मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 16

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 16 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.16.1

इति तद् गृणतां तेषां मुनीनां योगधर्मिणाम् । प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ 1 ॥

श्लोक 3.16.2

एतौ तौ पार्षदौ मह्यं जयो विजय एव च । कदर्थीकृत्य मां यद् वो बह्व् अक्राताम् अतिक्रमम् ॥ 2 ॥

श्लोक 3.16.3

यस् त्व् एतयोर् धृतो दण्डो भवद्भिर् माम् अनुव्रतैः । स एवानुमतो ऽस्माभिर् मुनयो देवहेलनात् ॥ 3 ॥

श्लोक 3.16.4

तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे । तद् धीत्य् आत्मकृतं मन्ये यत् स्वपुम्भिर् असत्कृताः ॥ 4 ॥

श्लोक 3.16.5

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि । सो ऽसाधुवादस् तत्कीर्तिं हन्ति त्वचम् इवामयः ॥ 5 ॥

श्लोक 3.16.6

यस्यामृतामलयशःश्रवणावगाहः सद्यः पुनाति जगद् आश्वपचाद् विकुण्ठः &अम्प्; सो ऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिश् छिन्द्यां स्वबाहुम् अपि वः प्रतिकूलवृत्तिम् ॥ 6 ॥

श्लोक 3.16.7

यत्सेवया चरणपद्मपवित्ररेणुं सद्यः क्षताखिलमलं प्रतिलब्धशीलम् । न श्रीर् विरक्तम् अपि मां विजहाति यस्याः प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ 7 ॥

श्लोक 3.16.8

नाहं तथाद्मि यजमानहविर् विताने श्च्योतद्घृतप्लुतम् अदन् हुतभुङ्मुखेन । यद् ब्राह्मणस्य मुखतश् चरतो ऽनुघासं तुष्टस्य मय्य् अवहितैर् निजकर्मपाकैः ॥ 8 ॥

श्लोक 3.16.9

येषां बिभर्म्य् अहम् अखण्डविकुण्ठयोगमायाविभूतिर् अमलाङ्घ्रिरजः किरीटैः । विप्रांस् तु को न विषहेत यद्अर्हणाम्भः सद्यः पुनाति सहचन्द्रललामलोकान् ॥ 9 ॥

श्लोक 3.16.10

ये मे तनूर् द्विजवरान् दुहतीर् मदीया भूतान्य् अलब्धशरणानि च भेदबुद्ध्या । द्रक्ष्यन्त्य् अघक्षतदृशो ह्य् अहिमन्यवस् तान् गृध्रा रुषा मम कुषन्त्य् अधिदण्डनेतुः ॥ 10 ॥

श्लोक 3.16.11

ये ब्राह्मणान् मयि धिया क्षिपतो ऽर्चयन्तस् तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः । वाण्यानुरागकलयात्मजवद् गृणन्तः सम्बोधयन्त्य् अहम् इवाहम् उपाहृतस् तैः ॥ 11 ॥

श्लोक 3.16.12

तन् मे स्वभर्तुर् अवसायम् अलक्षमाणौ युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः । भूयो ममान्तिकम् इतां तद् अनुग्रहो मे यत् कल्पताम् अचिरतो भृतयोर् विवासः ॥ 12 ॥

श्लोक 3.16.13

अथ तस्योशतीं देवीम् ऋषिकुल्यां सरस्वतीम् । नास्वाद्य मन्युदष्टानां तेषाम् आत्माप्य् अतृप्यत ॥ 13 ॥

श्लोक 3.16.14

सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व्अर्थगह्वराम् । विगाह्यागाधगम्भीरां न विदुस् तच्चिकीर्षितम् ॥ 14 ॥

श्लोक 3.16.15

ते योगमाययारब्धपारमेष्ठ्यमहोदयम् । प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥ 15 ॥

श्लोक 3.16.16

न वयं भगवन् विद्मस् तव देव चिकीर्षितम् । कृतो मे ऽनुग्रहश् चेति यद् अध्यक्षः प्रभाषसे ॥ 16 ॥

श्लोक 3.16.17

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो । विप्राणां देवदेवानां भगवान् आत्मदैवतम् ॥ 17 ॥

श्लोक 3.16.18

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस् तव । धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ 18 ॥

श्लोक 3.16.19

तरन्ति ह्य् अञ्जसा मृत्युं निवृत्ता यद्अनुग्रहात् । योगिनः स भवान् किं स्विद् अनुगृह्येत यत् परैः ॥ 19 ॥

श्लोक 3.16.20

यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर् अर्थार्थिभिः स्वशिरसा धृतपादरेणुः &अम्प्; धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो लोकं मधुव्रतपतेर् इव कामयाना ॥ 20 ॥

श्लोक 3.16.21

यस् तां विविक्तचरितैर् अनुवर्तमानां नात्याद्रियत् परमभागवतप्रसङ्गः । स त्वं द्विजानुपथपुण्यरजःपुनीतः श्रीवत्सलक्ष्म किम् अगा भगभाजनस् त्वम् ॥ 21 ॥

श्लोक 3.16.22

धर्मस्य ते भगवतस् त्रियुग त्रिभिः स्वैः पद्भिश् चराचरम् इदं द्विजदेवतार्थम् । नूनं भृतं तद्अभिघाति रजस् तमश् च सत्त्वेन नो वरदया तनुवा निरस्य ॥ 22 ॥

श्लोक 3.16.23

न त्वं द्विजोत्तमकुलं यदि हात्मगोपं गोप्ता वृषः स्वर्हणेन ससूनृतेन । तर्ह्य् एव नङ्क्ष्यति शिवस् तव देव पन्था लोको ऽग्रहीष्यद् ऋषभस्य हि तत् प्रमाणम् ॥ 23 ॥

श्लोक 3.16.24

तत् ते ऽनभीष्टम् इव सत्त्वनिधेर् विधित्सोः क्षेमं जनाय निजशक्तिभिर् उद्धृतारेः । नैतावता त्र्य्अधिपतेर् बत विश्वभर्तुस् तेजः क्षतं त्व् अवनतस्य स ते विनोदः ॥ 24 ॥

श्लोक 3.16.25

यं वानयोर् दमम् अधीश भवान् विधत्ते वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् । अस्मासु वा य उचितो ध्रियतां स दण्डो ये ऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ 25 ॥

श्लोक 3.16.26

एतौ सुरेतरगतिं प्रतिपद्य सद्यः संरम्भसम्भृतसमाध्य्अनुबद्धयोगौ । भूयः सकाशम् उपयास्यत आशु यो वः शापो मयैव निमितस् तद् अवेत विप्राः ॥ 26 ॥

श्लोक 3.16.27

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् । वैकुण्ठं तद्अधिष्ठानं विकुण्ठं च स्वयंप्रभम् ॥ 27 ॥

श्लोक 3.16.28

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ 28 ॥

श्लोक 3.16.29

भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् । ब्रह्मतेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे ॥ 29 ॥

श्लोक 3.16.30

एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा । पुरापवारिता द्वारि विशन्ती मय्य् उपारते ॥ 30 ॥

श्लोक 3.16.31

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् । प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ 31 ॥

श्लोक 3.16.32

द्वाःस्थाव् आदिश्य भगवान् विमानश्रेणिभूषणम् । सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यम् आविशत् ॥ 32 ॥

श्लोक 3.16.33

तौ तु गीर्वाणऋषभौ दुस्तराद् धरिलोकतः । हतश्रियौ ब्रह्मशापाद् अभूतां विगतस्मयौ ॥ 33 ॥

श्लोक 3.16.34

तदा विकुण्ठधिषणात् तयोर् निपतमानयोः । हाहाकारो महान् आसीद् विमानाग्र्येषु पुत्रकाः ॥ 34 ॥

श्लोक 3.16.35

ताव् एव ह्य् अधुना प्राप्तौ पार्षदप्रवरौ हरेः । दितेर् जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ 35 ॥

श्लोक 3.16.36

तयोर् असुरयोर् अद्य तेजसा यमयोर् हि वः । आक्षिप्तं तेज एतर्हि भगवांस् तद् विधित्सति ॥ 36 ॥

श्लोक 3.16.37

विश्वस्य यः स्थितिलयोद्भवहेतुर् आद्यो योगेश्वरैर् अपि दुरत्यययोगमायः &अम्प्; क्षेमं विधास्यति स नो भगवांस् त्र्यधीशस् तत्रास्मदीयविमृशेन कियान् इहार्थः ॥ 37 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ