श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 10
श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 2.10.1
अत्र सर्गो विसर्गश्च स्थानं पोषणम् ऊतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ 1 ॥
श्लोक 2.10.2
दशमस्य विशुद्ध्यर्थं नवानाम् इह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ 2 ॥
श्लोक 2.10.3
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ 3 ॥
श्लोक 2.10.4
स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ 4 ॥
श्लोक 2.10.5
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् । पुंसाम् ईशकथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥ 5 ॥
श्लोक 2.10.6
निरोधो ऽस्यानुशयनम् आत्मनः सह शक्तिभिः । मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ 6 ॥
श्लोक 2.10.7
आभासश्च निरोधश्च यतो ऽस्त्यध्यवसीयते । स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ 7 ॥
श्लोक 2.10.8
यो ऽध्यात्मिको ऽयं पुरुषः सो ऽसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥ 8 ॥
श्लोक 2.10.9
एकम् एकतराभावे यदा नोपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ 9 ॥
श्लोक 2.10.10
पुरुषो ऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः । आत्मनो ऽयनम् अन्विच्छन्न् अपो ऽस्राक्षीच् छुचिः शुचीः ॥ 10 ॥
श्लोक 2.10.11
तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् । तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ 11 ॥
श्लोक 2.10.12
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ 12 ॥
श्लोक 2.10.13
एको नानात्वम् अन्विच्छन् योगतल्पात् समुत्थितः । वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ 13 ॥
श्लोक 2.10.14
अधिदैवम् अथाध्यात्मम् अधिभूतम् इति प्रभुः । अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच् छृणु ॥ 14 ॥
श्लोक 2.10.15
अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः । ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥ 15 ॥
श्लोक 2.10.16
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु । अपानन्तम् अपानन्ति नरदेवम् इवानुगाः ॥ 16 ॥
श्लोक 2.10.17
प्राणेनाक्षिपता क्षुत् तृडन्तरा जायते विभोः । पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत ॥ 17 ॥
श्लोक 2.10.18
मुखतस्तालु निर्भिन्नंजिह्वा तत्रोपजायते । ततो नानारसो जज्ञे जिह्वया यो ऽधिगम्यते ॥ 18 ॥
श्लोक 2.10.19
विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः । जले चैतस्य सुचिरं निरोधः समजायत ॥ 19 ॥
श्लोक 2.10.20
नासिके निरभिद्येतां दोधूयति नभस्वति । तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः ॥ 20 ॥
श्लोक 2.10.21
यदात्मनि निरालोकम् आत्मानं च दिदृक्षतः । निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः ॥ 21 ॥
श्लोक 2.10.22
बोध्यमानस्य ऋषिभिरात्मनस्तज् जिघृक्षतः । कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ 22 ॥
श्लोक 2.10.23
वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीतताम् । जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहाः । तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः ॥ 23 ॥
श्लोक 2.10.24
हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया । तयोस्तु बलवान् इन्द्र आदानम् उभयाश्रयम् ॥ 24 ॥
श्लोक 2.10.25
गतिं जिगीषतः पादौ रुरुहाते ऽभिकामिकाम् । पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ 25 ॥
श्लोक 2.10.26
निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः । उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम् ॥ 26 ॥
श्लोक 2.10.27
उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् । ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ 27 ॥
श्लोक 2.10.28
आसिसृप्सोः पुरः पुर्या नाभिद्वारम् अपानतः । तत्रापानस्ततो मृत्युः पृथक्त्वम् उभयाश्रयम् ॥ 28 ॥
श्लोक 2.10.29
आदित्सोरन्नपानानाम् आसन् कुक्ष्यन्त्रनाडयः । नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये ॥ 29 ॥
श्लोक 2.10.30
निदिध्यासोरात्ममायां हृदयं निरभिद्यत । ततो मनश्चन्द्र इति सङ्कल्पः काम एव च ॥ 30 ॥
श्लोक 2.10.31
त्वक्चर्ममांसरुधिर मेदोमज्जास्थिधातवः । भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः ॥ 31 ॥
श्लोक 2.10.32
गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः । मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ 32 ॥
श्लोक 2.10.33
एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ 33 ॥
श्लोक 2.10.34
अतः परं सूक्ष्मतमम् अव्यक्तं निर्विशेषणम् । अनादिमध्यनिधनं नित्यं वाङ्मनसः परम् ॥ 34 ॥
श्लोक 2.10.35
अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ 35 ॥
श्लोक 2.10.36
स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् । नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ 36 ॥
श्लोक 2.10.37
प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ 37 ॥
श्लोक 2.10.38
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान् नरान् । मात् रक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ 38 ॥
श्लोक 2.10.39
कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहान् अपि । खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ 39 ॥
श्लोक 2.10.40
द्विविधाश्चतुर्विधा ये ऽन्ये जलस्थलनभौकसः । कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ 40 ॥
श्लोक 2.10.41
सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः । तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा । यदैकैकतरो ऽन्याभ्यां स्वभाव उपहन्यते ॥ 41 ॥
श्लोक 2.10.42
स एवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः ॥ 42 ॥
श्लोक 2.10.43
ततः कालाग्निरुद्रात्मा यत् सृष्टम् इदम् आत्मनः । सन्नियच्छति तत् काले घनानीकम् इवानिलः ॥ 43 ॥
श्लोक 2.10.44
इत्थम्भावेन कथितो भगवान् भगवत्तमः । नेत्थम्भावेन हि परं द्रष्टुम् अर्हन्ति सूरयः ॥ 44 ॥
श्लोक 2.10.45
नास्य कर्मणि जन्मादौ परस्यानुविधीयते । कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ 45 ॥
श्लोक 2.10.46
अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ 46 ॥
श्लोक 2.10.47
परिमाणं च कालस्य कल्पलक्षणविग्रहम् । यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पम् अथो शृणु ॥ 47 ॥
श्लोक 2.10.48
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः । चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥ 48 ॥
श्लोक 2.10.49
क्षत्तुः कौशारवेस्तस्य संवादो ऽध्यात्मसंश्रितः । यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वम् उवाच ह ॥ 49 ॥
श्लोक 2.10.50
ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् । बन्धुत्यागनिमित्तं च यथैवागतवान् पुनः ॥ 50 ॥
श्लोक 2.10.51
राज्ञा परीक्षिता पृष्टो यदवोचन् महामुनिः । तद्वो ऽभिधास्ये शृणुत राअज्ञः प्रश्नानुसारतः ॥ 51 ॥