श्रीमद्भागवत दशम स्कन्ध अध्याय 2
श्रीमद्भागवत दशम स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.2.1
प्रलम्बबकचाणूरतृणावर्तमहाशनैः । मुष्टिकारिष्टद्विविदपूतनाकेशीधेनुकैः ॥ 1 ॥
श्लोक 10.2.2
अन्यैश् चासुरभूपालैर् बाणभौमादिभिर् युतः । यदूनां कदनं चक्रे बली मागधसंश्रयः ॥ 2 ॥
श्लोक 10.2.3
ते पीडिता निविविशुः कुरुपञ्चालकेकयान् । शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि ॥ 3 ॥
श्लोक 10.2.4
एके तम् अनुरुन्धाना ज्ञातयः पर्युपासते । हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥ 4 ॥
श्लोक 10.2.5
सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते । गर्भो बभूव देवक्या हर्षशोकविवर्धनः ॥ 5 ॥
श्लोक 10.2.6
भगवान् अपि विश्वात्मा विदित्वा कंसजं भयम् । यदूनां निजनाथानां योगमायां समादिशत् ॥ 6 ॥
श्लोक 10.2.7
गच्छ देवि व्रजं भद्रे गोपगोभिर् अलङ्कृतम् । रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले । अन्याश् च कंससंविग्ना विवरेषु वसन्ति हि ॥ 7 ॥
श्लोक 10.2.8
देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् । तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ 8 ॥
श्लोक 10.2.9
अथाहम् अंशभागेन देवक्याः पुत्रतां शुभे । प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि ॥ 9 ॥
श्लोक 10.2.10
अर्चिष्यन्ति मनुष्यास् त्वां सर्वकामवरेश्वरीम् । धूपोपहारबलिभिः सर्वकामवरप्रदाम् ॥ 10 ॥
श्लोक 10.2.11
नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि । दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ 11 ॥
श्लोक 10.2.12
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च । माया नारायणीशानी शारदेत्य् अम्बिकेति च ॥ 12 ॥
श्लोक 10.2.13
गर्भसङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि । रामेति लोकरमणाद् बलभद्रं बलोच्छ्रयात् ॥ 13 ॥
श्लोक 10.2.14
सन्दिष्टैवं भगवता तथेत्य् ॐ इति तद्वचः । प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् ॥ 14 ॥
श्लोक 10.2.15
गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया । अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥ 15 ॥
श्लोक 10.2.16
भगवान् अपि विश्वात्मा भक्तानाम् अभयङ्करः । आविवेशांशभागेन मन आनकदुन्दुभेः ॥ 16 ॥
श्लोक 10.2.17
स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः । दुरासदो ऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ 17 ॥
श्लोक 10.2.18
ततो जगन्मङ्गलम् अच्युतांशं समाहितं शूरसुतेन देवी । दधार सर्वात्मकम् आत्मभूतं काष्ठा यथानन्दकरं मनस्तः ॥ 18 ॥
श्लोक 10.2.19
सा देवकी सर्वजगन्निवासनिवासभूता नितरां न रेजे । भोजेन्द्रगेहे ऽग्निशिखेव रुद्धा सरस्वती ज्ञानखले यथा सती ॥ 19 ॥
श्लोक 10.2.20
तां वीक्ष्य कंसः प्रभयाजितान्तरां विरोचयन्तीं भवनं शुचिस्मिताम् &अम्प्; आहैष मे प्राणहरो हरिर् गुहां ध्रुवं श्रितो यन् न पुरेयम् ईदृशी ॥ 20 ॥
श्लोक 10.2.21
किम् अद्य तस्मिन् करणीयम् आशु मे यद् अर्थतन्त्रो न विहन्ति विक्रमम् । स्त्रियाः स्वसुर् गुरुमत्या वधो ऽयं यशः श्रियं हन्त्य् अनुकालम् आयुः ॥ 21 ॥
श्लोक 10.2.22
स एष जीवन् खलु सम्परेतो वर्तेत यो ऽत्यन्तनृशंसितेन । देहे मृते तं मनुजाः शपन्ति गन्ता तमो ऽन्धं तनुमानिनो ध्रुवम् ॥ 22 ॥
श्लोक 10.2.23
इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः । आस्ते प्रतीक्षंस् तज्जन्म हरेर् वैरानुबन्धकृत् ॥ 23 ॥
श्लोक 10.2.24
आसीनः संविशंस् तिष्ठन् भुञ्जानः पर्यटन् महीम् । चिन्तयानो हृषीकेशम् अपश्यत् तन्मयं जगत् ॥ 24 ॥
श्लोक 10.2.25
ब्रह्मा भवश् च तत्रैत्य मुनिभिर् नारदादिभिः । देवैः सानुचरैः साकं गीर्भिर् वृषणम् ऐडयन् ॥ 25 ॥
श्लोक 10.2.26
सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये &अम्प्; सत्यस्य सत्यम् ऋतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ 26 ॥
श्लोक 10.2.27
एकायनो ऽसौ द्विफलस् त्रिमूलश् चतूरसः पञ्चविधः षड्आत्मा । सप्तत्वग् अष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्य् आदिवृक्षः ॥ 27 ॥
श्लोक 10.2.28
त्वम् एक एवास्य सतः प्रसूतिस् त्वं सन्निधानं त्वम् अनुग्रहश् च । त्वन्मायया संवृतचेतसस् त्वां पश्यन्ति नाना न विपश्चितो ये ॥ 28 ॥
श्लोक 10.2.29
बिभर्षि रूपाण्य् अवबोध आत्मा क्षेमाय लोकस्य चराचरस्य । सत्त्वोपपन्नानि सुखावहानि सताम् अभद्राणि मुहुः खलानाम् ॥ 29 ॥
श्लोक 10.2.30
त्वय्य् अम्बुजाक्षाखिलसत्त्वधाम्नि समाधिनावेशितचेतसैके । त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ 30 ॥
श्लोक 10.2.31
स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीमम् अदभ्रसौहृदाः &अम्प्; भवत्पदाम्भोरुहनावम् अत्र ते निधाय याताः सद्अनुग्रहो भवान् ॥ 31 ॥
श्लोक 10.2.32
ये ऽन्ये ऽरविन्दाक्ष विमुक्तमानिनस् त्वय्य् अस्तभावाद् अविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधो ऽनादृतयुष्मद्अङ्घ्रयः ॥ 32 ॥
श्लोक 10.2.33
तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्धसौहृदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ॥ 33 ॥
श्लोक 10.2.34
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयउपायनं वपुः &अम्प्; वेदक्रियायोगतपःसमाधिभिस् तवार्हणं येन जनः समीहते ॥ 34 ॥
श्लोक 10.2.35
सत्त्वं न चेद् धातर् इदं निजं भवेद् विज्ञानम् अज्ञानभिदापमार्जनम् । गुणप्रकाशैर् अनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ॥ 35 ॥
श्लोक 10.2.36
न नामरूपे गुणजन्मकर्मभिर् निरूपितव्ये तव तस्य साक्षिणः । मनोवचोभ्याम् अनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्य् अथापि हि ॥ 36 ॥
श्लोक 10.2.37
शृण्वन् गृणन् संस्मरयंश् च चिन्तयन् नामानि रूपाणि च मङ्गलानि ते &अम्प्; क्रियासु यस् त्वच्चरणारविन्दयोर् आविष्टचेता न भवाय कल्पते ॥ 37 ॥
श्लोक 10.2.38
दिष्ट्या हरे ऽस्या भवतः पदो भुवो भारो ऽपनीतस् तव जन्मनेशितुः । दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनैर् द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ 38 ॥
श्लोक 10.2.39
न ते ऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे । भवो निरोधः स्थितिर् अप्य् अविद्यया कृता यतस् त्वय्य् अभयाश्रयात्मनि ॥ 39 ॥
श्लोक 10.2.40
मत्स्याश्वकच्छपनृसिंहवराहहंसराजन्यविप्रविबुधेषु कृतावतारः &अम्प्; त्वं पासि नस् त्रिभुवनं च यथाधुनेश भारं भुवो हर यदूत्तम वन्दनं ते ॥ 40 ॥
श्लोक 10.2.41
दिष्ट्याम्ब ते कुक्षिगतः परः पुमान् अंशेन साक्षाद् भगवान् भवाय नः । माभूद् भयं भोजपतेर् मुमूर्षोर् गोप्ता यदूनां भविता तवात्मजः ॥ 41 ॥
श्लोक 10.2.42
इत्य् अभिष्टूय पुरुषं यद्रूपम् अनिदं यथा । ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर् दिवम् ॥ 42 ॥