श्रीमद्भागवत तृतीय स्कन्ध अध्याय 20
श्रीमद्भागवत तृतीय स्कन्ध अध्याय 20 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 3.20.1
महीं प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवो मनुः । कान्य् अन्वतिष्ठद् द्वाराणि मार्गायावरजन्मनाम् ॥ 1 ॥
श्लोक 3.20.2
क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् । यस् तत्याजाग्रजं कृष्णे सापत्यम् अघवान् इति ॥ 2 ॥
श्लोक 3.20.3
द्वैपायनाद् अनवरो महित्वे तस्य देहजः । सर्वात्मना श्रितः कृष्णं तत्परांश् चाप्य् अनुव्रतः ॥ 3 ॥
श्लोक 3.20.4
किम् अन्वपृच्छन् मैत्रेयं विरजास् तीर्थसेवया । उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ 4 ॥
श्लोक 3.20.5
तयोः संवदतोः सूत प्रवृत्ता ह्य् अमलाः कथाः । आपो गाङ्गा इवाघघ्नीर् हरेः पादाम्बुजाश्रयाः ॥ 5 ॥
श्लोक 3.20.6
ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः । रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ 6 ॥
श्लोक 3.20.7
एवम् उग्रश्रवाः पृष्ट ऋषिभिर् नैमिषायनैः । भगवत्य् अर्पिताध्यात्मस् तान् आह श्रूयताम् इति ॥ 7 ॥
श्लोक 3.20.8
हरेर् धृतक्रोडतनोः स्वमायया निशम्य गोर् उद्धरणं रसातलात् । लीलां हिरण्याक्षम् अवज्ञया हतं सञ्जातहर्षो मुनिम् आह भारतः ॥ 8 ॥
श्लोक 3.20.9
प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् । किम् आरभत मे ब्रह्मन् प्रब्रूह्य् अव्यक्तमार्गवित् ॥ 9 ॥
श्लोक 3.20.10
ये मरीच्य्आदयो विप्रा यस् तु स्वायम्भुवो मनुः । ते वै ब्रह्मण आदेशात् कथम् एतद् अभावयन् ॥ 10 ॥
श्लोक 3.20.11
सद्वितीयाः किम् असृजन् स्वतन्त्रा उत कर्मसु । आहो स्वित् संहताः सर्व इदं स्म समकल्पयन् ॥ 11 ॥
श्लोक 3.20.12
दैवेन दुर्वितर्क्येण परेणानिमिषेण च । जातक्षोभाद् भगवतो महान् आसीद् गुणत्रयात् ॥ 12 ॥
श्लोक 3.20.13
रजःप्रधानान् महतस् त्रिलिङ्गो दैवचोदितात् । जातः ससर्ज भूतादिर् वियद्आदीनि पञ्चशः ॥ 13 ॥
श्लोक 3.20.14
तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् । संहत्य दैवयोगेन हैमम् अण्डम् अवासृजन् ॥ 14 ॥
श्लोक 3.20.15
सो ऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः । साग्रं वै वर्षसाहस्रम् अन्ववात्सीत् तम् ईश्वरः ॥ 15 ॥
श्लोक 3.20.16
तस्य नाभेर् अभूत् पद्मं सहस्रार्कोरुदीधिति । सर्वजीवनिकायौको यत्र स्वयम् अभूत् स्वराट् ॥ 16 ॥
श्लोक 3.20.17
सो ऽनुविष्टो भगवता यः शेते सलिलाशये । लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥ 17 ॥
श्लोक 3.20.18
ससर्ज च्छाययाविद्यां पञ्चपर्वाणम् अग्रतः । तामिस्रम् अन्धतामिस्रं तमो मोहो महातमः ॥ 18 ॥
श्लोक 3.20.19
विससर्जात्मनः कायं नाभिनन्दंस् तमोमयम् । जगृहुर् यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् ॥ 19 ॥
श्लोक 3.20.20
क्षुत्तृड्भ्याम् उपसृष्टास् ते तं जग्धुम् अभिदुद्रुवुः । मा रक्षतैनं जक्षध्वम् इत्य् ऊचुः क्षुत्तृड्अर्दिताः ॥ 20 ॥
श्लोक 3.20.21
देवस् तान् आह संविग्नो मा मां जक्षत रक्षत । अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ 21 ॥
श्लोक 3.20.22
देवताः प्रभया या या दीव्यन् प्रमुखतो ऽसृजत् । ते अहार्षुर् देवयन्तो विसृष्टां तां प्रभाम् अहः ॥ 22 ॥
श्लोक 3.20.23
देवो ऽदेवाञ् जघनतः सृजति स्मातिलोलुपान् । त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ 23 ॥
श्लोक 3.20.24
ततो हसन् स भगवान् असुरैर् निरपत्रपैः । अन्वीयमानस् तरसा क्रुद्धो भीतः परापतत् ॥ 24 ॥
श्लोक 3.20.25
स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् । अनुग्रहाय भक्तानाम् अनुरूपात्मदर्शनम् ॥ 25 ॥
श्लोक 3.20.26
पाहि मां परमात्मंस् ते प्रेषणेनासृजं प्रजाः । ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ 26 ॥
श्लोक 3.20.27
त्वम् एकः किल लोकानां क्लिष्टानां क्लेशनाशनः । त्वम् एकः क्लेशदस् तेषाम् अनासन्नपदां तव ॥ 27 ॥
श्लोक 3.20.28
सो ऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः । विमुञ्चात्मतनुं घोराम् इत्य् उक्तो विमुमोच ह ॥ 28 ॥
श्लोक 3.20.29
तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम् । काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम् ॥ 29 ॥
श्लोक 3.20.30
अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम् । सुनासां सुद्विजां स्निग्धहासलीलावलोकनाम् ॥ 30 ॥
श्लोक 3.20.31
गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् । उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ 31 ॥
श्लोक 3.20.32
अहो रूपम् अहो धैर्यम् अहो अस्या नवं वयः । मध्ये कामयमानानाम् अकामेव विसर्पति ॥ 32 ॥
श्लोक 3.20.33
वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् । अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ 33 ॥
श्लोक 3.20.34
कासि कस्यासि रम्भोरु को वार्थस् ते ऽत्र भामिनि । रूपद्रविणपण्येन दुर्भगान् नो विबाधसे ॥ 34 ॥
श्लोक 3.20.35
या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनं तव । उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ॥ 35 ॥
श्लोक 3.20.36
नैकत्र ते जयति शालिनि पादपद्मं घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम् &अम्प्; मध्यं विषीदति बृहत्स्तनभारभीतं शान्तेव दृष्टिर् अमला सुशिखासमूहः ॥ 36 ॥
श्लोक 3.20.37
इति सायन्तनीं सन्ध्याम् असुराः प्रमदायतीम् । प्रलोभयन्तीं जगृहुर् मत्वा मूढधियः स्त्रियम् ॥ 37 ॥
श्लोक 3.20.38
प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानम् आत्मना । कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ 38 ॥
श्लोक 3.20.39
विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् । त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ 39 ॥
श्लोक 3.20.40
सृष्ट्वा भूतपिशाचांश् च भगवान् आत्मतन्द्रिणा । दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ 40 ॥
श्लोक 3.20.41
जगृहुस् तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः । निद्राम् इन्द्रियविक्लेदो यया भूतेषु दृश्यते । येनोच्छिष्टान् धर्षयन्ति तम् उन्मादं प्रचक्षते ॥ 41 ॥
श्लोक 3.20.42
ऊर्जस्वन्तं मन्यमान आत्मानं भगवान् अजः । साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः ॥ 42 ॥
श्लोक 3.20.43
त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे । साध्येभ्यश् च पितृभ्यश् च कवयो यद् वितन्वते ॥ 43 ॥
श्लोक 3.20.44
सिद्धान् विद्याधरांश् चैव तिरोधानेन सो ऽसृजत् । तेभ्यो ऽददात् तम् आत्मानम् अन्तर्धानाख्यम् अद्भुतम् ॥ 44 ॥
श्लोक 3.20.45
स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत् प्रभुः । मानयन्न् आत्मनात्मानम् आत्माभासं विलोकयन् ॥ 45 ॥
श्लोक 3.20.46
ते तु तज् जगृहू रूपं त्यक्तं यत् परमेष्ठिना । मिथुनीभूय गायन्तस् तम् एवोषसि कर्मभिः ॥ 46 ॥
श्लोक 3.20.47
देहेन वै भोगवता शयानो बहुचिन्तया । सर्गे ऽनुपचिते क्रोधाद् उत्ससर्ज ह तद् वपुः ॥ 47 ॥
श्लोक 3.20.48
ये ऽहीयन्तामुतः केशा अहयस् ते ऽङ्ग जज्ञिरे । सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ 48 ॥
श्लोक 3.20.49
स आत्मानं मन्यमानः कृतकृत्यम् इवात्मभूः । तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ 49 ॥
श्लोक 3.20.50
तेभ्यः सो ऽसृजत् स्वीयं पुरं पुरुषम् आत्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ 50 ॥
श्लोक 3.20.51
अहो एतज् जगत्स्रष्टः सुकृतं बत ते कृतम् । प्रतिष्ठिताः क्रिया यस्मिन् साकम् अन्नम् अदाम हे ॥ 51 ॥
श्लोक 3.20.52
तपसा विद्यया युक्तो योगेन सुसमाधिना । ऋषीन् ऋषिर् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ 52 ॥
श्लोक 3.20.53
तेभ्यश् चैकैकशः स्वस्य देहस्यांशम् अदाद् अजः । यत् तत् समाधियोगर्द्धितपोविद्याविरक्तिमत् ॥ 53 ॥