श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 9
श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 2.9.1
आत्ममायाम् ऋते राजन् परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा ॥ 1 ॥
श्लोक 2.9.2
बहुरूप इवाभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहम् इति मन्यते ॥ 2 ॥
श्लोक 2.9.3
यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः । रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥ 3 ॥
श्लोक 2.9.4
आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतम् । ब्रह्मणे दर्शयन् रूपम् अव्यलीकव्रतादृतः ॥ 4 ॥
श्लोक 2.9.5
स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यम् आस्थाय सिसृक्षयैक्षत । तां नाध्यगच्छद्दृशम् अत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ 5 ॥
श्लोक 2.9.6
स चिन्तयन् द्व्यक्षरम् एकदाम्भस्य् उपाशृणोद्द्विर्गदितं वचो विभुः । स्पर्शेषु यत् षोडशम् एकविंशं निष्किञ्चनानां नृप यद्धनं विदुः ॥ 6 ॥
श्लोक 2.9.7
निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः । स्वधिष्ण्यम् आस्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥ 7 ॥
श्लोक 2.9.8
दिव्यं सहस्राब्दम् अमोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः । अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः ॥ 8 ॥
श्लोक 2.9.9
तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयाम् आस परं न यत्परम् । व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥ 9 ॥
श्लोक 2.9.10
प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः ॥ 10 ॥
श्लोक 2.9.11
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः । प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः ॥ 11 ॥
श्लोक 2.9.12
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥ 12 ॥
श्लोक 2.9.13
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खं श्रिता या कुसुमाकरानुगैर् विगीयमाना प्रियकर्म गायती ॥ 13 ॥
श्लोक 2.9.14
ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ 14 ॥
श्लोक 2.9.15
भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ 15 ॥
श्लोक 2.9.16
अध्यर्हणीयासनम् आस्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणम् ईश्वरम् ॥ 16 ॥
श्लोक 2.9.17
तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः । ननाम पादाम्बुजम् अस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते ॥ 17 ॥
श्लोक 2.9.18
तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् । बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥ 18 ॥
श्लोक 2.9.19
त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया । चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥ 19 ॥
श्लोक 2.9.20
वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् । ब्रह्मञ् छ्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः ॥ 20 ॥
श्लोक 2.9.21
मनीषितानुभावो ऽयं मम लोकावलोकनम् । यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ 21 ॥
श्लोक 2.9.22
प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । तपो मे हृदयं साक्षादात्माहं तपसो ऽनघ ॥ 22 ॥
श्लोक 2.9.23
सृजामि तपसैवेदं ग्रसामि तपसा पुनः । बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥ 23 ॥
श्लोक 2.9.24
भगवन् सर्वभूतानाम् अध्यक्षो ऽवस्थितो गुहाम् । वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ 24 ॥
श्लोक 2.9.25
तथापि नाथमानस्य नाथ नाथय नाथितम् । परावरे यथा रूपेजानीयां ते त्वरूपिणः ॥ 25 ॥
श्लोक 2.9.26
यथात्ममायायोगेन नानाशक्त्युपबृंहितम् । विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानम् आत्मना ॥ 26 ॥
श्लोक 2.9.27
क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते । तथा तद्विषयां धेहि मनीषां मयि माधव ॥ 27 ॥
श्लोक 2.9.28
भगवच्छिक्षितम् अहं करवाणि ह्यतन्द्रितः । नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥ 28 ॥
श्लोक 2.9.29
यावत् सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् । अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदो ञ्ज मानिनः ॥ 29 ॥
श्लोक 2.9.30
ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ 30 ॥
श्लोक 2.9.31
यावान् अहं यथाभावो यद्रूपगुणकर्मकः । तथैव तत्त्वविज्ञानम् अस्तु ते मदनुग्रहात् ॥ 31 ॥
श्लोक 2.9.32
अहम् एवासम् एवाग्रे नान्यद्यत् सदसत् परम् । पश्चादहं यदेतच् च यो ऽवशिष्येत सो ऽस्म्यहम् ॥ 32 ॥
श्लोक 2.9.33
ऋते ऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः ॥ 33 ॥
श्लोक 2.9.34
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ 34 ॥
श्लोक 2.9.35
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः । अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ 35 ॥
श्लोक 2.9.36
एतन् मतं समातिष्ठ परमेण समाधिना । भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ 36 ॥
श्लोक 2.9.37
सम्प्रदिश्यैवम् अजनो जनानां परमेष्ठिनम् । पश्यतस्तस्य तद्रूपम् आत्मनो न्यरुणद्धरिः ॥ 37 ॥
श्लोक 2.9.38
अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः । सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ 38 ॥
श्लोक 2.9.39
प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् । भद्रं प्रजानाम् अन्विच्छन्न् आतिष्ठत् स्वार्थकाम्यया ॥ 39 ॥
श्लोक 2.9.40
तं नारदः प्रियतमो रिक्थादानाम् अनुव्रतः । शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ 40 ॥
श्लोक 2.9.41
मायां विविदिषन् विष्णोर्मायेशस्य महामुनिः । महाभागवतो राजन् पितरं पर्यतोषयत् ॥ 41 ॥
श्लोक 2.9.42
तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् । देवर्षिः परिपप्रच्छ भवान् यन् मानुपृच्छति ॥ 42 ॥
श्लोक 2.9.43
तस्मा इदं भागवतं पुराणं दशलक्षणम् । प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ 43 ॥
श्लोक 2.9.44
नारदः प्राह मुनये सरस्वत्यास्तटे नृप । ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ 44 ॥
श्लोक 2.9.45
यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् । यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः ॥ 45 ॥