोक 166

स कुम्भकर्णं सुरसङ्घमर्दनं महत्सु युद्धेषु पराजितश्रमम्।ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ।। ६.६७.१६७ ।।

श्लोक 167

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तषष्टितमः सर्गः ।। ६७ ।।

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ