श्रीमद्भागवत दशम स्कन्ध अध्याय 8
श्रीमद्भागवत दशम स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.8.1
गर्गः पुरोहितो राजन् यदूनां सुमहातपाः । व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ॥ 1 ॥
श्लोक 10.8.2
तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः । आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥ 2 ॥
श्लोक 10.8.3
सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥ 3 ॥
श्लोक 10.8.4
महद्विचलनं नॄणां गृहिणां दीनचेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ 4 ॥
श्लोक 10.8.5
ज्योतिषाम् अयनं साक्षाद् यत् तज् ज्ञानम् अतीन्द्रियम् । प्रणीतं भवता येन पुमान् वेद परावरम् ॥ 5 ॥
श्लोक 10.8.6
त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि । बालयोर् अनयोर् नॄणां जन्मना ब्राह्मणो गुरुः ॥ 6 ॥
श्लोक 10.8.7
यदूनाम् अहम् आचार्यः ख्यातश् च भुवि सर्वदा । सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ 7 ॥
श्लोक 10.8.8
कंसः पापमतिः सख्यं तव चानकदुन्दुभेः । देवक्या अष्टमो गर्भो न स्त्री भवितुम् अर्हति ॥ 8 ॥
श्लोक 10.8.9
इति सञ्चिन्तयञ् छ्रुत्वा देवक्या दारिकावचः । अपि हन्ता गताशङ्कस् तर्हि तन् नो ऽनयो भवेत् ॥ 9 ॥
श्लोक 10.8.10
अलक्षितो ऽस्मिन् रहसि मामकैर् अपि गोव्रजे । कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ 10 ॥
श्लोक 10.8.11
एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितम् एव तत् । चकार नामकरणं गूढो रहसि बालयोः ॥ 11 ॥
श्लोक 10.8.12
अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः । आख्यास्यते राम इति बलाधिक्याद् बलं विदुः । यदूनाम् अपृथग्भावात् सङ्कर्षणम् उशन्त्य् अपि ॥ 12 ॥
श्लोक 10.8.13
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ 13 ॥
श्लोक 10.8.14
प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ 14 ॥
श्लोक 10.8.15
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥ 15 ॥
श्लोक 10.8.16
एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः । अनेन सर्वदुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ 16 ॥
श्लोक 10.8.17
पुरानेन व्रजपते साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः ॥ 17 ॥
श्लोक 10.8.18
य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयो ऽभिभवन्त्य् एतान् विष्णुपक्षान् इवासुराः ॥ 18 ॥
श्लोक 10.8.19
तस्मान् नन्दात्मजो ऽयं ते नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ 19 ॥
श्लोक 10.8.20
इत्य् आत्मानं समादिश्य गर्गे च स्वगृहं गते । नन्दः प्रमुदितो मेने आत्मानं पूर्णम् आशिषाम् ॥ 20 ॥
श्लोक 10.8.21
कालेन व्रजताल्पेन गोकुले रामकेशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ 21 ॥
श्लोक 10.8.22
ताव् अङ्घ्रियुग्मम् अनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु &अम्प्; तन्नादहृष्टमनसाव् अनुसृत्य लोकं मुग्धप्रभीतवद् उपेयतुर् अन्ति मात्रोः ॥ 22 ॥
श्लोक 10.8.23
तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिराव् उपगृह्य दोर्भ्याम् । दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ 23 ॥
श्लोक 10.8.24
यर्ह्य् अङ्गनादर्शनीयकुमारलीलाव् अन्तर्व्रजे तद् अबलाः प्रगृहीतपुच्छैः । वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर् हसन्त्यः ॥ 24 ॥
श्लोक 10.8.25
शृङ्ग्य्अग्निदंष्ट्र्य्असिजलद्विजकण्टकेभ्यः क्रीडापराव् अतिचलौ स्वसुतौ निषेद्धुम् । गृह्याणि कर्तुम् अपि यत्र न तज्जनन्यौ शेकात आपतुर् अलं मनसो ऽनवस्थाम् ॥ 25 ॥
श्लोक 10.8.26
कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले । अघृष्टजानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ 26 ॥
श्लोक 10.8.27
ततस् तु भगवान् कृष्णो वयस्यैर् व्रजबालकैः । सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ 27 ॥
श्लोक 10.8.28
कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । शृण्वन्त्याः किल तन्मातुर् इति होचुः समागताः ॥ 28 ॥
श्लोक 10.8.29
वत्सान् मुञ्चन् क्वचिद् असमये क्रोशसञ्जातहासः स्तेयं स्वाद्व् अत्त्य् अथ दधिपयः कल्पितैः स्तेययोगैः &अम्प्; मर्कान् भोक्ष्यन् विभजति स चेन् नात्ति भाण्डं भिन्नत्ति द्रव्यालाभे सगृहकुपितो यात्य् उपक्रोश्य तोकान् ॥ 29 ॥
श्लोक 10.8.30
हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् छिद्रं ह्य् अन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् । ध्वान्तागारे धृतमणिगणं स्वाङ्गम् अर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥ 30 ॥
श्लोक 10.8.31
एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ स्तेयोपायैर् विरचितकृतिः सुप्रतीको यथास्ते । इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिर् व्याख्यातार्था प्रहसितमुखी न ह्य् उपालब्धुम् ऐच्छत् ॥ 31 ॥
श्लोक 10.8.32
एकदा क्रीडमानास् ते रामाद्या गोपदारकाः । कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥ 32 ॥
श्लोक 10.8.33
सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी । यशोदा भयसम्भ्रान्तप्रेक्षणाक्षम् अभाषत ॥ 33 ॥
श्लोक 10.8.34
कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्य् एते कुमारास् ते ऽग्रजो ऽप्य् अयम् ॥ 34 ॥
श्लोक 10.8.35
नाहं भक्षितवान् अम्ब सर्वे मिथ्याभिशंसिनः । यदि सत्यगिरस् तर्हि समक्षं पश्य मे मुखम् ॥ 35 ॥
श्लोक 10.8.36
यद्य् एवं तर्हि व्यादेहीत्य् उक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ 36 ॥
श्लोक 10.8.37
सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः । साद्रिद्वीपाब्धिभूगोलं सवाय्व्अग्नीन्दुतारकम् ॥ 37 ॥
श्लोक 10.8.38
ज्योतिश्चक्रं जलं तेजो नभस्वान् वियद् एव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास् त्रयः ॥ 38 ॥
श्लोक 10.8.39
एतद् विचित्रं सहजीवकालस्वभावकर्माशयलिङ्गभेदम् । सूनोस् तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानम् अवाप शङ्काम् ॥ 39 ॥
श्लोक 10.8.40
किं स्वप्न एतद् उत देवमाया किं वा मदीयो बत बुद्धिमोहः । अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥ 40 ॥
श्लोक 10.8.41
अथो यथावन् न वितर्कगोचरं चेतोमनःकर्मवचोभिर् अञ्जसा । यद्आश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ 41 ॥
श्लोक 10.8.42
अहं ममासौ पतिर् एष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती । गोप्यश् च गोपाः सहगोधनाश् च मे यन्माययेत्थं कुमतिः स मे गतिः ॥ 42 ॥
श्लोक 10.8.43
इत्थं विदिततत्त्वायां गोपिकायां स ईश्वरः । वैष्णवीं व्यतनोन् मायां पुत्रस्नेहमयीं विभुः ॥ 43 ॥
श्लोक 10.8.44
सद्यो नष्टस्मृतिर् गोपी सारोप्यारोहम् आत्मजम् । प्रवृद्धस्नेहकलिलहृदयासीद् यथा पुरा ॥ 44 ॥
श्लोक 10.8.45
त्रय्या चोपनिषद्भिश् च साङ्ख्ययोगैश् च सात्वतैः । उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ 45 ॥
श्लोक 10.8.46
नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ 46 ॥
श्लोक 10.8.47
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्य् अद्यापि कवयो यल् लोकशमलापहम् ॥ 47 ॥
श्लोक 10.8.48
द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह ॥ 48 ॥
श्लोक 10.8.49
जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ 49 ॥
श्लोक 10.8.50
अस्त्व् इत्य् उक्तः स भगवान् व्रजे द्रोणो महायशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ 50 ॥
श्लोक 10.8.51
ततो भक्तिर् भगवति पुत्रीभूते जनार्दने । दम्पत्योर् नितराम् आसीद् गोपगोपीषु भारत ॥ 51 ॥
श्लोक 10.8.52
कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः । सहरामो वसंश् चक्रे तेषां प्रीतिं स्वलीलया ॥ 52 ॥