मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 14

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.14.1

निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः । पुनः स पप्रच्छ तम् उद्यताञ्जलिर् न चातितृप्तो विदुरो धृतव्रतः ॥ 1 ॥

श्लोक 3.14.2

तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना । आदिदैत्यो हिरण्याक्षो हत इत्य् अनुशुश्रुम ॥ 2 ॥

श्लोक 3.14.3

तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया । दैत्यराजस्य च ब्रह्मन् कस्माद् धेतोर् अभून् मृधः ॥ 3 ॥

श्लोक 3.14.4

श्रद्दधानाय भक्ताय ब्रूहि तज्जन्मविस्तरम् । ऋषे न तृप्यति मनः परं कौतूहलं हि मे ॥ 4 ॥

श्लोक 3.14.5

साधु वीर त्वया पृष्टम् अवतारकथां हरेः । यत् त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ 5 ॥

श्लोक 3.14.6

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः । मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् ॥ 6 ॥

श्लोक 3.14.7

अथात्रापीतिहासो ऽयं श्रुतो मे वर्णितः पुरा । ब्रह्मणा देवदेवेन देवानाम् अनुपृच्छताम् ॥ 7 ॥

श्लोक 3.14.8

दितिर् दाक्षायणी क्षत्तर् मारीचं कश्यपं पतिम् । अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ 8 ॥

श्लोक 3.14.9

इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् । निम्लोचत्य् अर्क आसीनम् अग्न्य्अगारे समाहितम् ॥ 9 ॥

श्लोक 3.14.10

एष मां त्वत्कृते विद्वन् काम आत्तशरासनः । दुनोति दीनां विक्रम्य रम्भाम् इव मतङ्गजः ॥ 10 ॥

श्लोक 3.14.11

तद् भवान् दह्यमानायां सपत्नीनां समृद्धिभिः । प्रजावतीनां भद्रं ते मय्य् आयुङ्क्ताम् अनुग्रहम् ॥ 11 ॥

श्लोक 3.14.12

भर्तर्य् आप्तोरुमानानां लोकान् आविशते यशः । पतिर् भवद्विधो यासां प्रजया ननु जायते ॥ 12 ॥

श्लोक 3.14.13

पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः । कं वृणीत वरं वत्सा इत्य् अपृच्छत नः पृथक् ॥ 13 ॥

श्लोक 3.14.14

स विदित्वात्मजानां नो भावं सन्तानभावनः । त्रयोदशाददात् तासां यास् ते शीलम् अनुव्रताः ॥ 14 ॥

श्लोक 3.14.15

अथ मे कुरु कल्याणं कामं कमललोचन । आर्तोपसर्पणं भूमन्न् अमोघं हि महीयसि ॥ 15 ॥

श्लोक 3.14.16

इति तां वीर मारीचः कृपणां बहुभाषिणीम् । प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ 16 ॥

श्लोक 3.14.17

एष ते ऽहं विधास्यामि प्रियं भीरु यद् इच्छसि । तस्याः कामं न कः कुर्यात् सिद्धिस् त्रैवर्गिकी यतः ॥ 17 ॥

श्लोक 3.14.18

सर्वाश्रमान् उपादाय स्वाश्रमेण कलत्रवान् । व्यसनार्णवम् अत्येति जलयानैर् यथार्णवम् ॥ 18 ॥

श्लोक 3.14.19

याम् आहुर् आत्मनो ह्य् अर्धं श्रेयस्कामस्य मानिनि । यस्यां स्वधुरम् अध्यस्य पुमांश् चरति विज्वरः ॥ 19 ॥

श्लोक 3.14.20

याम् आश्रित्येन्द्रियारातीन् दुर्जयान् इतराश्रमैः । वयं जयेम हेलाभिर् दस्यून् दुर्गपतिर् यथा ॥ 20 ॥

श्लोक 3.14.21

न वयं प्रभवस् तां त्वाम् अनुकर्तुं गृहेश्वरि । अप्य् आयुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः ॥ 21 ॥

श्लोक 3.14.22

अथापि कामम् एतं ते प्रजात्यै करवाण्य् अलम् । यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ 22 ॥

श्लोक 3.14.23

एषा घोरतमा वेला घोराणां घोरदर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ 23 ॥

श्लोक 3.14.24

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः । परीतो भूतपर्षद्भिर् वृषेणाटति भूतराट् ॥ 24 ॥

श्लोक 3.14.25

श्मशानचक्रानिलधूलिधूम्रविकीर्णविद्योतजटाकलापः । भस्मावगुण्ठामलरुक्मदेहो देवस् त्रिभिः पश्यति देवरस् ते ॥ 25 ॥

श्लोक 3.14.26

न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद् विगर्ह्यः । वयं व्रतैर् यच्चरणापविद्धाम् आशास्महे ऽजां बत भुक्तभोगाम् ॥ 26 ॥

श्लोक 3.14.27

यस्यानवद्याचरितं मनीषिणो गृणन्त्य् अविद्यापटलं बिभित्सवः । निरस्तसाम्यातिशयो ऽपि यत् स्वयं पिशाचचर्याम् अचरद् गतिः सताम् ॥ 27 ॥

श्लोक 3.14.28

हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्रतस्याविदुषः समीहितम् । यैर् वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम् ॥ 28 ॥

श्लोक 3.14.29

ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वम् इदं च माया । आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश् चरितं विडम्बनम् ॥ 29 ॥

श्लोक 3.14.30

सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया । जग्राह वासो ब्रह्मर्षेर् वृषलीव गतत्रपा ॥ 30 ॥

श्लोक 3.14.31

स विदित्वाथ भार्यायास् तं निर्बन्धं विकर्मणि । नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ 31 ॥

श्लोक 3.14.32

अथोपस्पृश्य सलिलं प्राणान् आयम्य वाग्यतः । ध्यायञ् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥ 32 ॥

श्लोक 3.14.33

दितिस् तु व्रीडिता तेन कर्मावद्येन भारत । उपसङ्गम्य विप्रर्षिम् अधोमुख्य् अभ्यभाषत ॥ 33 ॥

श्लोक 3.14.34

न मे गर्भम् इमं ब्रह्मन् भूतानाम् ऋषभो ऽवधीत् । रुद्रः पतिर् हि भूतानां यस्याकरवम् अंहसम् ॥ 34 ॥

श्लोक 3.14.35

नमो रुद्राय महते देवायोग्राय मीढुषे । शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ 35 ॥

श्लोक 3.14.36

स नः प्रसीदतां भामो भगवान् उर्व्अनुग्रहः । व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सतीपतिः ॥ 36 ॥

श्लोक 3.14.37

स्वसर्गस्याशिषं लोक्याम् आशासानां प्रवेपतीम् । निवृत्तसन्ध्यानियमो भार्याम् आह प्रजापतिः ॥ 37 ॥

श्लोक 3.14.38

अप्रायत्याद् आत्मनस् ते दोषान् मौहूर्तिकाद् उत । मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ 38 ॥

श्लोक 3.14.39

भविष्यतस् तवाभद्राव् अभद्रे जाठराधमौ । लोकान् सपालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः ॥ 39 ॥

श्लोक 3.14.40

प्राणिनां हन्यमानानां दीनानाम् अकृतागसाम् । स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ 40 ॥

श्लोक 3.14.41

तदा विश्वेश्वरः क्रुद्धो भगवाल् लोकभावनः । हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ 41 ॥

श्लोक 3.14.42

वधं भगवता साक्षात् सुनाभोदारबाहुना । आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् प्रभो ॥ 42 ॥

श्लोक 3.14.43

न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च । नारकाश् चानुगृह्णन्ति यां यां योनिम् असौ गतः ॥ 43 ॥

श्लोक 3.14.44

कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् । भगवत्य् उरुमानाच् च भवे मय्य् अपि चादरात् ॥ 44 ॥

श्लोक 3.14.45

पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः । गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥ 45 ॥

श्लोक 3.14.46

योगैर् हेमेव दुर्वर्णं भावयिष्यन्ति साधवः । निर्वैरादिभिर् आत्मानं यच्छीलम् अनुवर्तितुम् ॥ 46 ॥

श्लोक 3.14.47

यत्प्रसादाद् इदं विश्वं प्रसीदति यद्आत्मकम् । स स्वदृग् भगवान् यस्य तोष्यते ऽनन्यया दृशा ॥ 47 ॥

श्लोक 3.14.48

स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः । प्रवृद्धभक्त्या ह्य् अनुभाविताशये निवेश्य वैकुण्ठम् इमं विहास्यति ॥ 48 ॥

श्लोक 3.14.49

अलम्पटः शीलधरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु । अभूतशत्रुर् जगतः शोकहर्ता नैदाघिकं तापम् इवोडुराजः ॥ 49 ॥

श्लोक 3.14.50

अन्तर् बहिश् चामलम् अब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम् । पौत्रस् तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ 50 ॥

श्लोक 3.14.51

श्रुत्वा भागवतं पौत्रम् अमोदत दितिर् भृशम् । पुत्रयोश् च वधं कृष्णाद् विदित्वासीन् महामनाः ॥ 51 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ