श्रीमद्भागवत एकादश स्कन्ध अध्याय 30
श्रीमद्भागवत एकादश स्कन्ध अध्याय 30 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.30.1
ततो महाभागवत उद्धवे निर्गते वनम् । द्वारवत्यां किम् अकरोद् भगवान् भूतभावनः ॥ 1 ॥
श्लोक 11.30.2
ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं स कथम् अत्यजत् ॥ 2 ॥
श्लोक 11.30.3
प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः कर्णाविष्टं न सरति ततो यत् सताम् आत्मलग्नम् &अम्प्; यच्छ्रीर् वाचां जनयति रतिं किं नु मानं कवीनां दृष्ट्वा जिष्णोर् युधि रथगतं यच् च तत्साम्यम् ईयुः ॥ 3 ॥
श्लोक 11.30.4
दिवि भुव्य् अन्तरिक्षे च महोत्पातान् समुत्थितान् । दृष्ट्वासीनान् सुधर्मायां कृष्णः प्राह यदून् इदम् ॥ 4 ॥
श्लोक 11.30.5
एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः । मुहूर्तम् अपि न स्थेयम् अत्र नो यदुपुङ्गवाः ॥ 5 ॥
श्लोक 11.30.6
स्त्रियो बालाश् च वृद्धाश् च शङ्खोद्धारं व्रजन्त्व् इतः । वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥ 6 ॥
श्लोक 11.30.7
तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः । देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ॥ 7 ॥
श्लोक 11.30.8
ब्राह्मणांस् तु महाभागान् कृतस्वस्त्ययना वयम् । गोभूहिरण्यवासोभिर् गजाश्वरथवेश्मभिः ॥ 8 ॥
श्लोक 11.30.9
विधिर् एष ह्य् अरिष्टघ्नो मङ्गलायनम् उत्तमम् । देवद्विजगवां पूजा भूतेषु परमो भवः ॥ 9 ॥
श्लोक 11.30.10
इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः । तथेति नौभिर् उत्तीर्य प्रभासं प्रययू रथैः ॥ 10 ॥
श्लोक 11.30.11
तस्मिन् भगवतादिष्टं यदुदेवेन यादवाः । चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम् ॥ 11 ॥
श्लोक 11.30.12
ततस् तस्मिन् महापानं पपुर् मैरेयकं मधु । दिष्टविभ्रंशितधियो यद्द्रवैर् भ्रश्यते मतिः ॥ 12 ॥
श्लोक 11.30.13
महापानाभिमत्तानां वीराणां दृप्तचेतसाम् । कृष्णमायाविमूढानां सङ्घर्षः सुमहान् अभूत् ॥ 13 ॥
श्लोक 11.30.14
युयुधुः क्रोधसंरब्धा वेलायाम् आततायिनः । धनुर्भिर् असिभिर् भल्लैर् गदाभिस् तोमरर्ष्टिभिः ॥ 14 ॥
श्लोक 11.30.15
पतत्पताकै रथकुञ्जरादिभिः खरोष्ट्रगोभिर् महिषैर् नरैर् अपि । मिथः समेत्याश्वतरैः सुदुर्मदा न्यहन् शरैर् दद्भिर् इव द्विपा वने ॥ 15 ॥
श्लोक 11.30.16
प्रद्युम्नसाम्बौ युधि रूढमत्सराव् अक्रूरभोजाव् अनिरुद्धसात्यकी &अम्प्; सुभद्रसङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रासुरथौ समीयतुः ॥ 16 ॥
श्लोक 11.30.17
अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्छतजिद्भानुमुख्याः । अन्योन्यम् आसाद्य मदान्धकारिता जघ्नुर् मुकुन्देन विमोहिता भृशम् ॥ 17 ॥
श्लोक 11.30.18
दाशार्हवृष्ण्य्अन्धकभोजसात्वता मध्व्अर्बुदा माथुरशूरसेनाः &अम्प्; विसर्जनाः कुकुराः कुन्तयश् च मिथस् तु जघ्नुः सुविसृज्य सौहृदम् ॥ 18 ॥
श्लोक 11.30.19
पुत्रा अयुध्यन् पितृभिर् भ्रातृभिश् च स्वस्रीयदौहित्रपितृव्यमातुलैः । मित्राणि मित्रैः सुहृदः सुहृद्भिर् ज्ञातींस् त्व् अहन् ज्ञातय एव मूढाः ॥ 19 ॥
श्लोक 11.30.20
शरेषु हीयमाएषु भज्यमानेसु धन्वसु । शस्त्रेषु क्षीयमानेषु मुष्टिभिर् जह्रुर् एरकाः ॥ 20 ॥
श्लोक 11.30.21
ता वज्रकल्पा ह्य् अभवन् परिघा मुष्टिना भृताः । जघ्नुर् द्विषस् तैः कृष्णेन वार्यमाणास् तु तं च ते ॥ 21 ॥
श्लोक 11.30.22
प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः । हन्तुं कृतधियो राजन्न् आपन्ना आततायिनः ॥ 22 ॥
श्लोक 11.30.23
अथ ताव् अपि सङ्क्रुद्धाव् उद्यम्य कुरुनन्दन । एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर् युधि ॥ 23 ॥
श्लोक 11.30.24
ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् । स्पर्धाक्रोधः क्षयं निन्ये वैणवो ऽग्निर् यथा वनम् ॥ 24 ॥
श्लोक 11.30.25
एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितो भुवो भार इति मेने ऽवशेषितः ॥ 25 ॥
श्लोक 11.30.26
रामः समुद्रवेलायां योगम् आस्थाय पौरुषम् । तत्याज लोकं मानुष्यं संयोज्यात्मानम् आत्मनि ॥ 26 ॥
श्लोक 11.30.27
रामनिर्याणम् आलोक्य भगवान् देवकीसुतः । निषसाद धरोपस्थे तुष्णीम् आसाद्य पिप्पलम् ॥ 27 ॥
श्लोक 11.30.28
बिभ्रच् चतुर्भुजं रूपं भ्रायिष्णु प्रभया स्वया । दिशो वितिमिराः कुर्वन् विधूम इव पावकः ॥ 28 ॥
श्लोक 11.30.29
श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् । कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् ॥ 29 ॥
श्लोक 11.30.30
सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् । पुण्डरीकाभिरामाक्षं स्फुरन् मकरकुण्डलम् ॥ 30 ॥
श्लोक 11.30.31
कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदैः । हारनूपुरमुद्राभिः कौस्तुभेन विराजितम् ॥ 31 ॥
श्लोक 11.30.32
वनमालापरीताङ्गं मूर्तिमद्भिर् निजायुधैः । कृत्वोरौ दक्षिणे पादम् आसीनं पङ्कजारुणम् ॥ 32 ॥
श्लोक 11.30.33
मुषलावशेषायःखण्डकृतेषुर् लुब्धको जरा । मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया ॥ 33 ॥
श्लोक 11.30.34
चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिषः । भीतः पपात शिरसा पादयोर् असुरद्विषः ॥ 34 ॥
श्लोक 11.30.35
अजानता कृतम् इदं पापेन मधुसूदन । क्षन्तुम् अर्हसि पापस्य उत्तमःश्लोक मे ऽनघ ॥ 35 ॥
श्लोक 11.30.36
यस्यानुस्मरणं नृणाम् अज्ञानध्वान्तनाशनम् । वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥ 36 ॥
श्लोक 11.30.37
तन् माशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् । यथा पुनर् अहं त्व् एवं न कुर्यां सद्अतिक्रमम् ॥ 37 ॥
श्लोक 11.30.38
यस्यात्मयोगरचितं न विदुर् विरिञ्चो रुद्रादयो ऽस्य तनयाः पतयो गिरां ये &अम्प्; त्वन्मायया पिहितदृष्टय एतद् अञ्जः किं तस्य ते वयम् असद्गतयो गृणीमः ॥ 38 ॥
श्लोक 11.30.39
मा भैर् जरे त्वम् उत्तिष्ठ काम एष कृतो हि मे । याहि त्वं मद्अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ 39 ॥
श्लोक 11.30.40
इत्य् आदिष्टो भगवता कृष्णेनेच्छाशरीरिणा । त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ 40 ॥
श्लोक 11.30.41
दारुकः कृष्णपदवीम् अन्विच्छन्न् अधिगम्य ताम् । वायुं तुलसिकामोदम् आघ्रायाभिमुखं ययौ ॥ 41 ॥
श्लोक 11.30.42
तं तत्र तिग्मद्युभिर् आयुधैर् वृतं ह्य् अश्वत्थमूले कृतकेतनं पतिम् &अम्प्; स्नेहप्लुतात्मा निपपात पादयो रथाद् अवप्लुत्य सबाष्पलोचनः ॥ 42 ॥
श्लोक 11.30.43
अपश्यतस् त्वच्चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशो न जाने न लभे च शान्तिं यथा निशायाम् उडुपे प्रणष्टे ॥ 43 ॥
श्लोक 11.30.44
इति ब्रुवति सूते वै रथो गरुडलाञ्छनः । खम् उत्पपात राजेन्द्र साश्वध्वज उदीक्षतः ॥ 44 ॥
श्लोक 11.30.45
तम् अन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च । तेनातिविस्मितात्मानं सूतम् आह जनार्दनः ॥ 45 ॥
श्लोक 11.30.46
गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः । सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ॥ 46 ॥
श्लोक 11.30.47
द्वारकायां च न स्थेयं भवद्भिश् च स्वबन्धुभिः । मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ 47 ॥
श्लोक 11.30.48
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ 48 ॥
श्लोक 11.30.49
त्वं तु मद्धर्मम् आस्थाय ज्ञाननिष्ठ उपेक्षकः । मन्मायारचिताम् एतां विज्ञयोपशमं व्रज ॥ 49 ॥
श्लोक 11.30.50
इत्य् उक्तस् तं परिक्रम्य नमस्कृत्य पुनः पुनः । तत्पादौ शीर्ष्ण्य् उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ 50 ॥