मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 18

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.18.1

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥ 1 ॥

श्लोक 1.18.2

ब्रह्मकोपोत्थिताद्यस्तु तक्षकात् प्राणविप्लवात् । न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥ 2 ॥

श्लोक 1.18.3

उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ 3 ॥

श्लोक 1.18.4

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात् सम्भ्रमो ऽन्तकाले ऽपि स्मरतां तत्पदाम्बुजम् ॥ 4 ॥

श्लोक 1.18.5

तावत् कलिर्न प्रभवेत् प्रविष्टो ऽपीह सर्वतः । यावदीशो महान् उर्व्याम् आभिमन्यव एकराट् ॥ 5 ॥

श्लोक 1.18.6

यस्मिन्न् अहनि यर्ह्येव भगवान् उत्ससर्ज गाम् । तदैवेहानुवृत्तो ऽसावधर्मप्रभवः कलिः ॥ 6 ॥

श्लोक 1.18.7

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ 7 ॥

श्लोक 1.18.8

किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ 8 ॥

श्लोक 1.18.9

उपवर्णितम् एतद्वः पुण्यं पारीक्षितं मया । वासुदेवकथोपेतम् आख्यानं यदपृच्छत ॥ 9 ॥

श्लोक 1.18.10

या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ 10 ॥

श्लोक 1.18.11

सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि नः ॥ 11 ॥

श्लोक 1.18.12

कर्मण्यस्मिन्न् अनाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु ॥ 12 ॥

श्लोक 1.18.13

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किम् उताशिषः ॥ 13 ॥

श्लोक 1.18.14

को नाम तृप्येद्रसवित् कथायां महत्तमैकान्तपरायणस्य । नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भवपाद्ममुख्याः ॥ 14 ॥

श्लोक 1.18.15

तन् नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ 15 ॥

श्लोक 1.18.16

स वै महाभागवतः परीक्षिद् येनापवर्गाख्यम् अदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ 16 ॥

श्लोक 1.18.17

तन् नः परं पुण्यम् असंवृतार्थम् आख्यानम् अत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ 17 ॥

श्लोक 1.18.18

अहो वयं जन्मभृतो ऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्तमानाम् अभिधानयोगः ॥ 18 ॥

श्लोक 1.18.19

कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । यो ऽनन्तशक्तिर्भगवान् अनन्तो महद्गुणत्वाद्यम् अनन्तम् आहुः ॥ 19 ॥

श्लोक 1.18.20

एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूतिर् यस्याङ्घ्रिरेणुं जुषते ऽनभीप्सोः ॥ 20 ॥

श्लोक 1.18.21

अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ 21 ॥

श्लोक 1.18.22

यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गम् ऊढम् । व्रजन्ति तत् पारमहंस्यम् अन्त्यं यस्मिन्न् अहिंसोपशमः स्वधर्मः ॥ 22 ॥

श्लोक 1.18.23

अहं हि पृष्टो ऽर्यमणो भवद्भिर् आचक्ष आत्मावगमो ऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिणस् तथा समं विष्णुगतिं विपश्चितः ॥ 23 ॥

श्लोक 1.18.24

एकदा धनुरुद्यम्य विचरन् मृगयां वने । मृगान् अनुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ 24 ॥

श्लोक 1.18.25

जलाशयम् अचक्षाणः प्रविवेश तम् आश्रमम् । ददर्श मुनिम् आसीनं शान्तं मीलितलोचनम् ॥ 25 ॥

श्लोक 1.18.26

प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिम् उपारतम् । स्थानत्रयात् परं प्राप्तं ब्रह्मभूतम् अविक्रियम् ॥ 26 ॥

श्लोक 1.18.27

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतम् अयाचत ॥ 27 ॥

श्लोक 1.18.28

अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः । अवज्ञातम् इवात्मानं मन्यमानश्चुकोप ह ॥ 28 ॥

श्लोक 1.18.29

अभूतपूर्वः सहसा क्षुत्तृड्भ्याम् अर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ 29 ॥

श्लोक 1.18.30

स तु ब्रह्मऋषेरंसे गतासुम् उरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरम् आगतः ॥ 30 ॥

श्लोक 1.18.31

एष किं निभृताशेष करणो मीलितेक्षणः । मृषासमाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ 31 ॥

श्लोक 1.18.32

तस्य पुत्रो ऽतितेजस्वी विहरन् बालको ऽर्भकैः । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदम् अब्रवीत् ॥ 32 ॥

श्लोक 1.18.33

अहो अधर्मः पालानां पीव्नां बलिभुजाम् इव । स्वामिन्यघं यद्दासानां द्वारपानां शुनाम् इव ॥ 33 ॥

श्लोक 1.18.34

ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः । स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुम् अर्हति ॥ 34 ॥

श्लोक 1.18.35

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भिन्नसेतून् अद्याहं शास्मि पश्यत मे बलम् ॥ 35 ॥

श्लोक 1.18.36

इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ 36 ॥

श्लोक 1.18.37

इति लङ्घितमर्यादं तक्षकः सप्तमे ऽहनि । दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ 37 ॥

श्लोक 1.18.38

ततो ऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ 38 ॥

श्लोक 1.18.39

स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ 39 ॥

श्लोक 1.18.40

विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा ते ऽपकृतम् इत्युक्तः स न्यवेदयत् ॥ 40 ॥

श्लोक 1.18.41

निशम्य शप्तम् अतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजम् अभ्यनन्दत् । अहो बतांहो महदद्य ते कृतम् अल्पीयसि द्रोह उरुर्दमो धृतः ॥ 41 ॥

श्लोक 1.18.42

न वै नृभिर्नरदेवं पराख्यं सम्मातुम् अर्हस्यविपक्वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ 42 ॥

श्लोक 1.18.43

अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयम् अङ्ग लोकः । तदा हि चौरप्रचुरो विनङ्क्ष्यत्यरक्ष्यमाणो ऽविवरूथवत् क्षणात् ॥ 43 ॥

श्लोक 1.18.44

तदद्य नः पापम् उपैत्यनन्वयं यन् नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियो ऽर्थान् पुरुदस्यवो जनाः ॥ 44 ॥

श्लोक 1.18.45

तदार्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततो ऽर्थकामाभिनिवेशितात्मनां शुनां कपीनाम् इव वर्णसङ्करः ॥ 45 ॥

श्लोक 1.18.46

धर्मपालो नरपतिः स तु सम्राड्बृहच्छ्रवाः । साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्श्रमयुतो दीनो नैवास्मच् छापम् अर्हति ॥ 46 ॥

श्लोक 1.18.47

अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुम् अर्हति ॥ 47 ॥

श्लोक 1.18.48

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत् प्रतिकुर्वन्ति तद्भक्ताः प्रभवो ऽपि हि ॥ 48 ॥

श्लोक 1.18.49

इति पुत्रकृताघेन सो ऽनुतप्तो महामुनिः । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ 49 ॥

श्लोक 1.18.50

प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ 50 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ