मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत द्वादश स्कन्ध अध्याय 10

श्रीमद्भागवत द्वादश स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 12.10.1

स एवम् अनुभूयेदं नारायणविनिर्मितम् । वैभवं योगमायायास् तम् एव शरणं ययौ ॥ 1 ॥

श्लोक 12.10.2

प्रपन्नो ऽस्म्य् अङ्घ्रिमूलं ते प्रपन्नाभयदं हरे । यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया ॥ 2 ॥

श्लोक 12.10.3

तम् एवं निभृतात्मानं वृषेण दिवि पर्यटन् । रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर् वृतः ॥ 3 ॥

श्लोक 12.10.4

अथोमा तम् ऋषिं वीक्ष्य गिरिशं समभाषत । पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ 4 ॥

श्लोक 12.10.5

निभृतोदझषव्रातो वातापाये यथार्णवः । कुर्व् अस्य तपसः साक्षात् संसिद्धिं सिद्धिदो भवान् ॥ 5 ॥

श्लोक 12.10.6

नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत । भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये ॥ 6 ॥

श्लोक 12.10.7

अथापि संवदिष्यामो भवान्य् एतेन साधुना । अयं हि परमो लाभो नृणां साधुसमागमः ॥ 7 ॥

श्लोक 12.10.8

इत्य् उक्त्वा तम् उपेयाय भगवान् स सतां गतिः । ईशानः सर्वविद्यानाम् ईश्वरः सर्वदेहिनाम् ॥ 8 ॥

श्लोक 12.10.9

तयोर् आगमनं साक्षाद् ईशयोर् जगद्आत्मनोः । न वेद रुद्धधीवृत्तिर् आत्मानं विश्वम् एव च ॥ 9 ॥

श्लोक 12.10.10

भगवांस् तद् अभिज्ञाय गिरिशो योगमायया । आविशत् तद्गुहाकाशं वायुश् छिद्रम् इवेश्वरः ॥ 10 ॥

श्लोक 12.10.11

आत्मन्य् अपि शिवं प्राप्तं तडित्पिङ्गजटाधरम् । त्र्य्अक्षं दशभुजं प्रांशुम् उद्यन्तम् इव भास्करम् ॥ 11 ॥

श्लोक 12.10.12

व्याघ्रचर्माम्बरं शूलधनुर्इष्व्असिचर्मभिः । अक्षमालाडमरुककपालं परशुं सह ॥ 12 ॥

श्लोक 12.10.13

बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः । किम् इदं कुत एवेति समाधेर् विरतो मुनिः ॥ 13 ॥

श्लोक 12.10.14

नेत्रे उन्मील्य ददृशे सगणं सोमयागतम् । रुद्रं त्रिलोकैकगुरुं ननाम शिरसा मुनिः ॥ 14 ॥

श्लोक 12.10.15

तस्मै सपर्यां व्यदधात् सगणाय सहोमया । स्वागतासनपाद्यार्घ्यगन्धस्रग्धूपदीपकैः ॥ 15 ॥

श्लोक 12.10.16

आह त्व् आत्मानुभावेन पूर्णकामस्य ते विभो । करवाम किम् ईशान येनेदं निर्वृतं जगत् ॥ 16 ॥

श्लोक 12.10.17

नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च । रजोजुषे ऽथ घोराय नमस् तुभ्यं तमोजुषे ॥ 17 ॥

श्लोक 12.10.18

एवं स्तुतः स भगवान् आदिदेवः सतां गतिः । परितुष्टः प्रसन्नात्मा प्रहसंस् तम् अभाषत ॥ 18 ॥

श्लोक 12.10.19

वरं वृणीष्व नः कामं वरदेशा वयं त्रयः । अमोघं दर्शनं येषां मर्त्यो यद् विन्दते ऽमृतम् ॥ 19 ॥

श्लोक 12.10.20

ब्राह्मणाः साधवः शान्ता निःसङ्गा भूतवत्सलाः । एकान्तभक्ता अस्मासु निर्वैराः समदर्शिनः ॥ 20 ॥

श्लोक 12.10.21

सलोका लोकपालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते । अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः ॥ 21 ॥

श्लोक 12.10.22

न ते मय्य् अच्युते ऽजे च भिदाम् अण्व् अपि चक्षते । नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि ॥ 22 ॥

श्लोक 12.10.23

न ह्य् अम्मयानि तीर्थानि न देवाश् चेतनोज्झिताः । ते पुनन्त्य् उरुकालेन यूयं दर्शनमात्रतः ॥ 23 ॥

श्लोक 12.10.24

ब्राह्मणेभ्यो नमस्यामो ये ऽस्मद्रूपं त्रयीमयम् । बिभ्रत्य् आत्मसमाधानतपःस्वाध्यायसंयमैः ॥ 24 ॥

श्लोक 12.10.25

श्रवणाद् दर्शनाद् वापि महापातकिनो ऽपि वः । शुध्येरन्न् अन्त्यजाश् चापि किम् उ सम्भाषणादिभिः ॥ 25 ॥

श्लोक 12.10.26

इति चन्द्रललामस्य धर्मगह्योपबृंहितम् । वचो ऽमृतायनम् ऋषिर् नातृप्यत् कर्णयोः पिबन् ॥ 26 ॥

श्लोक 12.10.27

स चिरं मायया विष्णोर् भ्रामितः कर्शितो भृशम् । शिववाग्अमृतध्वस्तक्लेशपुञ्जस् तम् अब्रवीत् ॥ 27 ॥

श्लोक 12.10.28

अहो ईश्वरलीलेयं दुर्विभाव्या शरीरिणाम् । यन् नमन्तीशितव्यानि स्तुवन्ति जगद्ईश्वराः ॥ 28 ॥

श्लोक 12.10.29

धर्मं ग्राहयितुं प्रायः प्रवक्तारश् च देहिनाम् । आचरन्त्य् अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ 29 ॥

श्लोक 12.10.30

नैतावता भगवतः स्वमायामयवृत्तिभिः । न दुष्येतानुभावस् तैर् मायिनः कुहकं यथा ॥ 30 ॥

श्लोक 12.10.31

सृष्ट्वेदं मनसा विश्वम् आत्मनानुप्रविश्य यः । गुणैः कुर्वद्भिर् आभाति कर्तेव स्वप्नदृग् यथा ॥ 31 ॥

श्लोक 12.10.32

तस्मै नमो भगवते त्रिगुणाय गुणात्मने । केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये ॥ 32 ॥

श्लोक 12.10.33

कं वृणे नु परं भूमन् वरं त्वद् वरदर्शनात् । यद्दर्शनात् पूर्णकामः सत्यकामः पुमान् भवेत् ॥ 33 ॥

श्लोक 12.10.34

वरम् एकं वृणे ऽथापि पूर्णात् कामाभिवर्षणात् । भगवत्य् अच्युतां भक्तिं तत्परेषु तथा त्वयि ॥ 34 ॥

श्लोक 12.10.35

इत्य् अर्चितो ऽभिष्टुतश् च मुनिना सूक्तया गिरा । तम् आह भगवाञ् छर्वः शर्वया चाभिनन्दितः ॥ 35 ॥

श्लोक 12.10.36

कामो महर्षे सर्वो ऽयं भक्तिमांस् त्वम् अधोक्षजे । आकल्पान्ताद् यशः पुण्यम् अजरामरता तथा ॥ 36 ॥

श्लोक 12.10.37

ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् । ब्रह्मवर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ 37 ॥

श्लोक 12.10.38

एवं वरान् स मुनये दत्त्वागात् त्र्य्अक्ष ईश्वरः । देव्यै तत्कर्म कथयन्न् अनुभूतं पुरामुना ॥ 38 ॥

श्लोक 12.10.39

सो ऽप्य् अवाप्तमहायोगमहिमा भार्गवोत्तमः । विचरत्य् अधुनाप्य् अद्धा हराव् एकान्ततां गतः ॥ 39 ॥

श्लोक 12.10.40

अनुवर्णितम् एतत् ते मार्कण्डेयस्य धीमतः । अनुभूतं भगवतो मायावैभवम् अद्भुतम् ॥ 40 ॥

श्लोक 12.10.41

एतत् केचिद् अविद्वांसो मायासंसृतिर् आत्मनः । अनाद्य्आवर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ 41 ॥

श्लोक 12.10.42

य एवम् एतद् भृगुवर्य वर्णितं रथाङ्गपाणेर् अनुभावभावितम् । संश्रावयेत् संशृणुयाद् उ ताव् उभौ तयोर् न कर्माशयसंसृतिर् भवेत् ॥ 42 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ