मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 1

श्रीमद्भागवत एकादश स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.1.1

कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर् वृतः । भुवो ऽवतारयद् भारं जविष्ठं जनयन् कलिम् ॥ 1 ॥

श्लोक 11.1.2

ये कोपिताः सुबहु पाण्डुसुताः सपत्नैर् दुर्द्यूतहेलनकचग्रहणादिभिस् तान् &अम्प्; कृत्वा निमित्तम् इतरेतरतः समेतान् हत्वा नृपान् निरहरत् क्षितिभारम् ईशः ॥ 2 ॥

श्लोक 11.1.3

भूभारराजपृतना यदुभिर् निरस्य गुप्तैः स्वबाहुभिर् अचिन्तयद् अप्रमेयः । मन्ये ऽवनेर् ननु गतो ऽप्य् अगतं हि भारं यद् यादवं कुलम् अहो अविषह्यम् आस्ते ॥ 3 ॥

श्लोक 11.1.4

नैवान्यतः परिभवो ऽस्य भवेत् कथञ्चिन् मत्संश्रयस्य विभवोन्नहनस्य नित्यम् । अन्तः कलिं यदुकुलस्य विधाय वेणुस्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ 4 ॥

श्लोक 11.1.5

एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वरः । शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥ 5 ॥

श्लोक 11.1.6

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् । गीर्भिस् ताः स्मरतां चित्तं पदैस् तान् ईक्षतां क्रियाः ॥ 6 ॥

श्लोक 11.1.7

आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्य् अञ्जसा नु कौ । तमो ऽनया तरिष्यन्तीत्य् अगात् स्वं पदम् ईश्वरः ॥ 7 ॥

श्लोक 11.1.8

ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्रशापः कथम् अभूद् वृष्णीनां कृष्णचेतसाम् ॥ 8 ॥

श्लोक 11.1.9

यन्निमित्तः स वै शापो यादृशो द्विजसत्तम । कथम् एकात्मनां भेद एतत् सर्वं वदस्व मे ॥ 9 ॥

श्लोक 11.1.10

बिभ्रद् वपुः सकलसुन्दरसन्निवेशं कर्माचरन् भुवि सुमङ्गलम् आप्तकामः । आस्थाय धाम रममाण उदारकीऋतिः संहर्तुम् ऐच्छत कुलं स्थितकृत्यशेषः ॥ 10 ॥

श्लोक 11.1.11

कर्मानि पुण्यनिवहानि सुमङ्गलानि गायज्जगत्कलिमलापहराणि कृत्वा । कालात्मना निवसता यदुदेवगेहे पिण्डारकं समगमन् मुनयो निसृष्टाः ॥ 11 ॥

श्लोक 11.1.12

विश्वामित्रो ऽसितः कण्वो दुर्वासा भृगुर् अङ्गिराः । कश्यपो वामदेवो ऽत्रिर् वसिष्ठो नारदादयः ॥ 12 ॥

श्लोक 11.1.13

क्रीडन्तस् तान् उपव्रज्य कुमारा यदुनन्दनाः । उपसङ्गृह्य पप्रच्छुर् अविनीता विनीतवत् ॥ 13 ॥

श्लोक 11.1.14

ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् । एषा पृच्छति वो विप्रा अन्तर्वत्न्य् असितेक्षणा ॥ 14 ॥

श्लोक 11.1.15

प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघदर्शनाः । प्रसोष्यन्ती पुत्रकामा किं स्वित् सञ्जनयिष्यति ॥ 15 ॥

श्लोक 11.1.16

एवं प्रलब्धा मुनयस् तान् ऊचुः कुपिता नृप । जनयिष्यति वो मन्दा मुषलं कुलनाशनम् ॥ 16 ॥

श्लोक 11.1.17

तच् छ्रुत्वा ते ऽतिसन्त्रस्ता विमुच्य सहसोदरम् । साम्बस्य ददृशुस् तस्मिन् मुषलं खल्व् अयस्मयम् ॥ 17 ॥

श्लोक 11.1.18

किं कृतं मन्दभाग्यैर् नः किं वदिष्यन्ति नो जनाः । इति विह्वलिता गेहान् आदाय मुषलं ययुः ॥ 18 ॥

श्लोक 11.1.19

तच् चोपनीय सदसि परिम्लानमुखश्रियः । राज्ञ आवेदयां चक्रुः सर्वयादवसन्निधौ ॥ 19 ॥

श्लोक 11.1.20

श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुषलं नृप । विस्मिता भयसन्त्रस्ता बभूवुर् द्वारकौकसः ॥ 20 ॥

श्लोक 11.1.21

तच् चूर्णयित्वा मुषलं यदुराजः स आहुकः । समुद्रसलिले प्रास्यल् लोहं चास्यावशेषितम् ॥ 21 ॥

श्लोक 11.1.22

कश्चिन् मत्स्यो ऽग्रसील् लोहं चूर्णानि तरलैस् ततः । उह्यमानानि वेलायां लग्नान्य् आसन् किलैरकाः ॥ 22 ॥

श्लोक 11.1.23

मत्स्यो गृहीतो मत्स्यघ्नैर् जालेनान्यैः सहार्णवे । तस्योदरगतं लोहं स शल्ये लुब्धको ऽकरोत् ॥ 23 ॥

श्लोक 11.1.24

भगवान् ज्ञातसर्वार्थ ईश्वरो ऽपि तद्अन्यथा । कर्तुं नैच्छद् विप्रशापं कालरूप्य् अन्वमोदत ॥ 24 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ