मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 31

श्रीमद्भागवत एकादश स्कन्ध अध्याय 31 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.31.1

अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः । महेन्द्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥ 1 ॥

श्लोक 11.31.2

पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः । चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ॥ 2 ॥

श्लोक 11.31.3

द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः । गायन्तश् च गृणन्तश् च शौरेः कर्माणि जन्म च ॥ 3 ॥

श्लोक 11.31.4

ववृषुः पुष्पवर्षाणि विमानावलिभिर् नभः । कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ 4 ॥

श्लोक 11.31.5

भगवान् पितामहं वीक्ष्य विभूतीर् आत्मनो विभुः । संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥ 5 ॥

श्लोक 11.31.6

लोकाभिरामां स्वतनुं धारणाध्यानमङ्गलम् । योगधारणयाग्नेय्यादग्ध्वा धामाविशत् स्वकम् ॥ 6 ॥

श्लोक 11.31.7

दिवि दुन्दुभयो नेदुः पेतुः सुमनसश् च खात् । सत्यं धर्मो धृतिर् भूमेः कीर्तिः श्रीश् चानु तं ययुः ॥ 7 ॥

श्लोक 11.31.8

देवादयो ब्रह्ममुख्या न विशन्तं स्वधामनि । अविज्ञातगतिं कृष्णं ददृशुश् चातिविस्मिताः ॥ 8 ॥

श्लोक 11.31.9

सौदामन्या यथाक्लाशे यान्त्या हित्वाभ्रमण्डलम् । गतिर् न लक्ष्यते मर्त्यैस् तथा कृष्णस्य दैवतैः ॥ 9 ॥

श्लोक 11.31.10

ब्रह्मरुद्रादयस् ते तु दृष्ट्वा योगगतिं हरेः । विस्मितास् तां प्रशंसन्तः स्वं स्वं लोकं ययुस् तदा ॥ 10 ॥

श्लोक 11.31.11

राजन् परस्य तनुभृज्जननाप्ययेहा मायाविडम्बनम् अवेहि यथा नटस्य &अम्प्; सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते संहृत्य चात्ममहिनोपरतः स आस्ते ॥ 11 ॥

श्लोक 11.31.12

मर्त्येन यो गुरुसुतं यमलोकनीतं त्वां चानयच् छरणदः परमास्त्रदग्धम् । जिग्ये ऽन्तकान्तकम् अपीशम् असाव् अनीशः किं स्वावने स्वर् अनयन् मृगयुं सदेहम् ॥ 12 ॥

श्लोक 11.31.13

तथाप्य् अशेषस्थितिसम्भवाप्ययेष्व् अनन्यहेतुर् यद् अशेषशक्तिधृक् । नैच्छत् प्रणेतुं वपुर् अत्र शेषितं मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ 13 ॥

श्लोक 11.31.14

य एतां प्रातर् उत्थाय कृष्णस्य पदवीं पराम् । प्रयतः कीर्तयेद् भक्त्या ताम् एवाप्नोत्य् अनुत्तमाम् ॥ 14 ॥

श्लोक 11.31.15

दारुको द्वारकाम् एत्य वसुदेवोग्रसेनयोः । पतित्वा चरणाव् अस्रैर् न्यषिञ्चत् कृष्णविच्युतः ॥ 15 ॥

श्लोक 11.31.16

कथयाम् आस निधनं वृष्णीनां कृत्स्नशो नृप । तच् छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः ॥ 16 ॥

श्लोक 11.31.17

तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः । व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् ॥ 17 ॥

श्लोक 11.31.18

देवकी रोहिणी चैव वसुदेवस् तथा सुतौ । कृष्णरामाव् अपश्यन्तः शोकार्ता विजहुः स्मृतिम् ॥ 18 ॥

श्लोक 11.31.19

प्राणांश् च विजहुस् तत्र भगवद्विरहातुराः । उपगुह्य पतींस् तात चिताम् आरुरुहुः स्त्रियः ॥ 19 ॥

श्लोक 11.31.20

रामपत्न्यश् च तद्देहम् उपगुह्याग्निम् आविशन् । वसुदेवपत्न्यस् तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्णपत्न्यो ऽविशन्न् अग्निं रुक्मिण्य्आद्यास् तद्आत्मिकाः ॥ 20 ॥

श्लोक 11.31.21

अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः । आत्मानं सान्त्वयाम् आस कृष्णगीतैः सद्उक्तिभिः ॥ 21 ॥

श्लोक 11.31.22

बन्धूनां नष्टगोत्राणाम् अर्जुनः साम्परायिकम् । हतानां कारयाम् आस यथावद् अनुपूर्वशः ॥ 22 ॥

श्लोक 11.31.23

द्वारकां हरिणा त्यक्तां समुद्रो ऽप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमद्भगवद्आलयम् ॥ 23 ॥

श्लोक 11.31.24

नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः । स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ 24 ॥

श्लोक 11.31.25

स्त्रीबालवृद्धान् आदाय हतशेषान् धनञ्जयः । इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ 25 ॥

श्लोक 11.31.26

श्रुत्वा सुहृद्वधं राजन्न् अर्जुनात् ते पितामहाः । त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ 26 ॥

श्लोक 11.31.27

य एतद् देवदेवस्य विष्णोः कर्माणि जन्म च । कीर्तयेच् छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ 27 ॥

श्लोक 11.31.28

इत्थं हरेर् भगवतो रुचिरावतारवीर्याणि बालचरितानि च शन्तमानि &अम्प्; अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंसगतौ लभेत ॥ 28 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ