श्रीमद्भागवत द्वादश स्कन्ध अध्याय 11
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.11.1
अथेमम् अर्थं पृच्छामो भवन्तं बहुवित्तमम् । समस्ततन्त्रराद्धान्ते भवान् भागवत तत्त्ववित् ॥ 1 ॥
श्लोक 12.11.2
तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः । अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः ॥ 2 ॥
श्लोक 12.11.3
तन् नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम् । येन क्रियानैपुणेन मर्त्यो यायाद् अमर्त्यताम् ॥ 3 ॥
श्लोक 12.11.4
नमस्कृत्य गुरून् वक्ष्ये विभूतीर् वैष्णवीर् अपि । याः प्रोक्ता वेदतन्त्राभ्याम् आचार्यैः पद्मजादिभिः ॥ 4 ॥
श्लोक 12.11.5
मायाद्यैर् नवभिस् तत्त्वैः स विकारमयो विराट् । निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् ॥ 5 ॥
श्लोक 12.11.6
एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः । नाभिः सूर्यो ऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥ 6 ॥
श्लोक 12.11.7
प्रजापतिः प्रजननम् अपानो मृत्युर् ईशितुः । तद्बाहवो लोकपाला मनश् चन्द्रो भ्रुवौ यमः ॥ 7 ॥
श्लोक 12.11.8
लज्जोत्तरो ऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः । रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः ॥ 8 ॥
श्लोक 12.11.9
यावान् अयं वै पुरुषो यावत्या संस्थया मितः । तावान् असाव् अपि महापुरुषो लोकसंस्थया ॥ 9 ॥
श्लोक 12.11.10
कौस्तुभव्यपदेशेन स्वात्मज्योतिर् बिभर्त्य् अजः । तत्प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः ॥ 10 ॥
श्लोक 12.11.11
स्वमायां वनमालाख्यां नानागुणमयीं दधत् । वासश् छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत् स्वरम् ॥ 11 ॥
श्लोक 12.11.12
बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले । मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् ॥ 12 ॥
श्लोक 12.11.13
अव्याकृतम् अनन्ताख्यम् आसनं यद्अधिष्ठितः । धर्मज्ञानादिभिर् युक्तं सत्त्वं पद्मम् इहोच्यते ॥ 13 ॥
श्लोक 12.11.14
ओजःसहोबलयुतं मुख्यतत्त्वं गदां दधत् । अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् ॥ 14 ॥
श्लोक 12.11.15
नभोनिभं नभस्तत्त्वम् असिं चर्म तमोमयम् । कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम् ॥ 15 ॥
श्लोक 12.11.16
इन्द्रियाणि शरान् आहुर् आकूतीर् अस्य स्यन्दनम् । तन्मात्राण्य् अस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम् ॥ 16 ॥
श्लोक 12.11.17
मण्डलं देवयजनं दीक्षा संस्कार आत्मनः । परिचर्या भगवत आत्मनो दुरितक्षयः ॥ 17 ॥
श्लोक 12.11.18
भगवान् भगशब्दार्थं लीलाकमलम् उद्वहन् । धर्मं यशश् च भगवांश् चामरव्यजने ऽभजत् ॥ 18 ॥
श्लोक 12.11.19
आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् । त्रिवृद् वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ 19 ॥
श्लोक 12.11.20
अनपायिनी भगवती शृईः साक्षाद् आत्मनो हरेः । विष्वक्षेनस् तन्त्रमूर्तिर् विदितः पार्षदाधिपः । नन्दादयो ऽष्टौ द्वाःस्थाश् च ते ऽणिमाद्या हरेर् गुणाः ॥ 20 ॥
श्लोक 12.11.21
वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् । अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहो ऽभिधीयते ॥ 21 ॥
श्लोक 12.11.22
स विश्वस् तैजसः प्राज्ञस् तुरीय इति वृत्तिभिः । अर्थेन्द्रियाशयज्ञानैर् भगवान् परिभाव्यते ॥ 22 ॥
श्लोक 12.11.23
अङ्गोपाङ्गायुधाकल्पैर् भगवांस् तच् चतुष्टयम् । बिभर्ति स्म चतुर्मूर्तिर् भगवान् हरिर् ईश्वरः ॥ 23 ॥
श्लोक 12.11.24
द्विजऋषभ स एष ब्रह्मयोनिः स्वयंदृक् स्वमहिमपरिपूर्णो मायया च स्वयैतत् &अम्प्; सृजति हरति पातीत्य् आख्ययानावृताक्षो विवृत इव निरुक्तस् तत्परैर् आत्मलभ्यः ॥ 24 ॥
श्लोक 12.11.25
श्रीकृष्ण कृष्णसख वृष्ण्य्ऋषभावनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोपवनिताव्रजभृत्यगीत तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥ 25 ॥
श्लोक 12.11.26
य इदं कल्य उत्थाय महापुरुषलक्षणम् । तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥ 26 ॥
श्लोक 12.11.27
शुको यद् आह भगवान् विष्णुराताय शृण्वते । सौरो गणो मासि मासि नाना वसति सप्तकः ॥ 27 ॥
श्लोक 12.11.28
तेषां नामानि कर्माणि नियुक्तानाम् अधीश्वरैः । ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः ॥ 28 ॥
श्लोक 12.11.29
अनाद्य्अविद्यया विष्णोर् आत्मनः सर्वदेहिनाम् । निर्मितो लोकतन्त्रो ऽयं लोकेषु परिवर्तते ॥ 29 ॥
श्लोक 12.11.30
एक एव हि लोकानां सूर्य आत्मादिकृद् धरिः । सर्ववेदक्रियामूलम् ऋषिभिर् बहुधोदितः ॥ 30 ॥
श्लोक 12.11.31
कालो देशः क्रिया कर्ता करणं कार्यम् आगमः । द्रव्यं फलम् इति ब्रह्मन् नवधोक्तो ऽजया हरिः ॥ 31 ॥
श्लोक 12.11.32
मध्व्आदिषु द्वादशसु भगवान् कालरूपधृक् । लोकतन्त्राय चरति पृथग् द्वादशभिर् गणैः ॥ 32 ॥
श्लोक 12.11.33
धाता कृतस्थली हेतिर् वासुकी रथकृन् मुने । पुलस्त्यस् तुम्बुरुर् इति मधुमासं नयन्त्य् अमी ॥ 33 ॥
श्लोक 12.11.34
अर्यमा पुलहो ऽथौजाः प्रहेतिः पुञ्जिकस्थली । नारदः कच्छनीरश् च नयन्त्य् एते स्म माधवम् ॥ 34 ॥
श्लोक 12.11.35
मित्रो ऽत्रिः पौरुषेयो ऽथ तक्षको मेनका हहाः । रथस्वन इति ह्य् एते शुक्रमासं नयन्त्य् अमी ॥ 35 ॥
श्लोक 12.11.36
वसिष्ठो वरुणो रम्भा सहजन्यस् तथा हुहूः । शुक्रश् चित्रस्वनश् चैव शुचिमासं नयन्त्य् अमी ॥ 36 ॥
श्लोक 12.11.37
इन्द्रो विश्वावसुः श्रोता एलापत्रस् तथाङ्गिराः । प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्य् अमी ॥ 37 ॥
श्लोक 12.11.38
विवस्वान् उग्रसेनश् च व्याघ्र आसारणो भृगुः । अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्य् अमी ॥ 38 ॥
श्लोक 12.11.39
पूषा धनञ्जयो वातः सुषेणः सुरुचिस् तथा । घृताची गौतमश् चेति तपोमासं नयन्त्य् अमी ॥ 39 ॥
श्लोक 12.11.40
ऋतुर् वर्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्व ऐरावतश् चैव तपस्याख्यं नयन्त्य् अमी ॥ 40 ॥
श्लोक 12.11.41
अथांशुः कश्यपस् तार्क्ष्य ऋतसेनस् तथोर्वशी । विद्युच्छत्रुर् महाशङ्खः सहोमासं नयन्त्य् अमी ॥ 41 ॥
श्लोक 12.11.42
भगः स्फूर्जो ऽरिष्टनेमिर् ऊर्ण आयुश् च पञ्चमः । कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्य् अमी ॥ 42 ॥
श्लोक 12.11.43
त्वष्टा ऋचीकतनयः कम्बलश् च तिलोत्तमा । ब्रह्मापेतो ऽथ सतजिद् धृतराष्ट्र इषम्भराः ॥ 43 ॥
श्लोक 12.11.44
विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् । विश्वामित्रो मखापेत ऊर्जमासं नयन्त्य् अमी ॥ 44 ॥
श्लोक 12.11.45
एता भगवतो विष्णोर् आदित्यस्य विभूतयः । स्मरतां सन्ध्ययोर् नॄणां हरन्त्य् अंहो दिने दिने ॥ 45 ॥
श्लोक 12.11.46
द्वादशस्व् अपि मासेषु देवो ऽसौ षड्भिर् अस्य वै । चरन् समन्तात् तनुते परत्रेह च सन्मतिम् ॥ 46 ॥
श्लोक 12.11.47
सामर्ग्यजुर्भिस् तल्लिङ्गैर् ऋषयः संस्तुवन्त्य् अमुम् । गन्धर्वास् तं प्रगायन्ति नृत्यन्त्य् अप्सरसो ऽग्रतः ॥ 47 ॥
श्लोक 12.11.48
उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः । चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः ॥ 48 ॥
श्लोक 12.11.49
वालखिल्याः सहस्राणि षष्टिर् ब्रह्मर्षयो ऽमलाः । पुरतो ऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर् विभुम् ॥ 49 ॥
श्लोक 12.11.50
एवं ह्य् अनादिनिधनो भगवान् हरिर् ईश्वरः । कल्पे कल्पे स्वम् आत्मानं व्यूह्य लोकान् अवत्य् अजः ॥ 50 ॥