श्रीमद्भागवत प्रथम स्कन्ध अध्याय 2
श्रीमद्भागवत प्रथम स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1.2.1
इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्शणिः । प्रतिपूज्य वचस्तेशां प्रवक्तुम् उपचक्रमे ॥ 1 ॥
श्लोक 1.2.2
यं प्रव्रजन्तम् अनुपेतम् अपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवो ऽभिनेदुस् तं सर्वभूतहृदयं मुनिम् आनतो ऽस्मि ॥ 2 ॥
श्लोक 1.2.3
यः स्वानुभावम् अखिलश्रुतिसारम् एकम् अध्यात्मदीपम् अतितितीर्षतां तमो ऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुम् उपयामि गुरुं मुनीनाम् ॥ 3 ॥
श्लोक 1.2.4
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् ॥ 4 ॥
श्लोक 1.2.5
मुनयः साधु पृष्टो ऽहं भवद्भिर्लोकमङ्गलम् । यत् कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ 5 ॥
श्लोक 1.2.6
स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥ 6 ॥
श्लोक 1.2.7
वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ 7 ॥
श्लोक 1.2.8
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ 8 ॥
श्लोक 1.2.9
धर्मस्य ह्यापवर्ग्यस्य नार्थो ऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ 9 ॥
श्लोक 1.2.10
कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ 10 ॥
श्लोक 1.2.11
वदन्ति तत् तत्त्वविदस्तत्त्वं यज् ज्ञानम् अद्वयम् । ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ 11 ॥
श्लोक 1.2.12
तच् छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ 12 ॥
श्लोक 1.2.13
अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् । ॥ 13 ॥
श्लोक 1.2.14
।। तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ 14 ॥
श्लोक 1.2.15
यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ॥ 15 ॥
श्लोक 1.2.16
शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः । स्यान् महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ 16 ॥
श्लोक 1.2.17
शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ 17 ॥
श्लोक 1.2.18
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ 18 ॥
श्लोक 1.2.19
तदा रजस्तमोभावाः कामलोभादयश्च ये । चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ 19 ॥
श्लोक 1.2.20
एवं प्रसन्नमनसो भगवद्भक्तियोगतः । भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ 20 ॥
श्लोक 1.2.21
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ 21 ॥
श्लोक 1.2.22
अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ 22 ॥
श्लोक 1.2.23
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर् युक्तः परमपुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥ 23 ॥
श्लोक 1.2.24
पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद्ब्रह्मदर्शनम् ॥ 24 ॥
श्लोक 1.2.25
भेजिरे मुनयो ऽथाग्रे भगवन्तम् अधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते ये ऽनु तान् इह ॥ 25 ॥
श्लोक 1.2.26
मुमुक्षवो घोररूपान् हित्वा भूतपतीन् अथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ 26 ॥
श्लोक 1.2.27
रजस्तमःप्रकृतयः समशीला भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ 27 ॥
श्लोक 1.2.28
वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योग वासुदेवपराः क्रियाः ॥ 28 ॥
श्लोक 1.2.29
वासुदेवपरं ज्ञानं वासुदेवपरं तपः । वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ 29 ॥
श्लोक 1.2.30
स एवेदं ससर्जाग्रे भगवान् आत्ममायया । सदसद्रूपया चासौ गुणमयागुणो विभुः ॥ 30 ॥
श्लोक 1.2.31
तया विलसितेष्वेषु गुणेषु गुणवान् इव । अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ 31 ॥
श्लोक 1.2.32
यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ 32 ॥
श्लोक 1.2.33
असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ 33 ॥
श्लोक 1.2.34
भावयत्येष सत्त्वेन लोकान् वै लोकभावनः । लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ 34 ॥