मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 1

श्रीमद्भागवत दशम स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.1.1

कथितो वंशविस्तारो भवता सोमसूर्ययोः । राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् ॥ 1 ॥

श्लोक 10.1.2

यदोश् च धर्मशीलस्य नितरां मुनिसत्तम । तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः ॥ 2 ॥

श्लोक 10.1.3

अवतीर्य यदोर् वंशे भगवान् भूतभावनः । कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ 3 ॥

श्लोक 10.1.4

निवृत्ततर्षैर् उपगीयमानाद् भवौषधाच् छ्रोत्रमनोऽभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ 4 ॥

श्लोक 10.1.5

पितामहा मे समरे ऽमरञ्जयैर् देवव्रताद्यातिरथैस् तिमिङ्गिलैः । दुरत्ययं कौरवसैन्यसागरं कृत्वातरन् वत्सपदं स्म यत्प्लवाः ॥ 5 ॥

श्लोक 10.1.6

द्रौण्य्अस्त्रविप्लुष्टम् इदं मद्अङ्गं सन्तानबीजं कुरुपाण्डवानाम् । जुगोप कुक्षिं गत आत्तचक्रो मातुश् च मे यः शरणं गतायाः ॥ 6 ॥

श्लोक 10.1.7

वीर्याणि तस्याखिलदेहभाजाम् अन्तर् बहिः पूरुषकालरूपैः । प्रयच्छतो मृत्युम् उतामृतं च मायामनुष्यस्य वदस्व विद्वन् ॥ 7 ॥

श्लोक 10.1.8

रोहिण्यास् तनयः प्रोक्तो रामः सङ्कर्षणस् त्वया । देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना ॥ 8 ॥

श्लोक 10.1.9

कस्मान् मुकुन्दो भगवान् पितुर् गेहाद् व्रजं गतः । क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥ 9 ॥

श्लोक 10.1.10

व्रजे वसन् किम् अकरोन् मधुपुर्यां च केशवः । भ्रातरं चावधीत् कंसं मातुर् अद्धातद्अर्हणम् ॥ 10 ॥

श्लोक 10.1.11

देहं मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः । यदुपुर्यां सहावात्सीत् पत्न्यः कत्य् अभवन् प्रभोः ॥ 11 ॥

श्लोक 10.1.12

एतद् अन्यच् च सर्वं मे मुने कृष्णविचेष्टितम् । वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ 12 ॥

श्लोक 10.1.13

नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते । पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ॥ 13 ॥

श्लोक 10.1.14

एवं निशम्य भृगुनन्दन साधुवादं वैयासकिः स भगवान् अथ विष्णुरातम् । प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं व्याहर्तुम् आरभत भागवतप्रधानः ॥ 14 ॥

श्लोक 10.1.15

सम्यग् व्यवसिता बुद्धिस् तव राजर्षिसत्तम । वासुदेवकथायां ते यज् जाता नैष्ठिकी रतिः ॥ 15 ॥

श्लोक 10.1.16

वासुदेवकथाप्रश्नः पुरुषांस् त्रीन् पुनाति हि । वक्तारं प्रच्छकं श्रोतॄंस् तत्पादसलिलं यथा ॥ 16 ॥

श्लोक 10.1.17

भूमिर् दृप्तनृपव्याजदैत्यानीकशतायुतैः । आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ 17 ॥

श्लोक 10.1.18

गौर् भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः । उपस्थितान्तिके तस्मै व्यसनं समवोचत ॥ 18 ॥

श्लोक 10.1.19

ब्रह्मा तद्उपधार्याथ सह देवैस् तया सह । जगाम सत्रिनयनस् तीरं क्षीरपयोनिधेः ॥ 19 ॥

श्लोक 10.1.20

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् । पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ 20 ॥

श्लोक 10.1.21

गिरं समाधौ गगने समीरितां निशम्य वेधास् त्रिदशान् उवाच ह । गां पौरुषीं मे शृणुतामराः पुनर् विधीयताम् आशु तथैव मा चिरम् ॥ 21 ॥

श्लोक 10.1.22

पुरैव पुंसावधृतो धराज्वरो भवद्भिर् अंशैर् यदुषूपजन्यताम् । स यावद् उर्व्या भरम् ईश्वरेश्वरः स्वकालशक्त्या क्षपयंश् चरेद् भुवि ॥ 22 ॥

श्लोक 10.1.23

वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥ 23 ॥

श्लोक 10.1.24

वासुदेवकलानन्तः सहस्रवदनः स्वराट् । अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ 24 ॥

श्लोक 10.1.25

विष्णोर् माया भगवती यया सम्मोहितं जगत् । आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ॥ 25 ॥

श्लोक 10.1.26

इत्य् आदिश्यामरगणान् प्रजापतिपतिर् विभुः । आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥ 26 ॥

श्लोक 10.1.27

शूरसेनो यदुपतिर् मथुराम् आवसन् पुरीम् । माथुराञ् छूरसेनांश् च विषयान् बुभुजे पुरा ॥ 27 ॥

श्लोक 10.1.28

राजधानी ततः साभूत् सर्वयादवभूभुजाम् । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ 28 ॥

श्लोक 10.1.29

तस्यां तु कर्हिचिच् छौरिर् वसुदेवः कृतोद्वहः । देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् ॥ 29 ॥

श्लोक 10.1.30

उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया । रश्मीन् हयानां जग्राह रौक्मै रथशतैर् वृतः ॥ 30 ॥

श्लोक 10.1.31

चतुःशतं पारिबर्हं गजानां हेममालिनाम् । अश्वानाम् अयुतं सार्धं रथानां च त्रिषट्शतम् ॥ 31 ॥

श्लोक 10.1.32

दासीनां सुकुमारीणां द्वे शते समलङ्कृते । दुहित्रे देवकः प्रादाद् याने दुहितृवत्सलः ॥ 32 ॥

श्लोक 10.1.33

शङ्खतूर्यमृदङ्गाश् च नेदुर् दुन्दुभयः समम् । प्रयाणप्रक्रमे तात वरवध्वोः सुमङ्गलम् ॥ 33 ॥

श्लोक 10.1.34

पथि प्रग्रहिणं कंसम् आभाष्याहाशरीरवाक् । अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसे ऽबुध ॥ 34 ॥

श्लोक 10.1.35

इत्य् उक्तः स खलः पापो भोजानां कुलपांसनः । भगिनीं हन्तुम् आरब्धं खड्गपाणिः कचे ऽग्रहीत् ॥ 35 ॥

श्लोक 10.1.36

तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् । वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥ 36 ॥

श्लोक 10.1.37

श्लाघनीयगुणः शूरैर् भवान् भोजयशस्करः । स कथं भगिनीं हन्यात् स्त्रियम् उद्वाहपर्वणि ॥ 37 ॥

श्लोक 10.1.38

मृत्युर् जन्मवतां वीर देहेन सह जायते । अद्य वाब्दशतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥ 38 ॥

श्लोक 10.1.39

देहे पञ्चत्वम् आपन्ने देही कर्मानुगो ऽवशः । देहान्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः ॥ 39 ॥

श्लोक 10.1.40

व्रजंस् तिष्ठन् पदैकेन यथैवैकेन गच्छति । यथा तृणजलौकैवं देही कर्मगतिं गतः ॥ 40 ॥

श्लोक 10.1.41

स्वप्ने यथा पश्यति देहम् ईदृशं मनोरथेनाभिनिविष्टचेतनः । दृष्टश्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किम् अपि ह्य् अपस्मृतिः ॥ 41 ॥

श्लोक 10.1.42

यतो यतो धावति दैवचोदितं मनो विकारात्मकम् आप पञ्चसु । गुणेषु मायारोचितेषु देह्य् असौ प्रपद्यमानः सह तेन जायते ॥ 42 ॥

श्लोक 10.1.43

ज्योतिर् यथैवोदकपार्थिवेष्व् अदः समीरवेगानुगतं विभाव्यते &अम्प्; एवं स्वमायारचितेष्व् असौ पुमान् गुणेषु रागानुगतो विमुह्यति ॥ 43 ॥

श्लोक 10.1.44

तस्मान् न कस्यचिद् द्रोहम् आचरेत् स तथाविधः । आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुर् वै परतो भयम् ॥ 44 ॥

श्लोक 10.1.45

एषा तवानुजा बाला कृपणा पुत्रिकोपमा । हन्तुं नार्हसि कल्याणीम् इमां त्वं दीनवत्सलः ॥ 45 ॥

श्लोक 10.1.46

एवं स सामभिर् भेदैर् बोध्यमानो ऽपि दारुणः । न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥ 46 ॥

श्लोक 10.1.47

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः । प्राप्तं कालं प्रतिव्योढुम् इदं तत्रान्वपद्यत ॥ 47 ॥

श्लोक 10.1.48

मृत्युर् बुद्धिमतापोह्यो यावद् बुद्धिबलोदयम् । यद्य् असौ न निवर्तेत नापराधो ऽस्ति देहिनः ॥ 48 ॥

श्लोक 10.1.49

प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् । सुता मे यदि जायेरन् मृत्युर् वा न म्रियेत चेत् ॥ 49 ॥

श्लोक 10.1.50

विपर्ययो वा किं न स्याद् गतिर् धातुर् दुरत्यया । उपस्थितो निवर्तेत निवृत्तः पुनर् आपतेत् ॥ 50 ॥

श्लोक 10.1.51

अग्नेर् यथा दारुवियोगयोगयोर् अदृष्टतो ऽन्यन् न निमित्तम् अस्ति । एवं हि जन्तोर् अपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥ 51 ॥

श्लोक 10.1.52

एवं विमृश्य तं पापं यावद्आत्मनिदर्शनम् । पूजयाम् आस वै शौरिर् बहुमानपुरःसरम् ॥ 52 ॥

श्लोक 10.1.53

प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम् । मनसा दूयमानेन विहसन्न् इदम् अब्रवीत् ॥ 53 ॥

श्लोक 10.1.54

न ह्य् अस्यास् ते भयं सौम्य यद् वै साहाशरीरवाक् । पुत्रान् समर्पयिष्ये ऽस्या यतस् ते भयम् उत्थितम् ॥ 54 ॥

श्लोक 10.1.55

स्वसुर् वधान् निववृते कंसस् तद्वाक्यसारवित् । वसुदेवो ऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥ 55 ॥

श्लोक 10.1.56

अथ काल उपावृत्ते देवकी सर्वदेवता । पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ 56 ॥

श्लोक 10.1.57

कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः । अर्पयाम् आस कृच्छ्रेण सो ऽनृताद् अतिविह्वलः ॥ 57 ॥

श्लोक 10.1.58

किं दुःसहं नु साधूनां विदुषां किम् अपेक्षितम् । किम् अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ 58 ॥

श्लोक 10.1.59

दृष्ट्वा समत्वं तच् छौरेः सत्ये चैव व्यवस्थितिम् । कंसस् तुष्टमना राजन् प्रहसन्न् इदम् अब्रवीत् ॥ 59 ॥

श्लोक 10.1.60

प्रतियातु कुमारो ऽयं न ह्य् अस्माद् अस्ति मे भयम् । अष्टमाद् युवयोर् गर्भान् मृत्युर् मे विहितः किल ॥ 60 ॥

श्लोक 10.1.61

तथेति सुतम् आदाय ययाव् आनकदुन्दुभिः । नाभ्यनन्दत तद्वाक्यम् असतो ऽविजितात्मनः ॥ 61 ॥

श्लोक 10.1.62

नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः । वृष्णयो वसुदेवाद्या देवक्य्आद्या यदुस्त्रियः ॥ 62 ॥

श्लोक 10.1.63

सर्वे वै देवताप्राया उभयोर् अपि भारत । ज्ञातयो बन्धुसुहृदो ये च कंसम् अनुव्रताः ॥ 63 ॥

श्लोक 10.1.64

एतत् कंसाय भगवाञ् छशंसाभ्येत्य नारदः । भूमेर् भारायमाणानां दैत्यानां च वधोद्यमम् ॥ 64 ॥

श्लोक 10.1.65

ऋषेर् विनिर्गमे कंसो यदून् मत्वा सुरान् इति । देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति ॥ 65 ॥

श्लोक 10.1.66

देवकीं वसुदेवं च निगृह्य निगडैर् गृहे । जातं जातम् अहन् पुत्रं तयोर् अजनशङ्कया ॥ 66 ॥

श्लोक 10.1.67

मातरं पितरं भ्रातॄन् सर्वांश् च सुहृदस् तथा । घ्नन्ति ह्य् असुतृपो लुब्धा राजानः प्रायशो भुवि ॥ 67 ॥

श्लोक 10.1.68

आत्मानम् इह सञ्जातं जानन् प्राग् विष्णुना हतम् । महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ 68 ॥

श्लोक 10.1.69

उग्रसेनं च पितरं यदुभोजान्धकाधिपम् । स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः ॥ 69 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ