श्रीमद्भागवत तृतीय स्कन्ध अध्याय 2
श्रीमद्भागवत तृतीय स्कन्ध अध्याय 2 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 3.2.1
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् । प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥ 1 ॥
श्लोक 3.2.2
यः पञ्चहायनो मात्रा प्रातर्आशाय याचितः । तन् नैच्छद् रचयन् यस्य सपर्यां बाललीलया ॥ 2 ॥
श्लोक 3.2.3
स कथं सेवया तस्य कालेन जरसं गतः । पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् ॥ 3 ॥
श्लोक 3.2.4
स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् । तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ 4 ॥
श्लोक 3.2.5
पुलकोद्भिन्नसर्वाङ्गो मुञ्चन् मीलद्दृशा शुचः । पूर्णार्थो लक्षितस् तेन स्नेहप्रसरसम्प्लुतः ॥ 5 ॥
श्लोक 3.2.6
शनकैर् भगवल्लोकान् नृलोकं पुनर् आगतः । विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ 6 ॥
श्लोक 3.2.7
कृष्णद्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह । किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्व् अहम् ॥ 7 ॥
श्लोक 3.2.8
दुर्भगो बत लोको ऽयं यदवो नितराम् अपि । ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् ॥ 8 ॥
श्लोक 3.2.9
इङ्गितज्ञाः पुरुप्रौढा एकारामाश् च सात्वताः । सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत ॥ 9 ॥
श्लोक 3.2.10
देवस्य मायया स्पृष्टा ये चान्यद् असद्आश्रिताः । भ्राम्यते धीर् न तद्वाक्यैर् आत्मन्य् उप्तात्मनो हरौ ॥ 10 ॥
श्लोक 3.2.11
प्रदर्श्यातप्ततपसाम् अवितृप्तदृशां नृणाम् । आदायान्तर् अधाद् यस् तु स्वबिम्बं लोकलोचनम् ॥ 11 ॥
श्लोक 3.2.12
यन् मर्त्यलीलौपयिकं स्वयोगमायाबलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥ 12 ॥
श्लोक 3.2.13
यद् धर्मसूनोर् बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः । कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्सृतौ कौशलम् इत्य् अमन्यत ॥ 13 ॥
श्लोक 3.2.14
यस्यानुरागप्लुतहासरासलीलावलोकप्रतिलब्धमानाः । व्रजस्त्रियो दृग्भिर् अनुप्रवृत्तधियो ऽवतस्थुः किल कृत्यशेषाः ॥ 14 ॥
श्लोक 3.2.15
स्वशान्तरूपेष्व् इतरैः स्वरूपैर् अभ्यर्द्यमानेष्व् अनुकम्पितात्मा । परावरेशो महद्अंशयुक्तो ह्य् अजो ऽपि जातो भगवान् यथाग्निः ॥ 15 ॥
श्लोक 3.2.16
मां खेदयत्य् एतद् अजस्य जन्मविडम्बनं यद् वसुदेवगेहे । व्रजे च वासो ऽरिभयाद् इव स्वयं पुराद् व्यवात्सीद् यद्अनन्तवीर्यः ॥ 16 ॥
श्लोक 3.2.17
दुनोति चेतः स्मरतो ममैतद् यद् आह पादाव् अभिवन्द्य पित्रोः । ताताम्ब कंसाद् उरुशङ्कितानां प्रसीदतं नो ऽकृतनिष्कृतीनाम् ॥ 17 ॥
श्लोक 3.2.18
को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुम् ईशीत पुमान् विजिघ्रन् । यो विस्फुरद्भ्रूविटपेन भूमेर् भारं कृतान्तेन तिरश्चकार ॥ 18 ॥
श्लोक 3.2.19
दृष्टा भवद्भिर् ननु राजसूये चैद्यस्य कृष्णं द्विषतो ऽपि सिद्धिः । यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस् तद्विरहं सहेत ॥ 19 ॥
श्लोक 3.2.20
तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम् । नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूतः पदम् आपुर् अस्य ॥ 20 ॥
श्लोक 3.2.21
स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्यलक्ष्म्य्आप्तसमस्तकामः । बलिं हरद्भिश् चिरलोकपालैः किरीटकोट्य्एडितपादपीठः ॥ 21 ॥
श्लोक 3.2.22
तत् तस्य कैङ्कर्यम् अलं भृतान् नो विग्लापयत्य् अङ्ग यद् उग्रसेनम् । तिष्ठन् निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद् देव निधारयेति ॥ 22 ॥
श्लोक 3.2.23
अहो बकी यं स्तनकालकूटं जिघांसयापाययद् अप्य् असाध्वी । लेभे गतिं धात्र्य्उचितां ततो ऽन्यं कं वा दयालुं शरणं व्रजेम ॥ 23 ॥
श्लोक 3.2.24
मन्ये ऽसुरान् भागवतांस् त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् । ये संयुगे ऽचक्षत तार्क्ष्यपुत्रम् अंसे सुनाभायुधम् आपतन्तम् ॥ 24 ॥
श्लोक 3.2.25
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने । चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः ॥ 25 ॥
श्लोक 3.2.26
ततो नन्दव्रजम् इतः पित्रा कंसाद् विबिभ्यता । एकादश समास् तत्र गूढार्चिः सबलो ऽवसत् ॥ 26 ॥
श्लोक 3.2.27
परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः । यमुनोपवने कूजद्द्विजसङ्कुलिताङ्घ्रिपे ॥ 27 ॥
श्लोक 3.2.28
कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् । रुदन्न् इव हसन् मुग्धबालसिंहावलोकनः ॥ 28 ॥
श्लोक 3.2.29
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् । चारयन्न् अनुगान् गोपान् रणद्वेणुर् अरीरमत् ॥ 29 ॥
श्लोक 3.2.30
प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः । लीलया व्यनुदत् तांस् तान् बालः क्रीडनकान् इव ॥ 30 ॥
श्लोक 3.2.31
विपन्नान् विषपानेन निगृह्य भुजगाधिपम् । उत्थाप्यापाययद् गावस् तत् तोयं प्रकृतिस्थितम् ॥ 31 ॥
श्लोक 3.2.32
अयाजयद् गोसवेन गोपराजं द्विजोत्तमैः । वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः ॥ 32 ॥
श्लोक 3.2.33
वर्षतीन्द्रे व्रजः कोपाद् भग्नमाने ऽतिविह्वलः । गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ 33 ॥
श्लोक 3.2.34
शरच्छशिकरैर् मृष्टं मानयन् रजनीमुखम् । गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ 34 ॥