श्रीमद्भागवत द्वादश स्कन्ध अध्याय 1
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.1.1
यो ऽन्त्यः पुरञ्जयो नाम भविष्यो बारहद्रथः । तस्यामात्यस् तु शुनको हत्वा स्वामिनम् आत्मजम् ॥ 1 ॥
श्लोक 12.1.2
प्रद्योतसंज्ञं राजानं कर्ता यत्पालकः सुतः । विशाखयूपस् तत्पुत्रो भविता राजकस् ततः ॥ 2 ॥
श्लोक 12.1.3
नन्दिवर्धनस् तत्पुत्रः पञ्च प्रद्योतना इमे । अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः ॥ 3 ॥
श्लोक 12.1.4
शिशुनागस् ततो भाव्यः काकवर्णस् तु तत्सुतः । क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः ॥ 4 ॥
श्लोक 12.1.5
विधिसारः सुतस् तस्याजातशत्रुर् भविष्यति । दर्भकस् तत्सुतो भावी दर्भकस्याजयः स्मृतः ॥ 5 ॥
श्लोक 12.1.6
नन्दिवर्धन आजेयो महानन्दिः सुतस् ततः । शिशुनागा दशैवैते सष्ट्य्उत्तरशतत्रयम् ॥ 6 ॥
श्लोक 12.1.7
समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः । महानन्दिसुतो राजन् शूद्रागर्भोद्भवो बली ॥ 7 ॥
श्लोक 12.1.8
महापद्मपतिः कश्चिन् नन्दः क्षत्रविनाशकृत् । ततो नृपा भविष्यन्ति शूद्रप्रायास् त्व् अधार्मिकाः ॥ 8 ॥
श्लोक 12.1.9
स एकच्छत्रां पृथिवीम् अनुल्लङ्घितशासनः । शासिष्यति महापद्मो द्वितीय इव भार्गवः ॥ 9 ॥
श्लोक 12.1.10
तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः । य इमां भोक्ष्यन्ति महीं राजानश् च शतं समाः ॥ 10 ॥
श्लोक 12.1.11
नव नन्दान् द्विजः कश्चित् प्रपन्नान् उद्धरिष्यति । तेषां अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥ 11 ॥
श्लोक 12.1.12
स एव चन्द्रगुप्तं वै द्विजो राज्ये ऽभिषेक्ष्यति । तत्सुतो वारिसारस् तु ततश् चाशोकवर्धनः ॥ 12 ॥
श्लोक 12.1.13
सुयशा भविता तस्य सङ्गतः सुयशःसुतः । शालिशूकस् ततस् तस्य सोमशर्मा भविष्यति । शतधन्वा ततस् तस्य भविता तद्बृहद्रथः ॥ 13 ॥
श्लोक 12.1.14
मौर्या ह्य् एते दश नृपाः सप्तत्रिंशच्छतोत्तरम् । समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह ॥ 14 ॥
श्लोक 12.1.15
अग्निमित्रस् ततस् तस्मात् सुज्येष्ठो भविता ततः । वसुमित्रो भद्रकश् च पुलिन्दो भविता सुतः ॥ 15 ॥
श्लोक 12.1.16
ततो घोषः सुतस् तस्माद् वज्रमित्रो भविष्यति । ततो भागवतस् तस्माद् देवभूतिः कुरूद्वह ॥ 16 ॥
श्लोक 12.1.17
शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् । ततः काण्वान् इयं भूमिर् यास्यत्य् अल्पगुणान् नृप ॥ 17 ॥
श्लोक 12.1.18
शुङ्गं हत्वा देवभूतिं काण्वो ऽमात्यस् तु कामिनम् । स्वयं करिष्यते राज्यं वसुदेवो महामतिः ॥ 18 ॥
श्लोक 12.1.19
तस्य पुत्रस् तु भूमित्रस् तस्य नारायणः सुतः । काण्वायना इमे भूमिं चत्वारिंशच् च पञ्च च । शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ 19 ॥
श्लोक 12.1.20
हत्वा काण्वं सुशर्माणं तद्भृत्यो वृषलो बली । गां भोक्ष्यत्य् अन्ध्रजातीयः कञ्चित् कालम् असत्तमः ॥ 20 ॥
श्लोक 12.1.21
कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः । श्रीशान्तकर्णस् तत्पुत्रः पौर्णमासस् तु तत्सुतः ॥ 21 ॥
श्लोक 12.1.22
लम्बोदरस् तु तत्पुत्रस् तस्माच् चिबिलको नृपः । मेघस्वातिश् चिबिलकाद् अटमानस् तु तस्य च ॥ 22 ॥
श्लोक 12.1.23
अनिष्टकर्मा हालेयस् तलकस् तस्य चात्मजः । पुरीषभीरुस् तत्पुत्रस् ततो राजा सुनन्दनः ॥ 23 ॥
श्लोक 12.1.24
चकोरो बहवो यत्र शिवस्वातिर् अरिन्दमः । तस्यापि गोमती पुत्रः पुरीमान् भविता ततः ॥ 24 ॥
श्लोक 12.1.25
मेदशिराः शिवस्कन्दो यज्ञश्रीस् तत्सुतस् ततः । विजयस् तत्सुतो भाव्यश् चन्द्रविज्ञः सलोमधिः ॥ 25 ॥
श्लोक 12.1.26
एते त्रिंशन् नृपतयश् चत्वार्य् अब्दशतानि च । षट्पञ्चाशच् च पृथिवीं भोक्ष्यन्ति कुरुनन्दन ॥ 26 ॥
श्लोक 12.1.27
सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः । कङ्काः षोडश भूपाला भविष्यन्त्य् अतिलोलुपाः ॥ 27 ॥
श्लोक 12.1.28
ततो ऽष्टौ यवना भाव्याश् चतुर्दश तुरुष्ककाः । भूयो दश गुरुण्डाश् च मौला एकादशैव तु ॥ 28 ॥
श्लोक 12.1.29
एते भोक्ष्यन्ति पृथिवीं दश वर्षशतानि च । नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ 29 ॥
श्लोक 12.1.30
भोक्ष्यन्त्य् अब्दशतान्य् अङ्ग त्रीणि तैः संस्थिते ततः । किलकिलायां नृपतयो भूतनन्दो ऽथ वङ्गिरिः ॥ 30 ॥
श्लोक 12.1.31
शिशुनन्दिश् च तद्भ्राता यशोनन्दिः प्रवीरकः । इत्य् एते वै वर्षशतं भविष्यन्त्य् अधिकानि षट् ॥ 31 ॥
श्लोक 12.1.32
तेषां त्रयोदश सुता भवितारश् च बाह्लिकाः । पुष्पमित्रो ऽथ राजन्यो दुर्मित्रो ऽस्य तथैव च ॥ 32 ॥
श्लोक 12.1.33
एककाला इमे भूपाः सप्तान्ध्राः सप्त कौशलाः । विदूरपतयो भाव्या निषधास् तत एव हि ॥ 33 ॥
श्लोक 12.1.34
मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः । करिष्यत्य् अपरो वर्णान् पुलिन्दयदुमद्रकान् ॥ 34 ॥
श्लोक 12.1.35
प्रजाश् चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान् क्षत्रम् उत्साद्य पद्मवत्यां स वै पुरि । अनुगङ्गम् आप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥ 35 ॥
श्लोक 12.1.36
सौराष्ट्रावन्त्य्आभीराश् च शूरा अर्बुदमालवाः । व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः ॥ 36 ॥
श्लोक 12.1.37
सिन्धोस् तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम् । भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश् चाब्रह्मवर्चसः ॥ 37 ॥
श्लोक 12.1.38
तुल्यकाला इमे राजन् म्लेच्छप्रायाश् च भूभृतः । एते ऽधर्मानृतपराः फल्गुदास् तीव्रमन्यवः ॥ 38 ॥
श्लोक 12.1.39
स्त्रीबालगोद्विजघ्नाश् च परदारधनादृताः । उदितास्तमितप्राया अल्पसत्त्वाल्पकायुषः ॥ 39 ॥
श्लोक 12.1.40
असंस्कृताः क्रियाहीना रजसा तमसावृताः । प्रजास् ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ॥ 40 ॥
श्लोक 12.1.41
तन्नाथास् ते जनपदास् तच्छीलाचारवादिनः । अन्योन्यतो राजभिश् च क्षयं यास्यन्ति पीडिताः ॥ 41 ॥