मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 11

श्रीमद्भागवत दशम स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.11.1

गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् । तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः ॥ 1 ॥

श्लोक 10.11.2

भूम्यां निपतितौ तत्र ददृशुर् यमलार्जुनौ । बभ्रमुस् तद् अविज्ञाय लक्ष्यं पतनकारणम् ॥ 2 ॥

श्लोक 10.11.3

उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यम् उत्पात इति कातराः ॥ 3 ॥

श्लोक 10.11.4

बाला ऊचुर् अनेनेति तिर्यग्गतम् उलूखलम् । विकर्षता मध्यगेन पुरुषाव् अप्य् अचक्ष्महि ॥ 4 ॥

श्लोक 10.11.5

न ते तद्उक्तं जगृहुर् न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वोः केचित् सन्दिग्धचेतसः ॥ 5 ॥

श्लोक 10.11.6

उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् । विलोक्य नन्दः प्रहसद्वदनो विमुमोच ह ॥ 6 ॥

श्लोक 10.11.7

गोपीभिः स्तोभितो ऽनृत्यद् भगवान् बालवत् क्वचित् । उद्गायति क्वचिन् मुग्धस् तद्वशो दारुयन्त्रवत् ॥ 7 ॥

श्लोक 10.11.8

बिभर्ति क्वचिद् आज्ञप्तः पीठकोन्मानपादुकम् । बाहुक्षेपं च कुरुते स्वानां च प्रीतिम् आवहन् ॥ 8 ॥

श्लोक 10.11.9

दर्शयंस् तद्विदां लोक आत्मनो भृत्यवश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥ 9 ॥

श्लोक 10.11.10

क्रीणीहि भोः फलानीति श्रुत्वा सत्वरम् अच्युतः । फलार्थी धान्यम् आदाय ययौ सर्वफलप्रदः ॥ 10 ॥

श्लोक 10.11.11

फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् । फलैर् अपूरयद् रत्नैः फलभाण्डम् अपूरि च ॥ 11 ॥

श्लोक 10.11.12

सरित्तीरगतं कृष्णं भग्नार्जुनम् अथाह्वयत् । रामं च रोहिणी देवी क्रीडन्तं बालकैर् भृशम् ॥ 12 ॥

श्लोक 10.11.13

नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ । यशोदां प्रेषयाम् आस रोहिणी पुत्रवत्सलाम् ॥ 13 ॥

श्लोक 10.11.14

क्रीडन्तं सा सुतं बालैर् अतिवेलं सहाग्रजम् । यशोदाजोहवीत् कृष्णं पुत्रस्नेहस्नुतस्तनी ॥ 14 ॥

श्लोक 10.11.15

कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तो ऽसि पुत्रक ॥ 15 ॥

श्लोक 10.11.16

हे रामागच्छ ताताशु सानुजः कुलनन्दन । प्रातर् एव कृताहारस् तद् भवान् भोक्तुम् अर्हति ॥ 16 ॥

श्लोक 10.11.17

प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्य् आवयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥ 17 ॥

श्लोक 10.11.18

धूलिधूसरिताङ्गस् त्वं पुत्र मज्जनम् आवह । जन्मर्क्षं ते ऽद्य भवति विप्रेभ्यो देहि गाः शुचिः ॥ 18 ॥

श्लोक 10.11.19

पश्य पश्य वयस्यांस् ते मातृमृष्टान् स्वलङ्कृतान् । त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ 19 ॥

श्लोक 10.11.20

इत्थं यशोदा तम् अशेषशेखरं मत्वा सुतं स्नेहनिबद्धधीर् नृप । हस्ते गृहीत्वा सहरामम् अच्युतं नीत्वा स्ववाटं कृतवत्य् अथोदयम् ॥ 20 ॥

श्लोक 10.11.21

गोपवृद्धा महोत्पातान् अनुभूय बृहद्वने । नन्दादयः समागम्य व्रजकार्यम् अमन्त्रयन् ॥ 21 ॥

श्लोक 10.11.22

तत्रोपानन्दनामाह गोपो ज्ञानवयोऽधिकः । देशकालार्थतत्त्वज्ञः प्रियकृद् रामकृष्णयोः ॥ 22 ॥

श्लोक 10.11.23

उत्थातव्यम् इतो ऽस्माभिर् गोकुलस्य हितैषिभिः । आयान्त्य् अत्र महोत्पाता बालानां नाशहेतवः ॥ 23 ॥

श्लोक 10.11.24

मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालको ह्य् असौ । हरेर् अनुग्रहान् नूनम् अनश् चोपरि नापतत् ॥ 24 ॥

श्लोक 10.11.25

चक्रवातेन नीतो ऽयं दैत्येन विपदं वियत् । शिलायां पतितस् तत्र परित्रातः सुरेश्वरैः ॥ 25 ॥

श्लोक 10.11.26

यन् न म्रियेत द्रुमयोर् अन्तरं प्राप्य बालकः । असाव् अन्यतमो वापि तद् अप्य् अच्युतरक्षणम् ॥ 26 ॥

श्लोक 10.11.27

यावद् औत्पातिको ऽरिष्टो व्रजं नाभिभवेद् इतः । तावद् बालान् उपादाय यास्यामो ऽन्यत्र सानुगाः ॥ 27 ॥

श्लोक 10.11.28

वनं वृन्दावनं नाम पशव्यं नवकाननम् । गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् ॥ 28 ॥

श्लोक 10.11.29

तत् तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् । गोधनान्य् अग्रतो यान्तु भवतां यदि रोचते ॥ 29 ॥

श्लोक 10.11.30

तच् छ्रुत्वैकधियो गोपाः साधु साध्व् इति वादिनः । व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ 30 ॥

श्लोक 10.11.31

वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च । अनःस्व् आरोप्य गोपाला यत्ता आत्तशरासनाः ॥ 31 ॥

श्लोक 10.11.32

गोधनानि पुरस्कृत्य शृङ्गाण्य् आपूर्य सर्वतः । तूर्यघोषेण महता ययुः सहपुरोहिताः ॥ 32 ॥

श्लोक 10.11.33

गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तयः । कृष्णलीला जगुः प्रीत्या निष्ककण्ठ्यः सुवाससः ॥ 33 ॥

श्लोक 10.11.34

तथा यशोदारोहिण्याव् एकं शकटम् आस्थिते । रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ 34 ॥

श्लोक 10.11.35

वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् । तत्र चक्रुर् व्रजावासं शकटैर् अर्धचन्द्रवत् ॥ 35 ॥

श्लोक 10.11.36

वृन्दावनं गोवर्धनं यमुनापुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राममाधवयोर् नृप ॥ 36 ॥

श्लोक 10.11.37

एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः । कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥ 37 ॥

श्लोक 10.11.38

अविदूरे व्रजभुवः सह गोपालदारकैः । चारयाम् आसतुर् वत्सान् नानाक्रीडापरिच्छदौ ॥ 38 ॥

श्लोक 10.11.39

क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् । क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिमगोवृषैः ॥ 39 ॥

श्लोक 10.11.40

वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर् जन्तूंश् चेरतुः प्राकृतौ यथा ॥ 40 ॥

श्लोक 10.11.41

कदाचिद् यमुनातीरे वत्सांश् चारयतोः स्वकैः । वयस्यैः कृष्णबलयोर् जिघांसुर् दैत्य आगमत् ॥ 41 ॥

श्लोक 10.11.42

तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः । दर्शयन् बलदेवाय शनैर् मुग्ध इवासदत् ॥ 42 ॥

श्लोक 10.11.43

गृहीत्वापरपादाभ्यां सहलाङ्गूलम् अच्युतः । भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् । स कपित्थैर् महाकायः पात्यमानैः पपात ह ॥ 43 ॥

श्लोक 10.11.44

तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्व् इति । देवाश् च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥ 44 ॥

श्लोक 10.11.45

तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । सप्रातर्आशौ गोवत्सांश् चारयन्तौ विचेरतुः ॥ 45 ॥

श्लोक 10.11.46

स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर् जलम् ॥ 46 ॥

श्लोक 10.11.47

ते तत्र ददृशुर् बाला महासत्त्वम् अवस्थितम् । तत्रसुर् वज्रनिर्भिन्नं गिरेः शृङ्गम् इव च्युतम् ॥ 47 ॥

श्लोक 10.11.48

स वै बको नाम महान् असुरो बकरूपधृक् । आगत्य सहसा कृष्णं तीक्ष्णतुण्डो ऽग्रसद् बली ॥ 48 ॥

श्लोक 10.11.49

कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः । बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ 49 ॥

श्लोक 10.11.50

तं तालुमूलं प्रदहन्तम् अग्निवद् गोपालसूनुं पितरं जगद्गुरोः । चच्छर्द सद्यो ऽतिरुषाक्षतं बकस् तुण्डेन हन्तुं पुनर् अभ्यपद्यत ॥ 50 ॥

श्लोक 10.11.51

तम् आपतन्तं स निगृह्य तुण्डयोर् दोर्भ्यां बकं कंससखं सतां पतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ 51 ॥

श्लोक 10.11.52

तदा बकारिं सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः । समीडिरे चानकशङ्खसंस्तवैस् तद् वीक्ष्य गोपालसुता विसिस्मिरे ॥ 52 ॥

श्लोक 10.11.53

मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणम् इवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजम् एत्य तज् जगुः ॥ 53 ॥

श्लोक 10.11.54

श्रुत्वा तद् विस्मिता गोपा गोप्यश् चातिप्रियादृताः । प्रेत्यागतम् इवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥ 54 ॥

श्लोक 10.11.55

अहो बतास्य बालस्य बहवो मृत्यवो ऽभवन् । अप्य् आसीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ 55 ॥

श्लोक 10.11.56

अथाप्य् अभिभवन्त्य् एनं नैव ते घोरदर्शनाः । जिघांसयैनम् आसाद्य नश्यन्त्य् अग्नौ पतङ्गवत् ॥ 56 ॥

श्लोक 10.11.57

अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यद् आह भगवान् अन्वभावि तथैव तत् ॥ 57 ॥

श्लोक 10.11.58

इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भववेदनाम् ॥ 58 ॥

श्लोक 10.11.59

एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे । निलायनैः सेतुबन्धैर् मर्कटोत्प्लवनादिभिः ॥ 59 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ