श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 3
श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 2.3.1
एवम् एतन् निगदितं पृष्टवान् यद्भवान् मम । नृणां यन् म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ 1 ॥
श्लोक 2.3.2
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् । इन्द्रम् इन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥ 2 ॥
श्लोक 2.3.3
देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् । वसुकामो वसून् रुद्रान् वीर्यकामो ऽथ वीर्यवान् ॥ 3 ॥
श्लोक 2.3.4
अन्नाद्यकामस्त्वदितिं स्वर्गकामो ऽदितेः सुतान् । विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम् ॥ 4 ॥
श्लोक 2.3.5
आयुष्कामो ऽश्विनौ देवौ पुष्टिकाम इलां यजेत् । प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥ 5 ॥
श्लोक 2.3.6
रूपाभिकामो गन्धर्वान् स्त्रीकामो ऽप्सर उर्वशीम् । आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥ 6 ॥
श्लोक 2.3.7
यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् । विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ 7 ॥
श्लोक 2.3.8
धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन् पित्न् यजेत् । रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान् ॥ 8 ॥
श्लोक 2.3.9
राज्यकामो मनून् देवान् निरृतिं त्वभिचरन् यजेत् । कामकामो यजेत् सोमम् अकामः पुरुषं परम् ॥ 9 ॥
श्लोक 2.3.10
अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ 10 ॥
श्लोक 2.3.11
एतावान् एव यजताम् इह निःश्रेयसोदयः । भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ 11 ॥
श्लोक 2.3.12
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् आत्मप्रसाद उत यत्र गुणेष्वसङ्गः &अम्प्; कैवल्यसम्मतपथस्त्वथ भक्तियोगः को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ 12 ॥
श्लोक 2.3.13
इत्यभिव्याहृतं राजा निशम्य भरतर्षभः । किम् अन्यत् पृष्टवान् भूयो वैयासकिम् ऋषिं कविम् ॥ 13 ॥
श्लोक 2.3.14
एतच् छुश्रूषतां विद्वन् सूत नो ऽर्हसि भाषितुम् । कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् ॥ 14 ॥
श्लोक 2.3.15
स वै भागवतो राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ॥ 15 ॥
श्लोक 2.3.16
वैयासकिश्च भगवान् वासुदेवपरायणः । उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ 16 ॥
श्लोक 2.3.17
आयुर्हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ 17 ॥
श्लोक 2.3.18
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामे पशवो ऽपरे ॥ 18 ॥
श्लोक 2.3.19
श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ 19 ॥
श्लोक 2.3.20
बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥ 20 ॥
श्लोक 2.3.21
भारः परं पट्टकिरीटजुष्टम् अप्युत्तमाङ्गं न नमेन् मुकुन्दम् । शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ 21 ॥
श्लोक 2.3.22
बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ 22 ॥
श्लोक 2.3.23
जीवञ् छवो भागवताङ्घ्रिरेणुं न जातु मर्त्यो ऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ् छवो यस्तु न वेद गन्धम् ॥ 23 ॥
श्लोक 2.3.24
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ 24 ॥
श्लोक 2.3.25
अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः । यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः ॥ 25 ॥