श्रीमद्भागवत तृतीय स्कन्ध अध्याय 1
श्रीमद्भागवत तृतीय स्कन्ध अध्याय 1 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 3.1.1
एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहम् ऋद्धिमत् ॥ 1 ॥
श्लोक 3.1.2
यद् वा अयं मन्त्रकृद् वो भगवान् अखिलेश्वरः । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात् कृतम् ॥ 2 ॥
श्लोक 3.1.3
कुत्र क्षत्तुर् भगवता मैत्रेयेणास सङ्गमः । कदा वा सहसंवाद एतद् वर्णय नः प्रभो ॥ 3 ॥
श्लोक 3.1.4
न ह्य् अल्पार्थोदयस् तस्य विदुरस्यामलात्मनः । तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः ॥ 4 ॥
श्लोक 3.1.5
स एवम् ऋषिवर्यो ऽयं पृष्टो राज्ञा परीक्षिता । प्रत्य् आह तं सुबहुवित् प्रीतात्मा श्रूयताम् इति ॥ 5 ॥
श्लोक 3.1.6
यदा तु राजा स्वसुतान् असाधून् पुष्णन् न धर्मेण विनष्टदृष्टिः । भ्रातुर् यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ 6 ॥
श्लोक 3.1.7
यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम् । न वारयाम् आस नृपः स्नुषायाः स्वास्रैर् हरन्त्याः कुचकुङ्कुमानि ॥ 7 ॥
श्लोक 3.1.8
द्यूते त्व् अधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य । न याचतो ऽदात् समयेन दायं तमोजुषाणो यद् अजातशत्रोः ॥ 8 ॥
श्लोक 3.1.9
यदा च पार्थप्रहितः सभायां जगद्गुरुर् यानि जगाद कृष्णः । न तानि पुंसाम् अमृतायनानि राजोरु मेने क्षतपुण्यलेशः ॥ 9 ॥
श्लोक 3.1.10
यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन । अथाह तन् मन्त्रदृशां वरीयान् यन् मन्त्रिणो वैदुरिकं वदन्ति ॥ 10 ॥
श्लोक 3.1.11
अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः । सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत् त्वम् अलं बिभेषि ॥ 11 ॥
श्लोक 3.1.12
पार्थांस् तु देवो भगवान् मुकुन्दो गृहीतवान् सक्षितिदेवदेवः । आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेवः ॥ 12 ॥
श्लोक 3.1.13
स एष दोषः पुरुषद्विड् आस्ते गृहान् प्रविष्टो यम् अपत्यमत्या । पुष्णासि कृष्णाद् विमुखो गतश्रीस् त्यजाश्व् अशैवं कुलकौशलाय ॥ 13 ॥
श्लोक 3.1.14
इत्य् ऊचिवांस् तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण । असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन ॥ 14 ॥
श्लोक 3.1.15
क एनम् अत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः । तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यताम् आशु पुराच् छ्वसानः ॥ 15 ॥
श्लोक 3.1.16
स्वयं धनुर् द्वारि निधाय मायां भ्रातुः पुरो मर्मसु ताडितो ऽपि । स इत्थम् अत्युल्बणकर्णबाणैर् गतव्यथो ऽयाद् उरु मानयानः ॥ 16 ॥
श्लोक 3.1.17
स निर्गतः कौरवपुण्यलब्धो गजाह्वयात् तीर्थपदः पदानि । अन्वाक्रमत् पुण्यचिकीर्षयोर्व्याम् अधिष्ठितो यानि सहस्रमूर्तिः ॥ 17 ॥
श्लोक 3.1.18
पुरेषु पुण्योपवनाद्रिकुञ्जेष्व् अपङ्कतोयेषु सरित्सरःसु । अनन्तलिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्व् अनन्यः ॥ 18 ॥
श्लोक 3.1.19
गां पर्यटन् मेध्यविविक्तवृत्तिः सदाप्लुतो ऽधः शयनो ऽवधूतः । अलक्षितः स्वैर् अवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ 19 ॥
श्लोक 3.1.20
इत्थं व्रजन् भारतम् एव वर्षं कालेन यावद् गतवान् प्रभासम् । तावच् छशास क्षितिम् एक चक्राम्ल् एकातपत्राम् अजितेन पार्थः ॥ 20 ॥
श्लोक 3.1.21
तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् । संस्पर्धया दग्धम् अथानुशोचन् सरस्वतीं प्रत्यग् इयाय तूष्णीम् ॥ 21 ॥
श्लोक 3.1.22
तस्यां त्रितस्योशनसो मनोश् च पृथोर् अथाग्नेर् असितस्य वायोः । तीर्थं सुदासस्य गवां गुहस्य यच् छ्राद्धदेवस्य स आसिषेवे ॥ 22 ॥
श्लोक 3.1.23
अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः । प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णम् अनुस्मरन्ति ॥ 23 ॥
श्लोक 3.1.24
ततस् त्व् अतिव्रज्य सुराष्ट्रम् ऋद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश् च । कालेन तावद् यमुनाम् उपेत्य तत्रोद्धवं भागवतं ददर्श ॥ 24 ॥
श्लोक 3.1.25
स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक् तनयं प्रतीतम् । आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानाम् अपृच्छद् भगवत्प्रजानाम् ॥ 25 ॥
श्लोक 3.1.26
कच्चित् पुराणौ पुरुषौ स्वनाभ्यपाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ 26 ॥
श्लोक 3.1.27
कच्चित् कुरूणां परमः सुहृन् नो भामः स आस्ते सुखम् अङ्ग शौरिः । यो वै स्वस्णां पितृवद् ददाति वरान् वदान्यो वरतर्पणेन ॥ 27 ॥
श्लोक 3.1.28
कच्चिद् वरूथाधिपतिर् यदूनां प्रद्युम्न आस्ते सुखम् अङ्ग वीरः । यं रुक्मिणी भगवतो ऽभिलेभे आराध्य विप्रान् स्मरम् आदिसर्गे ॥ 28 ॥
श्लोक 3.1.29
कच्चित् सुखं सात्वतवृष्णिभोजदाशार्हकाणाम् अधिपः स आस्ते । यम् अभ्यषिञ्चच् छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् ॥ 29 ॥
श्लोक 3.1.30
कच्चिद् धरेः सौम्य सुतः सदृक्ष आस्ते ऽग्रणी रथिनां साधु साम्बः । असूत यं जाम्बवती व्रताढ्या देवं गुहं यो ऽम्बिकया धृतो ऽग्रे ॥ 30 ॥
श्लोक 3.1.31
क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनाल् लब्धधनूरहस्यः । लेभे ऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर् दुरापाम् ॥ 31 ॥
श्लोक 3.1.32
कच्चिद् बुधः स्वस्त्य् अनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः । यः कृष्णपादाङ्कितमार्गपांसुष्व् अचेष्टत प्रेमविभिन्नधैर्यः ॥ 32 ॥
श्लोक 3.1.33
कच्चिच् छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः । या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानम् अर्थम् ॥ 33 ॥
श्लोक 3.1.34
अपिस्विद् आस्ते भगवान् सुखं वो यः सात्वतां कामदुघो ऽनिरुद्धः । यम् आमनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ॥ 34 ॥
श्लोक 3.1.35
अपिस्विद् अन्ये च निजात्मदैवम् अनन्यवृत्त्या समनुव्रता ये । हृदीकसत्यात्मजचारुदेष्णगदादयः स्वस्ति चरन्ति सौम्य ॥ 35 ॥
श्लोक 3.1.36
अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् । दुर्योधनो ऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ 36 ॥
श्लोक 3.1.37
किं वा कृताघेष्व् अघम् अत्यमर्षी भीमो ऽहिवद् दीर्घतमं व्यमुञ्चत् । यस्याङ्घ्रिपातं रणभूर् न सेहे मार्गं गदायाश् चरतो विचित्रम् ॥ 37 ॥
श्लोक 3.1.38
कच्चिद् यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिर् आस्ते । अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस् तुतोष ॥ 38 ॥
श्लोक 3.1.39
यमाव् उतस्वित् तनयौ पृथायाः पार्थैर् वृतौ पक्ष्मभिर् अक्षिणीव । रेमात उद्दाय मृधे स्वरिक्थं परात् सुपर्णाव् इव वज्रिवक्त्रात् ॥ 39 ॥
श्लोक 3.1.40
अहो पृथापि ध्रियते ऽर्भकार्थे राजर्षिवर्येण विनापि तेन । यस् त्व् एकवीरो ऽधिरथो विजिग्ये धनुर् द्वितीयः ककुभश् चतस्रः ॥ 40 ॥
श्लोक 3.1.41
सौम्यानुशोचे तम् अधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः । निर्यापितो येन सुहृत् स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन ॥ 41 ॥
श्लोक 3.1.42
सो ऽहं हरेर् मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः । नान्योपलक्ष्यः पदवीं प्रसादाच् चरामि पश्यन् गतविस्मयो ऽत्र ॥ 42 ॥
श्लोक 3.1.43
नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश् चालयतां चमूभिः । वधात् प्रपन्नार्तिजिहीर्षयेशो ऽप्य् उपैक्षताघं भगवान् कुरूणाम् ॥ 43 ॥
श्लोक 3.1.44
अजस्य जन्मोत्पथनाशनाय कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम् । नन्व् अन्यथा को ऽर्हति देहयोगं परो गुणानाम् उत कर्मतन्त्रम् ॥ 44 ॥
श्लोक 3.1.45
तस्य प्रपन्नाखिललोकपानाम् अवस्थितानाम् अनुशासने स्वे । अर्थाय जातस्य यदुष्व् अजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः ॥ 45 ॥