श्रीमद्भागवत एकादश स्कन्ध अध्याय 2
श्रीमद्भागवत एकादश स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.2.1
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन् नारदो ऽभीक्ष्णं कृष्णोपासनलालसः ॥ 1 ॥
श्लोक 11.2.2
को नु राजन्न् इन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजेत् सर्वतोमृत्युर् उपास्यम् अमरोत्तमैः ॥ 2 ॥
श्लोक 11.2.3
तम् एकदा तु देवर्षिं वसुदेवो गृहागतम् । अर्चितं सुखम् आसीनम् अभिवाद्येदम् अब्रवीत् ॥ 3 ॥
श्लोक 11.2.4
भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् । कृपणानां यथा पित्रोर् उत्तमश्लोकवर्त्मनाम् ॥ 4 ॥
श्लोक 11.2.5
भूतानां देवचरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम् ॥ 5 ॥
श्लोक 11.2.6
भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ 6 ॥
श्लोक 11.2.7
ब्रह्मंस् तथापि पृच्छामो धर्मान् भागवतांस् तव । यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ 7 ॥
श्लोक 11.2.8
अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितो देवमायया ॥ 8 ॥
श्लोक 11.2.9
यथा विचित्रव्यसनाद् भवद्भिर् विश्वतोभयात् । मुच्येम ह्य् अञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ 9 ॥
श्लोक 11.2.10
राजन्न् एवं कृतप्रश्नो वसुदेवेन धीमता । प्रीतस् तम् आह देवर्षिर् हरेः संस्मारितो गुणैः ॥ 10 ॥
श्लोक 11.2.11
सम्यग् एतद् व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मांस् त्वं विश्वभावनान् ॥ 11 ॥
श्लोक 11.2.12
श्रुतो ऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्धर्मो देवविश्वद्रुहो ऽपि हि ॥ 12 ॥
श्लोक 11.2.13
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः । स्मारितो भगवान् अद्य देवो नारायणो मम ॥ 13 ॥
श्लोक 11.2.14
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ 14 ॥
श्लोक 11.2.15
प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः । तस्याग्नीध्रस् ततो नाभिर् ऋषभस् तत्सुतः स्मृतः ॥ 15 ॥
श्लोक 11.2.16
तम् आहुर् वासुदेवांशं मोक्षधर्मविवक्षया । अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ 16 ॥
श्लोक 11.2.17
तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षम् एतद् यन्नाम्ना भारतम् अद्भुतम् ॥ 17 ॥
श्लोक 11.2.18
स भुक्तभोगां त्यक्त्वेमां निर्गतस् तपसा हरिम् । उपासीनस् तत्पदवीं लेभे वै जनृनभिस् त्रिभिः ॥ 18 ॥
श्लोक 11.2.19
तेषां नव नवद्वीपपतयो ऽस्य समन्ततः । कर्मतन्त्रप्रणेतार एकाशीतिर् द्विजातयः ॥ 19 ॥
श्लोक 11.2.20
नवाभवन् महाभागा मुनयो ह्य् अर्थशंसिनः । श्रमणा वातरसना आत्मविद्याविशारदाः ॥ 20 ॥
श्लोक 11.2.21
कविर् हविर् अन्तरीक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः ॥ 21 ॥
श्लोक 11.2.22
त एते भगवद्रूपं विश्वं सद्असद्आत्मकम् । आत्मनो ऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ 22 ॥
श्लोक 11.2.23
अव्याहतेष्टगतयः सुरसिद्धसाध्यगन्धर्वयक्षनरकिन्नरनागलोकान् &अम्प्; मुक्ताश् चरन्ति मुनिचारणभूतनाथविद्याधरद्विजगवां भुवनानि कामम् ॥ 23 ॥
श्लोक 11.2.24
त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया । वितायमानम् ऋषिभिर् अजनाभे महात्मनः ॥ 24 ॥
श्लोक 11.2.25
तान् दृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप । यजमानो ऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ 25 ॥
श्लोक 11.2.26
विदेहस् तान् अभिप्रेत्य नारायणपरायणान् । प्रीतः सम्पूजयां चक्रे आसनस्थान् यथार्हतः ॥ 26 ॥
श्लोक 11.2.27
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव । पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ 27 ॥
श्लोक 11.2.28
मन्ये भगवतः साक्षात् पार्षदान् वो मधुद्विसः । विष्णोर् भूतानि लोकानां पावनाय चरन्ति हि ॥ 28 ॥
श्लोक 11.2.29
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ 29 ॥
श्लोक 11.2.30
अत आत्यन्तिकं क्षेमं पृच्छामो भवतो ऽनघाः । संसारे ऽस्मिन् क्षणार्धो ऽपि सत्सङ्गः शेवधिर् नृणाम् ॥ 30 ॥
श्लोक 11.2.31
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय दास्यत्य् आत्मानम् अप्य् अजः ॥ 31 ॥
श्लोक 11.2.32
एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ 32 ॥
श्लोक 11.2.33
मन्ये ऽकुतश्चिद्भयम् अच्युतस्य पादाम्बुजोपासनम् अत्र नित्यम् । उद्विग्नबुद्धेर् असद्आत्मभावाद् विश्वात्मना यत्र निवर्तते भीः ॥ 33 ॥
श्लोक 11.2.34
ये वै भगवता प्रोक्ता उपाया ह्य् आत्मलब्धये । अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ 34 ॥
श्लोक 11.2.35
यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ 35 ॥
श्लोक 11.2.36
कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ 36 ॥
श्लोक 11.2.37
भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य विपर्ययो ऽस्मृतिः । तन्माययातो बुध आभजेत् तं भक्त्यैकयेशं गुरुदेवतात्मा ॥ 37 ॥
श्लोक 11.2.38
अविद्यमानो ऽप्य् अवभाति हि द्वयो ध्यातुर् धिया स्वप्नमनोरथौ यथा । तत् कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्याद् अभयं ततः स्यात् ॥ 38 ॥
श्लोक 11.2.39
शृण्वन् सुभद्राणि रथाङ्गपाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्अर्थकानि गायन् विलज्जो विचरेद् असङ्गः ॥ 39 ॥
श्लोक 11.2.40
एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्य् अथो रोदिति रौति गायत्य् उन्मादवन् नृत्यति लोकबाह्यः ॥ 40 ॥
श्लोक 11.2.41
खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्समुद्रांश् च हरेः शरीरं यत् किं च भूतं प्रणमेद् अनन्यः ॥ 41 ॥
श्लोक 11.2.42
भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्अपायो ऽनुघासम् ॥ 42 ॥
श्लोक 11.2.43
इत्य् अच्युताङ्घ्रिं भजतो ऽनुवृत्त्या भक्तिर् विरक्तिर् भगवत्प्रबोधः । भवन्ति वै भागवतस्य राजंस् ततः परां शान्तिम् उपैति साक्षात् ॥ 43 ॥
श्लोक 11.2.44
अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् । यथाचरति यद् ब्रूते यैर् लिङ्गैर् भगवत्प्रियः ॥ 44 ॥
श्लोक 11.2.45
सर्वभूतेषु यः पश्येद् भगवद्भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ 45 ॥
श्लोक 11.2.46
ईस्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ 46 ॥
श्लोक 11.2.47
अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ 47 ॥
श्लोक 11.2.48
गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥ 48 ॥
श्लोक 11.2.49
देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्मैर् अविमुह्यमानः स्मृत्या हरेर् भागवतप्रधानः ॥ 49 ॥
श्लोक 11.2.50
न कामकर्मबीजानां यस्य चेतसि सम्भवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ 50 ॥
श्लोक 11.2.51
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जते ऽस्मिन्न् अहंभावो देहे वै स हरेः प्रियः ॥ 51 ॥
श्लोक 11.2.52
न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा । सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ 52 ॥
श्लोक 11.2.53
त्रिभुवनविभवहेतवे ऽप्य् अकुण्ठस्मृतिर् अजितात्मसुरादिभिर् विमृग्यात् &अम्प्; न चलति भगवत्पदारविन्दाल् लवनिमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ 53 ॥
श्लोक 11.2.54
भगवत उरुविक्रमाङ्घ्रिशाखानखमणिचन्द्रिकया निरस्ततापे । हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्कतापः ॥ 54 ॥
श्लोक 11.2.55
विसृजति हृदयं न यस्य साक्षाद् धरिर् अवशाभिहितो ऽप्य् अघौघनाशः । प्रणयरसनया धृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥ 55 ॥