श्रीमद्भागवत दशम स्कन्ध अध्याय 90
श्रीमद्भागवत दशम स्कन्ध अध्याय 90 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.90.1
सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः । सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ 1 ॥
श्लोक 10.90.2
स्त्रीभिश् चोत्तमवेषाभिर् नवयौवनकान्तिभिः । कन्दुकादिभिर् हर्म्येषु क्रीडन्तीभिस् तडिद्द्युभिः ॥ 2 ॥
श्लोक 10.90.3
नित्यं सङ्कुलमार्गायां मदच्युद्भिर् मतङ्गजैः । स्व्अलङ्कृतैर् भटैर् अश्वै रथैश् च कनकोज्ज्वलैः ॥ 3 ॥
श्लोक 10.90.4
उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु । निर्विशद्भृङ्गविहगैर् नादितायां समन्ततः ॥ 4 ॥
श्लोक 10.90.5
रेमे षोडशसाहस्रपत्नीनां एकवल्लभः । तावद् विचित्ररूपो ऽसौ तद्गेहेषु महर्द्धिषु ॥ 5 ॥
श्लोक 10.90.6
प्रोत्फुल्लोत्पलकह्लारकुमुदाम्भोजरेणुभिः । वासितामलतोयेषु कूजद्द्विजकुलेषु च ॥ 6 ॥
श्लोक 10.90.7
विजहार विगाह्याम्भो ह्रदिनीषु महोदयः । कुचकुङ्कुमलिप्ताङ्गः परिरब्धश् च योषिताम् ॥ 7 ॥
श्लोक 10.90.8
उपगीयमानो गन्धर्वैर् मृदङ्गपणवानकान् । वादयद्भिर् मुदा वीणां सूतमागधवन्दिभिः ॥ 8 ॥
श्लोक 10.90.9
सिच्यमानो ऽच्युतस् ताभिर् हसन्तीभिः स्म रेचकैः । प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर् यक्षराड् इव ॥ 9 ॥
श्लोक 10.90.10
ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः &अम्प्; कान्तं स्म रेचकजिहीर्षययोपगुह्य जातस्मरोत्स्मयलसद्वदना विरेजुः ॥ 10 ॥
श्लोक 10.90.11
कृष्णस् तु तत्स्तनविषज्जितकुङ्कुमस्रक् क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः । सिञ्चन् मुहुर् युवतिभिः प्रतिषिच्यमानो रेमे करेणुभिर् इवेभपतिः परीतः ॥ 11 ॥
श्लोक 10.90.12
नटानां नर्तकीनां च गीतवाद्योपजीविनाम् । क्रीडालङ्कारवासांसि कृष्णो ऽदात् तस्य च स्त्रियः ॥ 12 ॥
श्लोक 10.90.13
कृष्णस्यैवं विहरतो गत्य्आलापेक्षितस्मितैः । नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ 13 ॥
श्लोक 10.90.14
ऊचुर् मुकुन्दैकधियो गिर उन्मत्तवज् जडम् । चिन्तयन्त्यो ऽरविन्दाक्षं तानि मे गदतः शृणु ॥ 14 ॥
श्लोक 10.90.15
कुररि विलपसि त्वं वीतनिद्रा न शेषे स्वपिति जगति रात्र्याम् ईश्वरो गुप्तबोधः । वयम् इव सखि कच्चिद् गाढनिर्विद्धचेता नलिननयनहासोदारलीलेक्षितेन ॥ 15 ॥
श्लोक 10.90.16
नेत्रे निमीलयसि नक्तम् अदृष्टबन्धुस् त्वं रोरवीषि करुणं बत चक्रवाकि । दास्यं गत वयम् इवाच्युतपादजुष्टां किं वा स्रजं स्पृहयसे कवरेण वोढुम् ॥ 16 ॥
श्लोक 10.90.17
भो भोः सदा निष्टनसे उदन्वन्न् अलब्धनिद्रो ऽधिगतप्रजागरः । किम् वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ 17 ॥
श्लोक 10.90.18
त्वं यक्ष्मणा बलवतासि गृहीत इन्दो क्षीणस् तमो न निजदीधितिभिः क्षिणोषि &अम्प्; कच्चिन् मुकुन्दगदितानि यथा वयं त्वं विस्मृत्य भोः स्थगितगीर् उपलक्ष्यसे नः ॥ 18 ॥
श्लोक 10.90.19
किं न्व् आचरितम् अस्माभिर् मलयानिल ते ऽप्रियम् । गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ 19 ॥
श्लोक 10.90.20
मेघ श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनं श्रीवत्साङ्कं वयम् इव भवान् ध्यायति प्रेमबद्धः &अम्प्; अत्य्उत्कण्ठः शवलहृदयो ऽस्मद्विधो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसि मुहुर् दुःखदस् तत्प्रसङ्गः ॥ 20 ॥
श्लोक 10.90.21
प्रियरावपदानि भाषसे मृतसञ्जीविकयानया गिरा । करवाणि किम् अद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल ॥ 21 ॥
श्लोक 10.90.22
न चलसि न वदस्य् उदारबुद्धे क्षितिधर चिन्तयसे महान्तम् अर्थम् । अपि बत वसुदेवनन्दनाङ्घ्रिं वयम् इव कामयसे स्तनैर् विधर्तुम् ॥ 22 ॥
श्लोक 10.90.23
शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः सम्प्रत्य् अपास्तकमलश्रिय इष्टभर्तुः &अम्प्; यद्वद् वयं मधुपतेः प्रणयावलोकम् अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ 23 ॥
श्लोक 10.90.24
हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा । किं वा नश् चलसौहृदः स्मरति तं कस्माद् भजामो वयं क्षौद्रालापय कामदं श्रियम् ऋते सैवैकनिष्ठा स्त्रियाम् ॥ 24 ॥
श्लोक 10.90.25
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ 25 ॥
श्लोक 10.90.26
श्रुतमात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ 26 ॥
श्लोक 10.90.27
याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः । जगद्गुरुं भर्तृबुद्ध्या तासां किम् वर्ण्यते तपः ॥ 27 ॥
श्लोक 10.90.28
एवं वेदोदितं धर्मम् अनुतिष्ठन् सतां गतिः । गृहं धर्मार्थकामानां मुहुश् चादर्शयत् पदम् ॥ 28 ॥
श्लोक 10.90.29
आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् । आसन् षोडशसाहस्रं महिष्यश् च शताधिकम् ॥ 29 ॥
श्लोक 10.90.30
तासां स्त्रीरत्नभूतानाम् अष्टौ याः प्राग् उदाहृताः । रुक्मिणीप्रमुखा राजंस् तत्पुत्राश् चानुपूर्वशः ॥ 30 ॥
श्लोक 10.90.31
एकैकस्यां दश दश कृष्णो ऽजीजनद् आत्मजान् । यावत्य आत्मनो भार्या अमोघगतिर् ईश्वरः ॥ 31 ॥
श्लोक 10.90.32
तेषाम् उद्दामवीर्याणाम् अष्टादश महारथाः । आसन्न् उदारयशसस् तेषां नामानि मे शृणु ॥ 32 ॥
श्लोक 10.90.33
प्रद्युम्नश् चानिरुद्धश् च दीप्तिमान् भानुर् एव च । साम्बो मधुर् बृहद्भानुश् चित्रभानुर् वृको ऽरुणः ॥ 33 ॥
श्लोक 10.90.34
पुष्करो वेदबाहुश् च श्रुतदेवः सुनन्दनः । चित्रबाहुर् विरूपश् च कविर् न्यग्रोध एव च ॥ 34 ॥
श्लोक 10.90.35
एतेषाम् अपि राजेन्द्र तनुजानां मधुद्विषः । प्रद्युम्न आसीत् प्रथमः पितृवद् रुक्मिणीसुतः ॥ 35 ॥
श्लोक 10.90.36
स रुक्मिणो दुहितरम् उपयेमे महारथः । तस्यां ततो ऽनिरुद्धो ऽभूत् नागायतबलान्वितः ॥ 36 ॥
श्लोक 10.90.37
स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः । वज्रस् तस्याभवद् यस् तु मौषलाद् अवशेषितः ॥ 37 ॥
श्लोक 10.90.38
प्रतिबाहुर् अभूत् तस्मात् सुबाहुस् तस्य चात्मजः । सुबाहोः शान्तसेनो ऽभूच् छतसेनस् तु तत्सुतः ॥ 38 ॥
श्लोक 10.90.39
न ह्य् एतस्मिन् कुले जाता अधना अबहुप्रजाः । अल्पायुषो ऽल्पवीर्याश् च अब्रह्मण्याश् च जज्ञिरे ॥ 39 ॥
श्लोक 10.90.40
यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् । सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुतैर् नृप ॥ 40 ॥
श्लोक 10.90.41
तिस्रः कोट्यः सहस्राणाम् अष्टाशीतिशतानि च । आसन् यदुकुलाचार्याः कुमाराणाम् इति श्रुतम् ॥ 41 ॥
श्लोक 10.90.42
सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानाम् अयुतलक्षेणास्ते स आहुकः ॥ 42 ॥
श्लोक 10.90.43
देवासुराहवहता दैतेया ये सुदारुणाः । ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ 43 ॥
श्लोक 10.90.44
तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले । अवतीर्णाः कुलशतं तेषाम् एकाधिकं नृप ॥ 44 ॥
श्लोक 10.90.45
तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद् धरिः । ये चानुवर्तिनस् तस्य ववृधुः सर्वयादवाः ॥ 45 ॥
श्लोक 10.90.46
शय्यासनाटनालापक्रीडास्नानादिकर्मसु । न विदुः सन्तम् आत्मानं वृष्णयः कृष्णचेतसः ॥ 46 ॥
श्लोक 10.90.47
तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वःसरित् पादशौचं विद्विट्स्निग्धाः स्वरूपं ययुर् अजितपर श्रीर् यद्अर्थे ऽन्ययत्नः &अम्प्; यन्नामामङ्गलघ्नं श्रुतम् अथ गदितं यत्कृतो गोत्रधर्मः कृष्णस्यैतन् न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ 47 ॥
श्लोक 10.90.48
जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ 48 ॥
श्लोक 10.90.49
इत्थं परस्य निजवर्त्मरिरक्षयात्तलीलातनोस् तद्अनुरूपविडम्बनानि । कर्माणि कर्मकषणानि यदूत्तमस्य श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥ 49 ॥
श्लोक 10.90.50
मर्त्यस् तयानुसवम् एधितया मुकुन्द श्रीमत्कथाश्रवणकीर्तनचिन्तयैति । तद् धाम दुस्तरकृतान्तजवापवर्गं ग्रामाद् वनं क्षितिभुजो ऽपि ययुर् यद्अर्थाः ॥ 50 ॥