मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 4

श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 2.4.1

वैयासकेरिति वचस्तत्त्वनिश्चयम् आत्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ 1 ॥

श्लोक 2.4.2

आत्मजायासुतागार पशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ 2 ॥

श्लोक 2.4.3

पप्रच्छ चेमम् एवार्थं यन् मां पृच्छथ सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥ 3 ॥

श्लोक 2.4.4

संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् । वासुदेवे भगवति आत्मभावं दृढं गतः ॥ 4 ॥

श्लोक 2.4.5

समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ । तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥ 5 ॥

श्लोक 2.4.6

भूय एव विवित्सामि भगवान् आत्ममायया । यथेदं सृजते विश्वं दुर्विभाव्यम् अधीश्वरैः ॥ 6 ॥

श्लोक 2.4.7

यथा गोपायति विभुर्यथा संयच्छते पुनः । यां यां शक्तिम् उपाश्रित्य पुरुशक्तिः परः पुमान् । आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ 7 ॥

श्लोक 2.4.8

नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मणः । दुर्विभाव्यम् इवाभाति कविभिश्चापि चेष्टितम् ॥ 8 ॥

श्लोक 2.4.9

यथा गुणांस्तु प्रकृतेर्युगपत् क्रमशो ऽपि वा । बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः ॥ 9 ॥

श्लोक 2.4.10

विचिकित्सितम् एतन् मे ब्रवीतु भगवान् यथा । शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु ॥ 10 ॥

श्लोक 2.4.11

इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः । हृषीकेशम् अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ 11 ॥

श्लोक 2.4.12

नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनाम् अन्तर्भवायानुपलक्ष्यवर्त्मने ॥ 12 ॥

श्लोक 2.4.13

भूयो नमः सद्वृजिनच्छिदे ऽसताम् असम्भवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानाम् अनुमृग्यदाशुषे ॥ 13 ॥

श्लोक 2.4.14

नमो नमस्ते ऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ 14 ॥

श्लोक 2.4.15

यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ 15 ॥

श्लोक 2.4.16

विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतो ऽन्तरात्मनः । विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः ॥ 16 ॥

श्लोक 2.4.17

तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ 17 ॥

श्लोक 2.4.18

किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः । ये ऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ 18 ॥

श्लोक 2.4.19

स एष आत्मात्मवताम् अधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः । गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान् प्रसीदताम् ॥ 19 ॥

श्लोक 2.4.20

श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ 20 ॥

श्लोक 2.4.21

यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वम् आत्मनः । वदन्ति चैतत् कवयो यथारुचं स मे मुकुन्दो भगवान् प्रसीदताम् ॥ 21 ॥

श्लोक 2.4.22

प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदि । स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणाम् ऋषभः प्रसीदताम् ॥ 22 ॥

श्लोक 2.4.23

भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सो ऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ 23 ॥

श्लोक 2.4.24

नमस्तस्मै भगवते वासुदेवाय वेधसे । पपुर्ज्ञानम् अयं सौम्या यन्मुखाम्बुरुहासवम् ॥ 24 ॥

श्लोक 2.4.25

एतदेवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भो ऽभ्यधात् साक्षाद्यदाह हरिरात्मनः ॥ 25 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ