श्रीमद्भागवत द्वादश स्कन्ध अध्याय 2
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.2.1
ततश् चानुदिनं धर्मः सत्यं शौचं क्षमा दया । कालेन बलिना राजन् नङ्क्ष्यत्य् आयुर् बलं स्मृतिः ॥ 1 ॥
श्लोक 12.2.2
वित्तम् एव कलौ नॄणां जन्माचारगुणोदयः । धर्मन्यायव्यवस्थायां कारणं बलम् एव हि ॥ 2 ॥
श्लोक 12.2.3
दाम्पत्ये ऽभिरुचिर् हेतुर् मायैव व्यावहारिके । स्त्रीत्वे पुंस्त्वे च हि रतिर् विप्रत्वे सूत्रम् एव हि ॥ 3 ॥
श्लोक 12.2.4
लिङ्गं एवाश्रमख्याताव् अन्योन्यापत्तिकारणम् । अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥ 4 ॥
श्लोक 12.2.5
अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु । स्वीकार एव चोद्वाहे स्नानम् एव प्रसाधनम् ॥ 5 ॥
श्लोक 12.2.6
दूरे वार्य्अयनं तीर्थं लावण्यं केशधारणम् । उदरंभरता स्वार्थः सत्यत्वे धार्ष्ट्यम् एव हि ॥ 6 ॥
श्लोक 12.2.7
दाक्ष्यं कुटुम्बभरणं यशो ऽर्थे धर्मसेवनम् । एवं प्रजाभिर् दुष्टाभिर् आकीर्णे क्षितिमण्डले ॥ 7 ॥
श्लोक 12.2.8
ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः । प्रजा हि लुब्धै राजन्यैर् निर्घृणैर् दस्युधर्मभिः ॥ 8 ॥
श्लोक 12.2.9
आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् । शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजनाः ॥ 9 ॥
श्लोक 12.2.10
अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः । शीतवातातपप्रावृड्हिमैर् अन्योन्यतः प्रजाः ॥ 10 ॥
श्लोक 12.2.11
क्षुत्तृड्भ्यां व्याधिभिश् चैव सन्तप्स्यन्ते च चिन्तया । त्रिंशद् विंशति वर्षाणि परमायुः कलौ नृणाम् ॥ 11 ॥
श्लोक 12.2.12
क्षीयमाणेषु देहेषु देहिनां कलिदोषतः । वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ 12 ॥
श्लोक 12.2.13
पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु । चौर्यानृतवृथाहिंसानानावृत्तिषु वै नृषु ॥ 13 ॥
श्लोक 12.2.14
शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु । गृहप्रायेष्व् आश्रमेषु यौनप्रायेषु बन्धुषु ॥ 14 ॥
श्लोक 12.2.15
अणुप्रायास्व् ओषधीषु शमीप्रायेषु स्थास्नुषु । विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ 15 ॥
श्लोक 12.2.16
इत्थं कलौ गतप्राये जनेषु खरधर्मिषु । धर्मत्राणाय सत्त्वेन भगवान् अवतरिष्यति ॥ 16 ॥
श्लोक 12.2.17
चराचरगुरोर् विष्णोर् ईश्वरस्याखिलात्मनः । धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये ॥ 17 ॥
श्लोक 12.2.18
शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः । भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ 18 ॥
श्लोक 12.2.19
अश्वम् आशुगम् आरुह्य देवदत्तं जगत्पतिः । असिनासाधुदमनम् अष्टैश्वर्यगुणान्वितः ॥ 19 ॥
श्लोक 12.2.20
विचरन्न् आशुना क्षौण्यां हयेनाप्रतिमद्युतिः । नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति ॥ 20 ॥
श्लोक 12.2.21
अथ तेषां भविष्यन्ति मनांसि विशदानि वै । वासुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशाम् । पौरजानपदानां वै हतेष्व् अखिलदस्युषु ॥ 21 ॥
श्लोक 12.2.22
तेषां प्रजाविसर्गश् च स्थविष्ठः सम्भविष्यति । वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥ 22 ॥
श्लोक 12.2.23
यदावतीर्णो भगवान् कल्किर् धर्मपतिर् हरिः । कृतं भविष्यति तदा प्रजासूतिश् च सात्त्विकी ॥ 23 ॥
श्लोक 12.2.24
यदा चन्द्रश् च सूर्यश् च तथा तिष्यबृहस्पती । एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ 24 ॥
श्लोक 12.2.25
ये ऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः । ते त उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः ॥ 25 ॥
श्लोक 12.2.26
आरभ्य भवतो जन्म यावन् नन्दाभिषेचनम् । एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ 26 ॥
श्लोक 12.2.27
सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि । तयोस् तु मध्ये नक्षत्रं दृश्यते यत् समं निशि ॥ 27 ॥
श्लोक 12.2.28
तेनैव ऋषयो युक्तास् तिष्ठन्त्य् अब्दशतं नृणाम् । ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः ॥ 28 ॥
श्लोक 12.2.29
विष्णोर् भगवतो भानुः कृष्णाख्यो ऽसौ दिवं गतः । तदाविशत् कलिर् लोकं पापे यद् रमते जनः ॥ 29 ॥
श्लोक 12.2.30
यावत् स पादपद्माभ्यां स्पृशन् आस्ते रमापतिः । तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ 30 ॥
श्लोक 12.2.31
यदा देवर्षयः सप्त मघासु विचरन्ति हि । तदा प्रवृत्तस् तु कलिर् द्वादशाब्दशतात्मकः ॥ 31 ॥
श्लोक 12.2.32
यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः । तदा नन्दात् प्रभृत्य् एष कलिर् वृद्धिं गमिष्यति ॥ 32 ॥
श्लोक 12.2.33
यस्मिन् कृष्णो दिवं यातस् तस्मिन्न् एव तदाहनि । प्रतिपन्नं कलियुगम् इति प्राहुः पुराविदः ॥ 33 ॥
श्लोक 12.2.34
दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् । भविष्यति तदा नॄणां मन आत्मप्रकाशकम् ॥ 34 ॥
श्लोक 12.2.35
इत्य् एष मानवो वंशो यथा सङ्ख्यायते भुवि । तथा विट्शूद्रविप्राणां तास् ता ज्ञेया युगे युगे ॥ 35 ॥
श्लोक 12.2.36
एतेषां नामलिङ्गानां पुरुषाणां महात्मनाम् । कथामात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि ॥ 36 ॥
श्लोक 12.2.37
देवापिः शान्तनोर् भ्राता मरुश् चेक्ष्वाकुवंशजः । कलापग्राम आसाते महायोगबलान्वितौ ॥ 37 ॥
श्लोक 12.2.38
ताव् इहैत्य कलेर् अन्ते वासुदेवानुशिक्षितौ । वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः ॥ 38 ॥
श्लोक 12.2.39
कृतं त्रेता द्वापरं च कलिश् चेति चतुर्युगम् । अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ 39 ॥
श्लोक 12.2.40
राजन्न् एते मया प्रोक्ता नरदेवास् तथापरे । भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥ 40 ॥
श्लोक 12.2.41
कृमिविड्भस्मसंज्ञान्ते राजनाम्नो ऽपि यस्य च । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ 41 ॥
श्लोक 12.2.42
कथं सेयम् अखण्डा भूः पूर्वैर् मे पुरुषैर् धृता । मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥ 42 ॥
श्लोक 12.2.43
तेजोऽब्अन्नमयं कायं गृहीत्वात्मतयाबुधाः । महीं ममतया चोभौ हित्वान्ते ऽदर्शनं गताः ॥ 43 ॥
श्लोक 12.2.44
ये ये भूपतयो राजन् भुञ्जते भुवम् ओजसा । कालेन ते कृताः सर्वे कथामात्राः कथासु च ॥ 44 ॥