श्रीमद्भागवत दशम स्कन्ध अध्याय 12
श्रीमद्भागवत दशम स्कन्ध अध्याय 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.12.1
क्वचिद् वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्यवत्सपान् । प्रबोधयञ् छृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥ 1 ॥
श्लोक 10.12.2
तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः । स्वान् स्वान् सहस्रोपरिसङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा ॥ 2 ॥
श्लोक 10.12.3
कृष्णवत्सैर् असङ्ख्यातैर् यूथीकृत्य स्ववत्सकान् । चारयन्तो ऽर्भलीलाभिर् विजह्रुस् तत्र तत्र ह ॥ 3 ॥
श्लोक 10.12.4
फलप्रबालस्तवकसुमनःपिच्छधातुभिः । काचगुञ्जामणिस्वर्णभूषिता अप्य् अभूषयन् ॥ 4 ॥
श्लोक 10.12.5
मुष्णन्तो ऽन्योन्यशिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः । तत्रत्याश् च पुनर् दूराद् धसन्तश् च पुनर् ददुः ॥ 5 ॥
श्लोक 10.12.6
यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् । अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥ 6 ॥
श्लोक 10.12.7
केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन । केचिद् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ 7 ॥
श्लोक 10.12.8
विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः । बकैर् उपविशन्तश् च नृत्यन्तश् च कलापिभिः ॥ 8 ॥
श्लोक 10.12.9
विकर्षन्तः कीशबालान् आरोहन्तश् च तैर् द्रुमान् । विकुर्वन्तश् च तैः साकं प्लवन्तश् च पलाशिषु ॥ 9 ॥
श्लोक 10.12.10
साकं भेकैर् विलङ्घन्तः सरितः स्रवसम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तश् च प्रतिस्वनान् ॥ 10 ॥
श्लोक 10.12.11
इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ 11 ॥
श्लोक 10.12.12
यत्पादपांसुर् बहुजन्मकृच्छ्रतो धृतात्मभिर् योगिभिर् अप्य् अलभ्यः &अम्प्; स एव यद्दृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् ॥ 12 ॥
श्लोक 10.12.13
अथाघनामाभ्यपतन् महासुरस् तेषां सुखक्रीडनवीक्षणाक्षमः । नित्यं यद्अन्तर् निजजीवितेप्सुभिः पीतामृतैर् अप्य् अमरैः प्रतीक्ष्यते ॥ 13 ॥
श्लोक 10.12.14
दृष्ट्वार्भकान् कृष्णमुखान् अघासुरः कंसानुशिष्टः स बकीबकानुजः &अम्प्; अयं तु मे सोदरनाशकृत् तयोर् द्वयोर् ममैनं सबलं हनिष्ये ॥ 14 ॥
श्लोक 10.12.15
एते यदा मत्सुहृदोस् तिलापः कृतास् तदा नष्टसमा व्रजौकसः । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभृतो हि ये ते ॥ 15 ॥
श्लोक 10.12.16
इति व्यवस्याजगरं बृहद् वपुः स योजनायाममहाद्रिपीवरम् । धृत्वाद्भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ॥ 16 ॥
श्लोक 10.12.17
धराधरोष्ठो जलदोत्तरोष्ठो दर्य्आननान्तो गिरिशृङ्गदंष्ट्रः । ध्वान्तान्तर्आस्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः ॥ 17 ॥
श्लोक 10.12.18
दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् । व्यात्ताजगरतुण्डेन ह्य् उत्प्रेक्षन्ते स्म लीलया ॥ 18 ॥
श्लोक 10.12.19
अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् । अस्मत्सङ्ग्रसनव्यात्तव्यालतुण्डायते न वा ॥ 19 ॥
श्लोक 10.12.20
सत्यम् अर्ककरारक्तम् उत्तराहनुवद् घनम् । अधराहनुवद् रोधस् तत्प्रतिच्छाययारुणम् ॥ 20 ॥
श्लोक 10.12.21
प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे । तुङ्गशृङ्गालयो ऽप्य् एतास् तद्दंष्ट्राभिश् च पश्यत ॥ 21 ॥
श्लोक 10.12.22
आस्तृतायाममार्गो ऽयं रसनां प्रतिगर्जति । एषां अन्तर्गतं ध्वान्तम् एतद् अप्य् अन्तर्आननम् ॥ 22 ॥
श्लोक 10.12.23
दावोष्णखरवातो ऽयं श्वासवद् भाति पश्यत । तद्दग्धसत्त्वदुर्गन्धो ऽप्य् अन्तर्आमिषगन्धवत् ॥ 23 ॥
श्लोक 10.12.24
अस्मान् किम् अत्र ग्रसिता निविष्टान् अयं तथा चेद् बकवद् विनङ्क्ष्यति । क्षणाद् अनेनेति बकार्य्उशन्मुखं वीक्ष्योद्धसन्तः करताडनैर् ययुः ॥ 24 ॥
श्लोक 10.12.25
इत्थं मिथो ऽतथ्यम् अतज्ज्ञभाषितं श्रुत्वा विचिन्त्येत्य् अमृषा मृषायते &अम्प्; रक्षो विदित्वाखिलभूतहृत्स्थितः स्वानां निरोद्धुं भगवान् मनो दधे ॥ 25 ॥
श्लोक 10.12.26
तावत् प्रविष्टास् त्व् असुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः । प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ॥ 26 ॥
श्लोक 10.12.27
तान् वीक्ष्य कृष्णः सकलाभयप्रदो ह्य् अनन्यनाथान् स्वकराद् अवच्युतान् &अम्प्; दीनांश् च मृत्योर् जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मितः ॥ 27 ॥
श्लोक 10.12.28
कृत्यं किम् अत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् । द्वयं कथं स्याद् इति संविचिन्त्य ज्ञात्वाविशत् तुण्डम् अशेषदृग् घरिः ॥ 28 ॥
श्लोक 10.12.29
तदा घनच्छदा देवा भयाद् धाहेति चुक्रुशुः । जहृषुर् ये च कंसाद्याः कौणपास् त्व् अघबान्धवाः ॥ 29 ॥
श्लोक 10.12.30
तच् छ्रुत्वा भगवान् कृष्णस् त्व् अव्ययः सार्भवत्सकम् । चूर्णीचिकीर्षोर् आत्मानं तरसा ववृधे गले ॥ 30 ॥
श्लोक 10.12.31
ततो ऽतिकायस्य निरुद्धमार्गिणो ह्य् उद्गीर्णदृष्टेर् भ्रमतस् त्व् इतस् ततः । पूर्णो ऽन्तर्अङ्गे पवनो निरुद्धो मूर्धन् विनिर्भिद्य विनिर्गतो बहिः ॥ 31 ॥
श्लोक 10.12.32
तेनैव सर्वेषु बहिर् गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्ट्या स्वयोत्थाप्य तद्अन्वितः पुनर् वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ 32 ॥
श्लोक 10.12.33
पीनाहिभोगोत्थितम् अद्भुतं महज् ज्योतिः स्वधाम्ना ज्वलयद् दिशो दश । प्रतीक्ष्य खे ऽवस्थितम् ईशनिर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥ 33 ॥
श्लोक 10.12.34
ततो ऽतिहृष्टाः स्वकृतो ऽकृतार्हणं पुष्पैः सुगा अप्सरसश् च नर्तनैः &अम्प्; गीतैः सुरा वाद्यधराश् च वाद्यकैः स्तवैश् च विप्रा जयनिःस्वनैर् गणाः ॥ 34 ॥
श्लोक 10.12.35
तद्अद्भुतस्तोत्रसुवाद्यगीतिकाजयादिनैकोत्सवमङ्गलस्वनान् । श्रुत्वा स्वधाम्नो ऽन्त्य् अज आगतो ऽचिराद् दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ 35 ॥
श्लोक 10.12.36
राजन्न् आजगरं चर्म शुष्कं वृन्दावने ऽद्भुतम् । व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ 36 ॥
श्लोक 10.12.37
एतत् कौमारजं कर्म हरेर् आत्माहिमोक्षणम् । मृत्योः पौगण्डके बाला दृष्ट्वोचुर् विस्मिता व्रजे ॥ 37 ॥
श्लोक 10.12.38
नैतद् विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः । अघो ऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्व् असतां सुदुर्लभम् ॥ 38 ॥
श्लोक 10.12.39
सकृद् यद्अङ्गप्रतिमान्तर्आहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्य्अभिव्युदस्तमायो ऽन्तर्गतो हि किं पुनः ॥ 39 ॥
श्लोक 10.12.40
इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश् चरितं विचित्रम् । पप्रच्छ भूयो ऽपि तद् एव पुण्यं वैयासकिं यन् निगृहीतचेताः ॥ 40 ॥
श्लोक 10.12.41
ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् । यत् कौमारे हरिकृतं जगुः पौगण्डके ऽर्भकाः ॥ 41 ॥
श्लोक 10.12.42
तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो । नूनम् एतद् धरेर् एव माया भवति नान्यथा ॥ 42 ॥
श्लोक 10.12.43
वयं धन्यतमा लोके गुरो ऽपि क्षत्रबन्धवः । वयं पिबामो मुहुस् त्वत्तः पुण्यं कृष्णकथामृतम् ॥ 43 ॥
श्लोक 10.12.44
इत्थं स्म पृष्टः स तु बादरायणिस् तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात् पुनर् लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम ॥ 44 ॥