श्रीमद्भागवत प्रथम स्कन्ध अध्याय 3
श्रीमद्भागवत प्रथम स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1.3.1
जगृहे पौरुषं रूपं भगवान् महदादिभिः । सम्भूतं षोडशकलम् आदौ लोकसिसृक्षया ॥ 1 ॥
श्लोक 1.3.2
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ 2 ॥
श्लोक 1.3.3
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ 3 ॥
श्लोक 1.3.4
पश्यन्त्यदो रूपम् अदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ 4 ॥
श्लोक 1.3.5
एतन् नानावताराणां निधानं बीजम् अव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ 5 ॥
श्लोक 1.3.6
स एव प्रथमं देवः कौमारं सर्गम् आश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ 6 ॥
श्लोक 1.3.7
द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः ॥ 7 ॥
श्लोक 1.3.8
तृतीयम् ऋषिसर्गं वै देवर्षित्वम् उपेत्य सः । तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ 8 ॥
श्लोक 1.3.9
तुर्ये धर्मकलासर्गे नरनारायणावृषी । भूत्वात्मोपशमोपेतम् अकरोद्दुश्चरं तपः ॥ 9 ॥
श्लोक 1.3.10
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ 10 ॥
श्लोक 1.3.11
षष्ठम् अत्रेरपत्यत्वं वृतः प्राप्तो ऽनसूयया । आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ 11 ॥
श्लोक 1.3.12
ततः सप्तम आकूत्यां रुचेर्यज्ञो ऽभ्यजायत । स यामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरम् ॥ 12 ॥
श्लोक 1.3.13
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ 13 ॥
श्लोक 1.3.14
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमाम् ओषधीर्विप्रास्तेनायं स उशत्तमः ॥ 14 ॥
श्लोक 1.3.15
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे । नाव्यारोप्य महीमय्याम् अपाद्वैवस्वतं मनुम् ॥ 15 ॥
श्लोक 1.3.16
सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ 16 ॥
श्लोक 1.3.17
धान्वन्तरं द्वादशमं त्रयोदशमम् एव च । अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ 17 ॥
श्लोक 1.3.18
चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रम् ऊर्जितम् । ददार करजैरूरावेरकां कटकृद्यथा ॥ 18 ॥
श्लोक 1.3.19
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः । पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् ॥ 19 ॥
श्लोक 1.3.20
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्राम् अकरोन् महीम् ॥ 20 ॥
श्लोक 1.3.21
ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसो ऽल्पमेधसः ॥ 21 ॥
श्लोक 1.3.22
नरदेवत्वम् आपन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ 22 ॥
श्लोक 1.3.23
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवान् अहरद्भरम् ॥ 23 ॥
श्लोक 1.3.24
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥ 24 ॥
श्लोक 1.3.25
अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ 25 ॥
श्लोक 1.3.26
अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ 26 ॥
श्लोक 1.3.27
ऋषयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः ॥ 27 ॥
श्लोक 1.3.28
एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ 28 ॥
श्लोक 1.3.29
जन्म गुह्यं भगवतो य एतत् प्रयतो नरः । सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ॥ 29 ॥
श्लोक 1.3.30
एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ 30 ॥
श्लोक 1.3.31
यथा नभसि मेघौघो रेणुर्वा पार्थिवो ऽनिले । एवं द्रष्टरि दृश्यत्वम् आरोपितम् अबुद्धिभिः ॥ 31 ॥
श्लोक 1.3.32
अतः परं यदव्यक्तम् अव्यूढगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः ॥ 32 ॥
श्लोक 1.3.33
यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ 33 ॥
श्लोक 1.3.34
यद्येषोपरता देवी माया वैशारदी मतिः । सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ 34 ॥
श्लोक 1.3.35
एवं च जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ 35 ॥
श्लोक 1.3.36
स वा इदं विश्वम् अमोघलीलः सृजत्यवत्यत्ति न सज्जते ऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ 36 ॥
श्लोक 1.3.37
न चास्य कश्चिन् निपुणेन धातुर् अवैति जन्तुः कुमनीष ऊतीः । नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्याम् इवाज्ञः ॥ 37 ॥
श्लोक 1.3.38
स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः । यो ऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् ॥ 38 ॥
श्लोक 1.3.39
अथेह धन्या भगवन्त इत्थं यद्वासुदेवे ऽखिललोकनाथे । कुर्वन्ति सर्वात्मकम् आत्मभावं न यत्र भूयः परिवर्त उग्रः ॥ 39 ॥
श्लोक 1.3.40
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवान् ऋषिः ॥ 40 ॥
श्लोक 1.3.41
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् । तदिदं ग्राहयाम् आससुतम् आत्मवतां वरम् ॥ 41 ॥
श्लोक 1.3.42
सर्ववेदेतिहासानां सारं सारं समुद्धृतम् । स तु संश्रावयाम् आसमहाराजं परीक्षितम् ॥ 42 ॥
श्लोक 1.3.43
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः । कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥ 43 ॥
श्लोक 1.3.44
कलौ नष्टदृशाम् एष पुराणार्को ऽधुनोदितः । तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥ 44 ॥
श्लोक 1.3.45
अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् । सो ऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥ 45 ॥