मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 89

श्रीमद्भागवत दशम स्कन्ध अध्याय 89 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.89.1

सरस्वत्यास् तटे राजन्न् ऋषयः सत्रम् आसत । वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् ॥ 1 ॥

श्लोक 10.89.2

तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप । तज्ज्ञप्त्यै प्रेषयाम् आसुः सो ऽभ्जगाद् ब्रह्मणः सभाम् ॥ 2 ॥

श्लोक 10.89.3

न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया । तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ 3 ॥

श्लोक 10.89.4

स आत्मन्य् उत्थितम् मन्युम् आत्मजायात्मना प्रभुः । अशीशमद् यथा वह्निं स्वयोन्या वारिणात्मभूः ॥ 4 ॥

श्लोक 10.89.5

ततः कैलासम् अगमत् स तं देवो महेश्वरः । परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥ 5 ॥

श्लोक 10.89.6

नैच्छत् त्वम् अस्य् उत्पथग इति देवश् चुकोप ह । शूलम् उद्यम्य तं हन्तुम् आरेभे तिग्मलोचनः ॥ 6 ॥

श्लोक 10.89.7

पतित्वा पादयोर् देवी सान्त्वयाम् आस तं गिरा । अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ॥ 7 ॥

श्लोक 10.89.8

शयानं श्रिय उत्सङ्गे पदा वक्षस्य् अताडयत् । तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः ॥ 8 ॥

श्लोक 10.89.9

स्वतल्पाद् अवरुह्याथ ननाम शिरसा मुनिम् । आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् । अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो ॥ 9 ॥

श्लोक 10.89.10

पुनीहि सहलोकं मां लोकपालांश् च मद्गतान् । पादोदकेन भवतस् तीर्थानां तीर्थकारिणा ॥ 10 ॥

श्लोक 10.89.11

अद्याहं भगवंल् लक्ष्म्या आसम् एकान्तभाजनम् । वत्स्यत्य् उरसि मे भूतिर् भवत्पादहतांहसः ॥ 11 ॥

श्लोक 10.89.12

एवं ब्रुवाणे वैकुण्ठे भृगुस् तन्मन्द्रया गिरा । निर्वृतस् तर्पितस् तूष्णीं भक्त्य्उत्कण्ठो ऽश्रुलोचनः ॥ 12 ॥

श्लोक 10.89.13

पुनश् च सत्रम् आव्रज्य मुनीनां ब्रह्मवादिनाम् । स्वानुभूतम् अशेषेण राजन् भृगुर् अवर्णयत् ॥ 13 ॥

श्लोक 10.89.14

तन् निशम्याथ मुनयो विस्मिता मुक्तसंशयाः । भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतो ऽभयम् ॥ 14 ॥

श्लोक 10.89.15

धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्अन्वितम् । ऐश्वर्यं चाष्टधा यस्माद् यशश् चात्ममलापहम् ॥ 15 ॥

श्लोक 10.89.16

मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् । अकिञ्चनानां साधूनां यम् आहुः परमां गतिम् ॥ 16 ॥

श्लोक 10.89.17

सत्त्वं यस्य प्रिया मूर्तिर् ब्राह्मणास् त्व् इष्टदेवताः । भजन्त्य् अनाशिषः शान्ता यं वा निपुणबुद्धयः ॥ 17 ॥

श्लोक 10.89.18

त्रिविधाकृतयस् तस्य राक्षसा असुराः सुराः । गुणिन्या मायया सृष्टाः सत्त्वं तत् तीर्थसाधनम् ॥ 18 ॥

श्लोक 10.89.19

इत्थं सारस्वता विप्रा नृणाम् संशयनुत्तये । पुरुषस्य पदाम्भोजसेवया तद्गतिं गताः ॥ 19 ॥

श्लोक 10.89.20

इत्य् एतन् मुनितनयास्यपद्मगन्ध पीयूषं भवभयभित् परस्य पुंसः । सुश्लोकं श्रवणपुटैः पिबत्य् अभीक्ष्णम् पान्थो ऽध्वभ्रमणपरिश्रमं जहाति ॥ 20 ॥

श्लोक 10.89.21

एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः । जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥ 21 ॥

श्लोक 10.89.22

विप्रो गृहीत्वा मृतकं राजद्वार्य् उपधाय सः । इदं प्रोवाच विलपन्न् आतुरो दीनमानसः ॥ 22 ॥

श्लोक 10.89.23

ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः । क्षत्रबन्धोः कर्मदोषात् पञ्चत्वं मे गतो ऽर्भकः ॥ 23 ॥

श्लोक 10.89.24

हिंसाविहारं नृपतिं दुःशीलम् अजितेन्द्रियम् । प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः ॥ 24 ॥

श्लोक 10.89.25

एवं द्वितीयं विप्रर्षिस् तृतीयं त्व् एवम् एव च । विसृज्य स नृपद्वारि तां गाथां समगायत ॥ 25 ॥

श्लोक 10.89.26

ताम् अर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके । परेते नवमे बाले ब्राह्मणं समभाषत ॥ 26 ॥

श्लोक 10.89.27

किं स्विद् ब्रह्मंस् त्वन्निवासे इह नास्ति धनुर्धरः । राजन्यबन्धुर् एते वै ब्राह्मणाः सत्रम् आसते ॥ 27 ॥

श्लोक 10.89.28

धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः । ते वै राजन्यवेषेण नटा जीवन्त्य् असुम्भराः ॥ 28 ॥

श्लोक 10.89.29

अहं प्रजाः वां भगवन् रक्षिष्ये दीनयोर् इह । अनिस्तीर्णप्रतिज्ञो ऽग्निं प्रवेक्ष्ये हतकल्मषः ॥ 29 ॥

श्लोक 10.89.30

सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः । अनिरुद्धो ऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ 30 ॥

श्लोक 10.89.31

तत् कथं नु भवान् कर्म दुष्करं जगद्ईश्वरैः । त्वं चिकीर्षसि बालिश्यात् तन् न श्रद्दध्महे वयम् ॥ 31 ॥

श्लोक 10.89.32

नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिर् एव च । अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ॥ 32 ॥

श्लोक 10.89.33

मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बकतोषणम् । मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो ॥ 33 ॥

श्लोक 10.89.34

एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप । जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन् ॥ 34 ॥

श्लोक 10.89.35

प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः । पाहि पाहि प्रजां मृत्योर् इत्य् आहार्जुनम् आतुरः ॥ 35 ॥

श्लोक 10.89.36

स उपस्पृश्य शुच्य् अम्भो नमस्कृत्य महेश्वरम् । दिव्यान्य् अस्त्राणि संस्मृत्य सज्यं गाण्डीवम् आददे ॥ 36 ॥

श्लोक 10.89.37

न्यरुणत् सूतिकागारं शरैर् नानास्त्रयोजितैः । तिर्यग् ऊर्ध्वम् अधः पार्थश् चकार शरपञ्जरम् ॥ 37 ॥

श्लोक 10.89.38

ततः कुमारः सञ्जातो विप्रपत्न्या रुदन् मुहुः । सद्यो ऽदर्शनम् आपेदे सशरीरो विहायसा ॥ 38 ॥

श्लोक 10.89.39

तदाह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ । मौढ्यं पश्यत मे यो ऽहं श्रद्दधे क्लीबकत्थनम् ॥ 39 ॥

श्लोक 10.89.40

न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः । यस्य शेकुः परित्रातुं को ऽन्यस् तद्अवितेश्वरः ॥ 40 ॥

श्लोक 10.89.41

धिग् अर्जुनं मृषावादं धिग् आत्मश्लाघिनो धनुः । दैवोपसृष्टं यो मौढ्याद् आनिनीषति दुर्मतिः ॥ 41 ॥

श्लोक 10.89.42

एवं शपति विप्रर्षौ विद्याम् आस्थाय फाल्गुनः । ययौ संयमनीम् आशु यत्रास्ते भगवान् यमः ॥ 42 ॥

श्लोक 10.89.43

विप्रापत्यम् अचक्षाणस् तत ऐन्द्रीम् अगात् पुरीम् । आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीम् अथ ॥ 43 ॥

श्लोक 10.89.44

रसातलं नाकपृष्ठं धिष्ण्यान्य् अन्यान्य् उदायुधः । ततो ऽलब्धद्विजसुतो ह्य् अनिस्तीर्णप्रतिश्रुतः । अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ॥ 44 ॥

श्लोक 10.89.45

दर्शये द्विजसूनूंस् ते मावज्ञात्मानम् आत्मना । ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति ॥ 45 ॥

श्लोक 10.89.46

इति सम्भाष्य भगवान् अर्जुनेन सहेश्वरः । दिव्यं स्वरथम् आस्थाय प्रतीचीं दिशम् आविशत् ॥ 46 ॥

श्लोक 10.89.47

सप्त द्वीपान् ससिन्धूंश् च सप्त सप्त गिरीन् अथ । लोकालोकं तथातीत्य विवेश सुमहत् तमः ॥ 47 ॥

श्लोक 10.89.48

तत्राश्वाः शैब्यसुग्रीवमेघपुष्पबलाहकाः । तमसि भ्रष्टगतयो बभूवुर् भरतर्षभ ॥ 48 ॥

श्लोक 10.89.49

तान् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वरः । सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत् पुरः ॥ 49 ॥

श्लोक 10.89.50

तमः सुघोरं गहनं कृतं महद् विदारयद् भूरितरेण रोचिषा &अम्प्; मनोजवं निर्विविशे सुदर्शनं गुणच्युतो रामशरो यथा चमूः ॥ 50 ॥

श्लोक 10.89.51

द्वारेण चक्रानुपथेन तत् तमः परं परं ज्योतिर् अनन्तपारम् । समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधे ऽक्षिणी उभे ॥ 51 ॥

श्लोक 10.89.52

ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्बृहद्ऊर्मिभूषणम् । तत्राद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितम् ॥ 52 ॥

श्लोक 10.89.53

तस्मिन् महाभोगम् अनन्तम् अद्भुतं सहस्रमूर्धन्यफणामणिद्युभिः &अम्प्; विभ्राजमानं द्विगुणेक्षणोल्बणं सिताचलाभं शितिकण्ठजिह्वम् ॥ 53 ॥

श्लोक 10.89.54

ददर्श तद्भोगसुखासनं विभुं महानुभावं पुरुषोत्तमोत्तमम् । सान्द्राम्बुदाभं सुपिशङ्गवाससं प्रसन्नवक्त्रं रुचिरायतेक्षणम् ॥ 54 ॥

श्लोक 10.89.55

महामणिव्रातकिरीटकुण्डल प्रभापरिक्षिप्तसहस्रकुन्तलम् । प्रलम्बचार्व्अष्टभुजं सकौस्तुभं श्रीवत्सलक्ष्मं वनमालयावृतम् ॥ 55 ॥

श्लोक 10.89.56

महामणिव्रातकिरीटकुण्डल प्रभापरिक्षिप्तसहस्रकुन्तलम् । प्रलम्बचार्व्अष्टभुजं सकौस्तुभं श्रीवत्सलक्ष्मं वनमालयावृतम् ॥ 56 ॥

श्लोक 10.89.57

ववन्द आत्मानम् अनन्तम् अच्युतो जिष्णुश् च तद्दर्शनजातसाध्वसः । ताव् आह भूमा परमेष्ठिनां प्रभुर् बेद्धाञ्जली सस्मितम् ऊर्जया गिरा ॥ 57 ॥

श्लोक 10.89.58

द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये । कलावतीर्णाव् अवनेर् भरासुरान् हत्वेह भूयस् त्वरयेतम् अन्ति मे ॥ 58 ॥

श्लोक 10.89.59

पूर्णकामाव् अपि युवां नरनारायणाव् ऋषी । धर्मम् आचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥ 59 ॥

श्लोक 10.89.60

इत्य् आदिष्टौ भगवता तौ कृष्णौ परमेष्ठिना । ॐ इत्य् आनम्य भूमानम् आदाय द्विजदारकान् ॥ 60 ॥

श्लोक 10.89.61

न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथागतम् । विप्राय ददतुः पुत्रान् यथारूपं यथावयः ॥ 61 ॥

श्लोक 10.89.62

निशाम्य वैष्णवं धाम पार्थः परमविस्मितः । यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ 62 ॥

श्लोक 10.89.63

इतीदृशान्य् अनेकानि वीर्याणीह प्रदर्शयन् । बुभुजे विषयान् ग्राम्यान् ईजे चात्य्उर्जितैर् मखैः ॥ 63 ॥

श्लोक 10.89.64

प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु । यथाकालं यथैवेन्द्रो भगवान् श्रैष्ठ्यम् आस्थितः ॥ 64 ॥

श्लोक 10.89.65

हत्वा नृपान् अधर्मिष्ठान् घाटयित्वार्जुनादिभिः । अञ्जसा वर्तयाम् आस धर्मं धर्मसुतादिभिः ॥ 65 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ