मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 18

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.18.1

तद् एवम् आकर्ण्य जलेशभाषितं महामनास् तद् विगणय्य दुर्मदः । हरेर् विदित्वा गतिम् अङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः ॥ 1 ॥

श्लोक 3.18.2

ददर्श तत्राभिजितं धराधरं प्रोन्नीयमानावनिम् अग्रदंष्ट्रया । मुष्णन्तम् अक्ष्णा स्वरुचो ऽरुणश्रिया जहास चाहो वनगोचरो मृगः ॥ 2 ॥

श्लोक 3.18.3

आहैनम् एह्य् अज्ञ महीं विमुञ्च नो रसौकसां विश्वसृजेयम् अर्पिता । न स्वस्ति यास्यस्य् अनया ममेक्षतः सुराधमासादितसूकराकृते ॥ 3 ॥

श्लोक 3.18.4

त्वं नः सपत्नैर् अभवाय किं भृतो यो मायया हन्त्य् असुरान् परोक्षजित् । त्वां योगमायाबलम् अल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ॥ 4 ॥

श्लोक 3.18.5

त्वयि संस्थिते गदया शीर्णशीर्षण्य् अस्मद्भुजच्युतया ये च तुभ्यम् । बलिं हरन्त्य् ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्य् अमूलाः ॥ 5 ॥

श्लोक 3.18.6

स तुद्यमानो ऽरिदुरुक्ततोमरैर् दंष्ट्राग्रगां गाम् उपलक्ष्य भीताम् । तोदं मृषन् निरगाद् अम्बुमध्याद् ग्राहाहतः सकरेणुर् यथेभः ॥ 6 ॥

श्लोक 3.18.7

तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः । करालदंष्ट्रो ऽशनिनिस्वनो ऽब्रवीद् गतह्रियां किं त्व् असतां विगर्हितम् ॥ 7 ॥

श्लोक 3.18.8

स गाम् उदस्तात् सलिलस्य गोचरे विन्यस्य तस्याम् अदधात् स्वसत्त्वम् । अभिष्टुतो विश्वसृजा प्रसूनैर् आपूर्यमाणो विबुधैः पश्यतो ऽरेः ॥ 8 ॥

श्लोक 3.18.9

परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम् । मर्माण्य् अभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रहसंस् तं बभाषे ॥ 9 ॥

श्लोक 3.18.10

सत्यं वयं भो वनगोचरा मृगा युष्मद्विधान् मृगये ग्रामसिंहान् । न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्य् अभद्र ॥ 10 ॥

श्लोक 3.18.11

एते वयं न्यासहरा रसौकसां गतह्रियो गदया द्रावितास् ते । तिष्ठामहे ऽथापि कथञ्चिद् आजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ 11 ॥

श्लोक 3.18.12

त्वं पद्रथानां किल यूथपाधिपो घटस्व नो ऽस्वस्तय आश्व् अनूहः । संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्य् असभ्यः ॥ 12 ॥

श्लोक 3.18.13

सो ऽधिक्षिप्तो भगवता प्रलब्धश् च रुषा भृशम् । आजहारोल्बणं क्रोधं क्रीड्यमानो ऽहिराड् इव ॥ 13 ॥

श्लोक 3.18.14

सृजन्न् अमर्षितः श्वासान् मन्युप्रचलितेन्द्रियः । आसाद्य तरसा दैत्यो गदया न्यहनद् धरिम् ॥ 14 ॥

श्लोक 3.18.15

भगवांस् तु गदावेगं विसृष्टं रिपुणोरसि । अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् ॥ 15 ॥

श्लोक 3.18.16

पुनर् गदां स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः । अभ्यधावद् धरिः क्रुद्धः संरम्भाद् दष्टदच्छदम् ॥ 16 ॥

श्लोक 3.18.17

ततश् च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः । आजघ्ने स तु तां सौम्य गदया कोविदो ऽहनत् ॥ 17 ॥

श्लोक 3.18.18

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिर् एव च । जिगीषया सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः ॥ 18 ॥

श्लोक 3.18.19

तयोः स्पृधोस् तिग्मगदाहताङ्गयोः क्षतास्रवघ्राणविवृद्धमन्य्वोः । विचित्रमार्गांश् चरतोर् जिगीषया व्यभाद् इलायाम् इव शुष्मिणोर् मृधः ॥ 19 ॥

श्लोक 3.18.20

दैत्यस्य यज्ञावयवस्य मायागृहीतवाराहतनोर् महात्मनः । कौरव्य मह्यां द्विषतोर् विमर्दनं दिदृक्षुर् आगाद् ऋषिभिर् वृतः स्वराट् ॥ 20 ॥

श्लोक 3.18.21

आसन्नशौण्डीरम् अपेतसाध्वसं कृतप्रतीकारम् अहार्यविक्रमम् । विलक्ष्य दैत्यं भगवान् सहस्रणीर् जगाद नारायणम् आदिसूकरम् ॥ 21 ॥

श्लोक 3.18.22

एष ते देव देवानाम् अङ्घ्रिमूलम् उपेयुषाम् । विप्राणां सौरभेयीणां भूतानाम् अप्य् अनागसाम् ॥ 22 ॥

श्लोक 3.18.23

आगस्कृद् भयकृद् दुष्कृद् अस्मद्राद्धवरो ऽसुरः । अन्वेषन्न् अप्रतिरथो लोकान् अटति कण्टकः ॥ 23 ॥

श्लोक 3.18.24

मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् । आक्रीड बालवद् देव यथाशीविषम् उत्थितम् ॥ 24 ॥

श्लोक 3.18.25

न यावद् एष वर्धेत स्वां वेलां प्राप्य दारुणः । स्वां देव मायाम् आस्थाय तावज् जह्य् अघम् अच्युत ॥ 25 ॥

श्लोक 3.18.26

एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो । उपसर्पति सर्वात्मन् सुराणां जयम् आवह ॥ 26 ॥

श्लोक 3.18.27

अधुनैषो ऽभिजिन् नाम योगो मौहूर्तिको ह्य् अगात् । शिवाय नस् त्वं सुहृदाम् आशु निस्तर दुस्तरम् ॥ 27 ॥

श्लोक 3.18.28

दिष्ट्या त्वां विहितं मृत्युम् अयम् आसादितः स्वयम् । विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि ॥ 28 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ