मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 9

श्रीमद्भागवत दशम स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.9.1

एकदा गृहदासीषु यशोदा नन्दगेहिनी । कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ 1 ॥

श्लोक 10.9.2

यानि यानीह गीतानि तद्बालचरितानि च । दधिनिर्मन्थने काले स्मरन्ती तान्य् अगायत ॥ 2 ॥

श्लोक 10.9.3

क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः &अम्प्; रज्ज्व्आकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ 3 ॥

श्लोक 10.9.4

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः । गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ 4 ॥

श्लोक 10.9.5

तम् अङ्कम् आरूढम् अपाययत् स्तनं स्नेहस्नुतं सस्मितम् ईक्षती मुखम् । अतृप्तम् उत्सृज्य जवेन सा ययाव् उत्सिच्यमाने पयसि त्व् अधिश्रिते ॥ 5 ॥

श्लोक 10.9.6

सञ्जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर् दधिमन्थभाजनम् । भित्त्वा मृषाश्रुर् दृषद्अश्मना रहो जघास हैयङ्गवम् अन्तरं गतः ॥ 6 ॥

श्लोक 10.9.7

उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्य्अमत्रकम् । भग्नं विलोक्य स्वसुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती ॥ 7 ॥

श्लोक 10.9.8

उलूखलाङ्घ्रेर् उपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् । हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतम् आगमच् छनैः ॥ 8 ॥

श्लोक 10.9.9

ताम् आत्तयष्टिं प्रसमीक्ष्य सत्वरस् ततो ऽवरुह्यापससार भीतवत् &अम्प्; गोप्य् अन्वधावन् न यम् आप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥ 9 ॥

श्लोक 10.9.10

अन्वञ्चमाना जननी बृहच्चलच्छ्रोणीभराक्रान्तगतिः सुमध्यमा । जवेन विस्रंसितकेशबन्धनच्युतप्रसूनानुगतिः परामृशत् ॥ 10 ॥

श्लोक 10.9.11

कृतागसं तं प्ररुदन्तम् अक्षिणी कषन्तम् अञ्जन्मषिणी स्वपाणिना । उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् ॥ 11 ॥

श्लोक 10.9.12

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला । इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ 12 ॥

श्लोक 10.9.13

न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥ 13 ॥

श्लोक 10.9.14

तं मत्वात्मजम् अव्यक्तं मर्त्यलिङ्गम् अधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ 14 ॥

श्लोक 10.9.15

तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः । द्व्य्अङ्गुलोनम् अभूत् तेन सन्दधे ऽन्यच् च गोपिका ॥ 15 ॥

श्लोक 10.9.16

यदासीत् तद् अपि न्यूनं तेनान्यद् अपि सन्दधे । तद् अपि द्व्य्अङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम् ॥ 16 ॥

श्लोक 10.9.17

एवं स्वगेहदामानि यशोदा सन्दधत्य् अपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ 17 ॥

श्लोक 10.9.18

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्वबन्धने ॥ 18 ॥

श्लोक 10.9.19

एवं सन्दर्शिता ह्य् अङ्ग हरिणा भृत्यवश्यता । स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ 19 ॥

श्लोक 10.9.20

नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्गसंश्रया । प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥ 20 ॥

श्लोक 10.9.21

नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमताम् इह ॥ 21 ॥

श्लोक 10.9.22

कृष्णस् तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः । अद्राक्षीद् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ 22 ॥

श्लोक 10.9.23

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् । नलकूवरमणिग्रीवाव् इति ख्यातौ श्रियान्वितौ ॥ 23 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ