मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 27

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 27 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.27.1

प्रकृतिस्थो ऽपि पुरुषो नाज्यते प्राकृतैर् गुणैः । अविकाराद् अकर्तृत्वान् निर्गुणत्वाज् जलार्कवत् ॥ 1 ॥

श्लोक 3.27.2

स एष यर्हि प्रकृतेर् गुणेष्व् अभिविषज्जते । अहङ्क्रियाविमूढात्मा कर्तास्मीत्य् अभिमन्यते ॥ 2 ॥

श्लोक 3.27.3

तेन संसारपदवीम् अवशो ऽभ्येत्य् अनिर्वृतः । प्रासङ्गिकैः कर्मदोषैः सद्असन्मिश्रयोनिषु ॥ 3 ॥

श्लोक 3.27.4

अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ 4 ॥

श्लोक 3.27.5

अत एव शनैश् चित्तं प्रसक्तम् असतां पथि । भक्तियोगेन तीव्रेण विरक्त्या च नयेद् वशम् ॥ 5 ॥

श्लोक 3.27.6

यमादिभिर् योगपथैर् अभ्यसञ् श्रद्धयान्वितः । मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ 6 ॥

श्लोक 3.27.7

सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः । ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ 7 ॥

श्लोक 3.27.8

यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः । विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ॥ 8 ॥

श्लोक 3.27.9

सानुबन्धे च देहे ऽस्मिन्न् अकुर्वन्न् असद्आग्रहम् । ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ॥ 9 ॥

श्लोक 3.27.10

निवृत्तबुद्ध्य्अवस्थानो दूरीभूतान्यदर्शनः । उपलभ्यात्मनात्मानं चक्षुषेवार्कम् आत्मदृक् ॥ 10 ॥

श्लोक 3.27.11

मुक्तलिङ्गं सद्आभासम् असति प्रतिपद्यते । सतो बन्धुम् असच्चक्षुः सर्वानुस्यूतम् अद्वयम् ॥ 11 ॥

श्लोक 3.27.12

यथा जलस्थ आभासः स्थलस्थेनावदृश्यते । स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ॥ 12 ॥

श्लोक 3.27.13

एवं त्रिवृद्अहङ्कारो भूतेन्द्रियमनोमयैः । स्वाभासैर् लक्षितो ऽनेन सद्आभासेन सत्यदृक् ॥ 13 ॥

श्लोक 3.27.14

भूतसूक्ष्मेन्द्रियमनोबुद्ध्य्आदिष्व् इह निद्रया । लीनेष्व् असति यस् तत्र विनिद्रो निरहङ्क्रियः ॥ 14 ॥

श्लोक 3.27.15

मन्यमानस् तदात्मानम् अनष्टो नष्टवन् मृषा । नष्टे ऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ 15 ॥

श्लोक 3.27.16

एवं प्रत्यवमृश्यासाव् आत्मानं प्रतिपद्यते । साहङ्कारस्य द्रव्यस्य यो ऽवस्थानम् अनुग्रहः ॥ 16 ॥

श्लोक 3.27.17

पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चति कर्हिचित् । अन्योन्यापाश्रयत्वाच् च नित्यत्वाद् अनयोः प्रभो ॥ 17 ॥

श्लोक 3.27.18

यथा गन्धस्य भूमेश् च न भावो व्यतिरेकतः । अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ 18 ॥

श्लोक 3.27.19

अकर्तुः कर्मबन्धो ऽयं पुरुषस्य यद्आश्रयः । गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्व् अतः कथम् ॥ 19 ॥

श्लोक 3.27.20

क्वचित् तत्त्वावमर्शेन निवृत्तं भयम् उल्बणम् । अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते ॥ 20 ॥

श्लोक 3.27.21

अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना । तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ 21 ॥

श्लोक 3.27.22

ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ 22 ॥

श्लोक 3.27.23

प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्निशम् । तिरोभवित्री शनकैर् अग्नेर् योनिर् इवारणिः ॥ 23 ॥

श्लोक 3.27.24

भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः । नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ 24 ॥

श्लोक 3.27.25

यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्अनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ 25 ॥

श्लोक 3.27.26

एवं विदिततत्त्वस्य प्रकृतिर् मयि मानसम् । युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ 26 ॥

श्लोक 3.27.27

यदैवम् अध्यात्मरतः कालेन बहुजन्मना । सर्वत्र जातवैराग्य आब्रह्मभुवनान् मुनिः ॥ 27 ॥

श्लोक 3.27.28

मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा । निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मद्आश्रयम् ॥ 28 ॥

श्लोक 3.27.29

प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः । यद् गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे ॥ 29 ॥

श्लोक 3.27.30

यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जते ऽङ्ग । अनन्यहेतुष्व् अथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्युहासः ॥ 30 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ