श्रीमद्भागवत प्रथम स्कन्ध अध्याय 19
श्रीमद्भागवत प्रथम स्कन्ध अध्याय 19 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1.19.1
महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्न् आत्मकृतं सुदुर्मनाः । अहो मया नीचम् अनार्यवत् कृतं निरागसि ब्रह्मणि गूढतेजसि ॥ 1 ॥
श्लोक 1.19.2
ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवम् अद्धा ॥ 2 ॥
श्लोक 1.19.3
अद्यैव राज्यं बलम् ऋद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मे ऽभूत् पापीयसी धीर्द्विजदेवगोभ्यः ॥ 3 ॥
श्लोक 1.19.4
स चिन्तयन्न् इत्थम् अथाशृणोद्यथा मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः । स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम् ॥ 4 ॥
श्लोक 1.19.5
अथो विहायेमम् अमुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवाम् अधिमन्यमान उपाविशत् प्रायम् अमर्त्यनद्याम् ॥ 5 ॥
श्लोक 1.19.6
या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकान् उभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः ॥ 6 ॥
श्लोक 1.19.7
इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्घ्रिम् अनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥ 7 ॥
श्लोक 1.19.8
तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः । प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ 8 ॥
श्लोक 1.19.9
अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतो ऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ 9 ॥
श्लोक 1.19.10
मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिर् द्वैपायनो भगवान् नारदश्च ॥ 10 ॥
श्लोक 1.19.11
अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥ 11 ॥
श्लोक 1.19.12
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयाम् आस विविक्तचेता उपस्थितो ऽग्रे ऽभिगृहीतपाणिः ॥ 12 ॥
श्लोक 1.19.13
अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः । राज्ञां कुलं ब्राह्मणपादशौचाद् दूराद्विसृष्टं बत गर्ह्यकर्म ॥ 13 ॥
श्लोक 1.19.14
तस्यैव मे ऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयम् आशु धत्ते ॥ 14 ॥
श्लोक 1.19.15
तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तम् ईशे । द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ 15 ॥
श्लोक 1.19.16
पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु । महत्सु यां याम् उपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ 16 ॥
श्लोक 1.19.17
इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः । उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥ 17 ॥
श्लोक 1.19.18
एवं च तस्मिन् नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः । प्रशस्य भूमौ व्यकिरन् प्रसूनैर् मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ 18 ॥
श्लोक 1.19.19
महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः । ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥ 19 ॥
श्लोक 1.19.20
न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । ये ऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः ॥ 20 ॥
श्लोक 1.19.21
सर्वे वयं तावदिहास्महे ऽथ कलेवरं यावदसौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥ 21 ॥
श्लोक 1.19.22
आश्रुत्य तदृषिगणवचः परीक्षित् समं मधुच्युद्गुरु चाव्यलीकम् । आभाषतैनान् अभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः ॥ 22 ॥
श्लोक 1.19.23
समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहम् आत्मशीलम् ॥ 23 ॥
श्लोक 1.19.24
ततश्च वः पृच्छ्यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥ 24 ॥
श्लोक 1.19.25
तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गाम् अटमानो ऽनपेक्षः । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः ॥ 25 ॥
श्लोक 1.19.26
तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ 26 ॥
श्लोक 1.19.27
निगूढजत्रुं पृथुतुङ्गवक्षसम् आवर्तनाभिं वलिवल्गूदरं च । दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ 27 ॥
श्लोक 1.19.28
श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन । प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस् तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ 28 ॥
श्लोक 1.19.29
स विष्णुरातो ऽतिथय आगताय तस्मै सपर्यां शिरसाजहार । ततो निवृत्ता ह्यबुधाः स्त्रियो ऽर्भका महासने सोपविवेश पूजितः ॥ 29 ॥
श्लोक 1.19.30
स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः । व्यरोचतालं भगवान् यथेन्दुर् ग्रहर्क्षतारानिकरैः परीतः ॥ 30 ॥
श्लोक 1.19.31
प्रशान्तम् आसीनम् अकुण्ठमेधसं मुनिं नृपो भागवतो ऽभ्युपेत्य । प्रणम्य मूर्ध्नावहितः कृताञ्जलिर् नत्वा गिरा सूनृतयान्वपृच्छत् ॥ 31 ॥
श्लोक 1.19.32
अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः । कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥ 32 ॥
श्लोक 1.19.33
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः ॥ 33 ॥
श्लोक 1.19.34
सान्निध्यात् ते महायोगिन् पातकानि महान्त्यपि । सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ 34 ॥
श्लोक 1.19.35
अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः । पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः ॥ 35 ॥
श्लोक 1.19.36
अन्यथा ते ऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् । नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ 36 ॥
श्लोक 1.19.37
अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा ॥ 37 ॥
श्लोक 1.19.38
यच् छ्रोतव्यम् अथो जप्यं यत् कर्तव्यं नृभिः प्रभो । स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ 38 ॥
श्लोक 1.19.39
नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानम् अपि गोदोहनं क्वचित् ॥ 39 ॥
श्लोक 1.19.40
एवम् आभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा । प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ 40 ॥